यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनञ्जयः, पुं, (धनं जयति सम्पादयतीति । जि + खच् + मुम् । “धनमिच्छेत् हुताशनात् ।” इत्युक्तेरस्य तथात्वम् ।) अग्निः । चित्रकवृक्षः । इत्यमरः । १ । १ । ५६ ॥ (धनं जयति अरीन् निर्जित्य अर्ज्जयतीति । जि + खच् + मुम् च ।) अर्ज्जुनः । (अस्य निरुक्तिर्यथा, महाभारते । ४ । ४२ । १३ । “सर्व्वान् जनपदान् जित्वा वित्तमाश्रित्य केवलम् । मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनञ्जयम् ॥”) नागभेदः । स तु जलाशयाधिपतिः । (यथा, महाभारते । २ । ९ । ९ । “कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ । मणिमान् कुण्डधारश्च कर्कोटकधनञ्जयौ ॥”) देहमारुतः । स च शरीरवाह्यपञ्चवाय्वन्तर्गतः इति मेदिनी । ये, १२० ॥ (“धनञ्जयः पोषण- करः ।” इति वेदान्तसारः । ३३ ॥ “न जहाति मृतञ्चापि सर्व्वव्यापी धनञ्जयः ॥” इति सुबोधिनी ॥) “धनञ्जयस्तथा घोषे महारजतवर्णकः । ललाटे चोरसि स्कन्धे हृदि नाभौ त्वगस्थिषु ॥” इति शारदातिलकटीकायां राघवभट्टः ॥ अर्ज्जुनवृक्षः । इति रत्नमाला ॥ * ॥ (गोत्र- विशेषः । तद्बंशीये, त्रि । यथा, महाभारते । २ । ३३ । ३४ । “धनञ्जयानामृषभः सुसामा सामगोऽभवत् ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ८३ । “अनिर्द्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥” “यत् दिग्विजये धनं प्रभूतं अजयत्तेन धनञ्जयः । ‘पाण्डवानां धनञ्जयः ।’ इति भगवद्वचनात् ।” इति शाङ्करभाष्यम् ॥ षोडशद्वापरस्य व्यासः । यथा, देवीभागवते । १ । ३ । ३० । “त्रय्यारुणिः पञ्चदशे षोडशे तु धनञ्जयः ॥”)

"https://sa.wiktionary.org/w/index.php?title=धनञ्जयः&oldid=142216" इत्यस्माद् प्रतिप्राप्तम्