यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कणः, पुं, (टकि बन्धे + ल्युः । पृषोदरात् णत्वे साधुः ।) क्षारविशेषः । सोहागा इति भाषा । (यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये । “विरुक्षणोऽनिलकरः श्लेष्मघ्नः पित्तदूषणः । अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणः क्षार उच्यते ॥”) तत्पर्य्यायः । पाचनकः २ मालतीतीरजः ३ लोहश्लेषणः ४ रसशोधनः ५ । इति हेम- चन्द्रः । ४ । १० ॥ टङ्कणक्षारः ६ रङ्गक्षारः ७ रसाधिकः ८ लोहद्रावी ९ रसघ्नः १० सुभगः ११ रङ्गदः १२ वर्त्तुलम् १३ कनकम् १४ क्षारम् १५ मलिनम् १६ धातुवल्लभम् १७ । इति राजनिर्घण्टः ॥ मालतीतीरसम्भवः १८ द्रावी १९ द्रावकः २० लोहशुद्धिकारकः २१ । इति भावप्रकाशः ॥ स्वर्णपाचकः २२ । इति रत्नमाला ॥ अस्य गुणाः । कटुत्वम् । उष्ण- त्वम् । कफस्थावरादिविषकासश्वासनाशित्वञ्च । इति राजनिर्घण्टः ॥ अग्निवातपित्तकारित्वम् । रूक्षत्वम् । इति भावप्रकाशः ॥ (देश- विशेषः । यथा, बृहत्संहितायाम् । १४ । १२ । “कङ्कटटङ्कणवनवासि शिविककणिकारकोङ्कणा- भीराः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कण(न)¦ न॰ टकि--ल्यु पृषो वा णत्वम्। (सोहोगा)ख्याते स्वर्णद्रावके

१ उपरसभेदे। उपरसभेदाश्च भाव॰ प्र॰उक्ता यथा
“गन्धो हिङ्गुलमभ्रतालकशिलाः स्रोतोऽञ्जनंटङ्क(न)णम्। राजावर्त्तकचुम्बकौ स्फटिकया शङ्खःखटी गैरिकम्। कासीसं रसकं कपर्दसिकतावोलाश्चकङ्कुष्ठकम् सौराष्ट्री च मता अमी उपरसाः सूतस्यकिञ्चिद्गुणैः”।
“तद्यथा लवणेन सुवर्णम्” छा॰उ॰ भाष्ये
“लवणेन क्षारेण टङ्कनादिना, स्वरेषु मृदुत्व-करं हि तत्” भा॰।
“टङ्कणं वह्निकृद्रक्षं कफ-वातिकपित्तहृत्” भावप्र॰। भावेल्युट्। (टां कादेअओयापानिदिया झाला)

२ धातूनां योजनभेदे। दन्त्यान्तः

३ अश्व-भेदे पु॰ स्त्री
“तङ्कनखरनखरखण्डितहरितालपांशुलेन” काद॰ मूर्द्धन्यान्तः

४ देशभेदे स च देशः वृ॰ स॰

१४ अ॰। कूर्मविभागे दक्षिणस्यामुक्तः।
“अथ दक्षिणेन लङ्का” इत्यु-पक्रमे
“कङ्कटटङ्कनंवनवासिशिविकफणिकारकोङ्कणा-भीराः” इत्युक्तेः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कणम् [ṭaṅkaṇam] नम् [nam] , (नम्) 1 Borax.

Binding, tying.

णः (नः) A species of horse.

N. of a people. -Comp. -क्षारः borax.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कण m. borax Ka1d.

टङ्कण m. pl. N. of a people(See. तङ्ग्) R. iv , 44 , 20 VarBr2S. , xiv.

"https://sa.wiktionary.org/w/index.php?title=टङ्कण&oldid=391820" इत्यस्माद् प्रतिप्राप्तम्