यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तटस्थम्, क्ली, लक्षणविशेषः । तस्य स्वरूपं यथा, तद्भिन्नत्वे सति तद्बोधकत्वम् । तथाच । “स्वरूपं तटस्थं द्बिधालक्षणं स्यात् स्वरूपस्य बोधो यतो लक्षणाभ्याम् । स्वरूपे प्रविष्टात् स्वरूपेऽप्रविष्टात् यथा काकवन्तो गृहाः खं विलञ्च ॥” इति वेदान्तकारिका ॥ (तटे तिष्ठतीति । स्था + कः ।) तटस्थिते, त्रि ॥ (उदासीनः । यथा, नैषधे । ३ । ५५ । “धिक् चापले वत्सिमवत्सलत्वं यत्प्रेरणादुत्तरलीभवन्त्या । समीरसङ्गादिव नीरभङ्ग्या मया तटस्थस्त्वमुपद्रुतोऽसि ॥” समीपस्थः । यथाह बलः । “तटस्थः स्यादुदासीने तीरस्थनिकटस्थयोः ॥”)

"https://sa.wiktionary.org/w/index.php?title=तटस्थम्&oldid=136912" इत्यस्माद् प्रतिप्राप्तम्