यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणीयः, त्रि, (दक्षिणामर्हतीति । दक्षिणा + “कडङ्करदक्षिणाच्छ च ।” ५ । १ । ६९ । इति छः ।) दक्षिणार्हः । इत्यमरः । ३ । १ । ५ । (यथा, हरिवंशे । ४८ । ७९ । “क्रतवः संप्रवर्त्त्यन्तां दक्षिणीयैर्द्विजातिभिः । दक्षिणाश्चोपवर्त्तन्तां यथोक्ताः सर्व्वसत्रिणः ॥” तथाच अथर्व्ववेदे । ८ । १० । ४ । “यज्ञर्तोदक्षिणीयो वासतेयो भवति य एवं वेद ॥”)

"https://sa.wiktionary.org/w/index.php?title=दक्षिणीयः&oldid=139356" इत्यस्माद् प्रतिप्राप्तम्