यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणेर्म्मा, [न्] पुं, (दक्षिणे ईर्म्मं व्रणं यस्य । “दक्षिणेर्म्मा लुब्धयोगे ।” ५ । ४ । १२६ । इति अनिच् ।) व्याधशराघातात् दक्षिणाङ्गव्रण- युक्तमृगः । तत्पर्य्यायः । दक्षिणारुः २ । इत्य- मरः । १० । २४ ॥ (यथा, भट्टिः । ४ । ४४ । “मृगयुमिव मृगोऽथ दक्षिणेर्म्मा दिशमिव दाहवतीं मरावुदन्यन् ॥”)

"https://sa.wiktionary.org/w/index.php?title=दक्षिणेर्म्मा&oldid=139358" इत्यस्माद् प्रतिप्राप्तम्