यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाचारः, पुं, (दक्षिणोऽप्रतिकूल आचारः ।) आचारविशेषः । यथा, -- “स्वधर्म्मनिरतो भूत्वा पञ्चतत्त्वेन पूजयेत् । स एव दक्षिणाचारः शिवोभूत्वा शिवां यजेत् ॥” इत्याचारभेदतन्त्रम् ॥ (एतदाचारोक्तकर्म्मादिकं वामाचारवत् कठोर- तरं न । तथाच काशीराजप्रणीतदक्षिणा- चारतन्त्रे । “दक्षिणाचारतन्त्रोक्तं कर्म्म तच्छुद्धवैदिकम् ॥” दक्षिणोऽनुकूलः साधुराचारो व्यवहारो यस्य । शिष्टाचारविशिष्टे, त्रि । यथा, महाभारते । ४ । ५ । २७ । “दक्षिणां दक्षिणाचारो दिशं येनाजयत् प्रभुः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाचार¦ पु॰ कर्म॰

१ तन्त्रोक्ते आचारभेदे।
“स्वधर्मनि-रतो भूत्वा पञ्चतत्त्वेन पूजयेत्। स एव दक्षिणाचारःशिवो भूत्वा शिवां यजेत्” आचारभेदतन्त्रम्। इयांस्तुतत्र भेदः मद्यस्थाने विजयारसः।
“चतुर्मकाराःसन्त्येव पञ्चमो विजयारसः” इत्युक्तेः। दक्षिणा दक्षि-णस्यां चारो गतिरस्य।

२ दक्षिणदिग्गतिशालिनित्रि॰।
“दक्षिणां दक्षिणाचारो दिशं येनाजयत् प्रभुः” भा॰ वि॰

५ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाचार¦ m. (-रः) A worshipper of Sakti according to the purer or right-hand ritual. E. दक्षिण, and आचार observance.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाचार वि.
(दक्षिणे दक्षिणस्य वा आचारः) (वेदि के) दक्षिण की ओर कार्य करना, मा.श्रौ.सू. 1.1.1.6.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणाचार&oldid=478615" इत्यस्माद् प्रतिप्राप्तम्