यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढ, ढकारः । स व्यञ्जनचतुर्द्दशवर्णः । टवर्गचतुर्थ- वर्णश्च । (अर्द्धमात्राकालेनोच्चारणीयः ।) अस्यो- च्चारणस्थानं मूर्द्धा । इति व्याकरणम् ॥ (पाणि- नीयादिषु अस्योच्चारणे जिह्वामध्यभागेन मूर्द्ध्नः स्पर्शः आभ्यन्तरप्रयत्नः । संवारणादघोषा महा- प्राणश्च बाह्यप्रयत्नाः । मातृकान्यासेऽस्य दक्ष- पादाङ्गुलीमूले न्यासक्रिया । वङ्गीयवर्णमाला- याम् ।) तस्य लेखनप्रकारो यथा, -- “ऊर्द्ध्वाधःक्रमतो रेखा वामदक्षिणतो गता । ततः सा कुण्डलीरूपा विष्ण्वीशब्रह्मरूपिणी ॥ महाशक्तिमयी मात्रा ध्यानमस्य प्रचक्ष्यते । रक्तोत्पलनिभां रम्यां रक्तपङ्कजलोचनाम् ॥ अष्टादशभुजां भीमां महामोक्षप्रदायिनीम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य स्वरूपं यथा, कामधेनुतन्त्रे । “ढकारं परमाराध्यं या स्वयं कुण्डली परा । पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा ॥ सदा त्रिगुणसंयुक्तं आत्मादितत्त्वसंयुतम् । रक्तविद्युल्लताकारं ढकारं प्रणमाम्यहम् ॥” तस्य २६ षड्विंशतिनामानि यथा, -- “ढो ढक्का निर्णयः पूर्ब्बो यज्ञेशादनदेश्वरः । अर्द्धनारीश्वरस्तोयमीश्वरी त्रिशिखी नवः ॥ दक्षपादाङ्गुलेर्मूलं सिद्धिदण्डा विनायकः । प्रहासा त्रिवेरा ऋद्धिर्निर्गुणो निधनो ध्वनिः ॥ विघ्नेशः पालिनी त्वक्कधारिणी क्रोडपुच्छकः । एलापुरं त्वगात्मा च विशाखा श्रीमनोरतिः ॥” इति नानातन्त्रशास्त्रम् ॥

ढः, पुं, (ढौकते उच्चैःशब्देन आवृणोति श्रवणे- न्द्रियमिति । ढौक गत्यावरणयोः + डः ।) ढक्का । (यथा, तन्त्रे । “ढो ढक्का निर्णयः पूर्ब्बो यज्ञेशादनदेश्वरः ॥”) श्वा । श्वलाङ्गूलम् । इति मेदिनी । ढे, १ ॥ निर्गुणः । ध्वनिः । इत्येकाक्षरकोषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰

१ ढक्कायां

२ शुनि

३ श्वलाङ्गूले च मेदि॰। तस्य तदा-कृतित्वात् तथात्वम्।

४ निर्गुणे

५ ध्वनौ च एकाक्षरको॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढ¦ The aspirate of the preceding letter corresponding D'h: the use of this as an initial letter is very limited and several of the words in which it occurs can scarcely be regarded as pure Sanskrit.

ढ¦ m. (-ढः)
1. A large drum.
2. A dog.
3. A dog's tail.
4. Sound.
5. A serpent.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढः [ḍhḥ], 1 An imitative sound.

A large drum.

A dog's tail.

A dog.

A serpent.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढ the aspirate of the preceding letter ,

ढ mfn. = निर्-गुणL.

ढ m. an imitative sound L.

ढ m. a large drum L.

ढ m. a dog L.

ढ m. a dog's tail L.

ढ m. a serpent W.

"https://sa.wiktionary.org/w/index.php?title=ढ&oldid=507756" इत्यस्माद् प्रतिप्राप्तम्