यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडागः, पुं क्ली, (तड + तडागादयश्च । इति आगप्रत्ययेन निपातनात् साधुः ।) यन्त्रकूटकः । इति मेदिनी । गे, ३६ ॥ (तण्ड्यते आहन्यते ऊर्म्मिमालाभिरिति । तडि आहतौ + कर्म्मणि आकः ।) पद्मादियुक्तं सरः । तत्पर्य्यायः । पद्माकरः २ । इत्यमरः । १ । १० । २८ ॥ तडाकः ३ तटाकः ४ । इति शब्दरत्नावली ॥ तडगः ५ । इति द्बिरूपकोषः ॥ शञ्चशत- घनुःपरिमाणजलाशयः । चतुर्द्दिक्षु पञ्चचत्वा- रिंशद्धस्तान्यूनतायां सहस्रद्बितयहस्तान्यूनत्वेन तडागः । इति नव्यवर्द्धमानधृतो वशिष्ठः ॥ * ॥ तस्य जलगुणाः । वायुकारित्वत् । स्वादुत्वम् । कषायत्वम् । पाके कटुत्वम् । शिशिरहिमकाले प्रशस्तत्वञ्च । इति राजवल्लभः ॥ * ॥ तस्योत्- सर्गविधिर्यथा, -- पुलस्त्य उवाच । “शृणु राजन्महाबाहो ! तडागादिषु यो विधिः । पुराणेष्वितिहासेषु मन्यते राजसत्तम ! ॥ प्राप्य पक्षं शुभं शुक्लमागते चोत्तरायणे । पुण्येऽह्नि विप्रैः क्रियते कृत्वा ब्राह्मणवाचनम् ॥ प्राक्प्रस्रवणादम्भस्तडागस्य समीपतः ॥ चतुर्हस्तसमा वेदी चतुरस्रा समन्ततः । तथा षोडशहस्तः स्यान्मण्डपश्च चतुर्मुखः ॥ वेद्या उत्तरतो गर्त्तारत्निमात्रा तु मेखला । नवसप्ताथवा पञ्च योनिवक्त्रा नृपात्मज ! ॥ वितस्तिमात्रा योनिः स्यात् षट्सप्ताङ्गुल- विस्तृता । सर्व्वे स्वहस्तमात्राः स्युस्त्रिपर्व्वोच्छ्रितमेखलाः ॥ सर्व्वे च सर्व्ववर्णाः स्युः पताकाध्वजसंयुताः । अश्वत्थोडम्बरप्लक्षवटशाखाकृतानि च ॥ मण्डंपस्य प्रतिदिशं द्बाराण्येतानि कारयेत् ॥ शुभास्तत्राष्ट होतारो द्बारपालास्तथापरे । अष्टौ तु जापकाः कार्य्या ब्राह्मणा वेदपारगाः ॥ सर्व्वलक्षणसम्पूर्णा मन्त्रविद्बिजितेन्द्रियाः । कुलशीलसमायुक्ताः स्थापिता द्बिजसत्तमाः ॥ प्रतिस्तम्भेषु कलसा यज्ञोपस्करणानि च । व्यजनञ्चासनं शुभ्रं ताम्रपात्रं सुविस्तरम् ॥ आचार्य्यः प्रक्षिपेद्भूम्यामनुचन्द्रं विचक्षणः । त्र्यरत्निमात्रो यूपः स्यात् क्षीरिवृक्षविनिर्म्मितः ॥ यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता ॥ हेमालङ्करिणः कार्य्याः पञ्चविंशतिऋत्विजः ॥ कुण्डलानि च हैमानि केयूरकटकानि च । तथाङ्गुलीपवित्राणि वासांसि विविधानि च ॥ दद्युः समानि सर्व्वेषामाचार्य्ये द्बिगुणं पुनः । दद्याच्छयनसंयुक्तमात्मनश्चापि यत् कृतम् ॥ सौवर्णौ कूर्म्ममकरौ राजतौ मत्स्यडुण्डुभौ । तथा कुलीरमण्डूका वायसः शिशुमारकः ॥ एवमासाद्य तत् सर्व्वं स्वर्णपात्रं विशाम्पते ! । शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ॥ सर्व्वौषध्युदकस्नातः पाठितो वेदपुङ्गवैः । पूजयित्वा सुरांस्तत्र वलिं दद्यात् समन्वितः । पुनर्द्दिनानि होतव्यं चत्वारि राजसत्तम ! ॥ चतुर्थीकर्म्म कर्त्तव्यं देयं तत्रापि शक्तितः । कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च ॥ ऋत्विग्भ्यस्तु समं दद्यात् मण्डपं विभजेत् पुनः । होमपात्रञ्च शय्याञ्च आचार्य्याय निवेदयेत् ॥ ततः सहस्रं विप्राणामथवाष्टशतं तथा । भोजयेच्च यथाशक्त्या पञ्चाशद्बाथ विंशतिः ॥ एवमेव पुराणेषु तडागविधिरुच्यते । कूपवापीषु सर्व्वासु तथा पुष्करिणीषु च ॥ एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च । मन्त्रतस्तु विशेषः स्यात् प्रासादोद्यानभूमिषु ॥ अयन्तु ऋत्विगाचार्य्यविधिदृष्टेन कर्म्मणा । अल्पेष्वेकाग्निवत् कार्य्यं वित्तशाठ्यादृते नृणाम् ॥” तडागे कालविशेषे जलस्थितेः फलं यथा, -- “प्रावृट्काले स्थितं तोयमग्निष्टोमसमं स्मृतम् । शरत्काले स्थितं तोयं यदुक्तफलदायकम् ॥ वाजपेयफलसमं हेमन्तशिशिरस्थितम् । अश्वमेधसमं प्राहुर्व्वसन्तसमयस्थितम् ॥ ग्रीष्मेऽपि तु ख्यितं तोयं राजसूयफलाधिकम् ॥” तडागकरणे फलं यथा, -- “एतान्महाराज ! विशेषधर्म्मान् करोति योऽर्घ्यान्त्वथ शुद्धबुद्धिः । स याति ब्रह्मालयमेककल्पं दिवं पुनर्याति तथैव दिव्यम् ॥” इति पाद्मे सृष्टिखण्डम् ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तडागः [taḍāgḥ] गम् [gam], गम् 1 A pond, deep pool, tank; स्फुटकमलोदर- खेलितखञ्जनयुगमिव शरदि तडागम् Gīt.11; Ms.4.23; Y.3. 237.

A tank.

A trap for catching deer.

"https://sa.wiktionary.org/w/index.php?title=तडागः&oldid=393960" इत्यस्माद् प्रतिप्राप्तम्