यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदः, पुं, (धनं दयते पालयतीति । दे ङ पालने + “आतोऽतुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) कुबेरः । इत्यमरः । १ । १ । ७२ ॥ (यथा, देवीभागवते । ५ । ३ । ४० । “त्रिविष्टपं ग्रहीष्यामि जित्वेन्द्रं वरुणं यमम् । धनदं पावकञ्चैव चन्द्रसूर्य्यौ विजित्य च ॥” ब्रह्मा अस्य तपसा सन्तुष्ट एनं धनेशं चकार । यथा, अध्यात्मरामायणे । ७ । १ । ३८ । “ददौ तत्तपसा तुष्टो ब्रह्मा तस्मै वरं शुभम् । मनोऽभिलषितं तस्य धनेशत्वमखण्डितम् ॥”) हिज्जलवृक्षः । इति राजनिर्घण्टः ॥ (धनदः आश्रयित्वेनास्त्यस्येति अच् । हिमवत एक- देशः । यथा, महाभारते । १३ । १९ । १६ । “धनदं समतिक्रम्य हिमवन्तञ्च पर्व्वतम् ॥” धनं ददातीति । दा + कः ।) दातरि, त्रि । इति मेदिनी । दे, ३२ ॥ (यथा, कामन्दकीय- नीतिसारे । ३ । २३ । “उद्वेजयति भूतानिक्रूरवाक् धनदोऽपि सन् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनद पुं।

कुबेरः

समानार्थक:कुबेर,त्र्यम्बकसख,यक्षराज्,गुह्यकेश्वर,मनुष्यधर्मन्,धनद,राजराज,धनाधिप,किन्नरेश,वैश्रवण,पौलस्त्य,नरवाहन,यक्ष,एकपिङ्ग,ऐलविल,श्रीद,पुण्य,जनेश्वर,एककुण्डल

1।1।68।2।2

कुबेरस्त्र्यम्बकसखो यक्षराड्गुह्यकेश्वरः। मनुष्यधर्मा धनदो राजराजो धनाधिपः॥

सम्बन्धि2 : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,सामान्यनिधिः

जन्य : नलकूबरः

सेवक : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,किन्नरः

 : किन्नरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनद¦ पु॰ धनं दयते देङ--पालने धनं ददाति दा--दाने वाक।

१ कुवेरे अमरः।

२ धनदातरि त्रि॰ मेदि॰

३ देवीभेदे स्त्रीण्वुल् धनदायिकाऽपि तत्र।
“ध्यायेत् कल्पतरोर्मूले देवींतां धनदायिकाम्”। तन्त्रसारे तन्मन्त्रध्यानादिकं दृश्यम्। कुवेरश्च पुलस्त्यपुत्रस्य विश्रवसः पुत्रः तत्कथा रामा॰ उ॰

३ अ॰ उक्ता।
“अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः। अचिरेणैव कालेन पितेव तपसि स्थितः। सत्यवान् शी-लवान् दान्तः स्वाध्यायनिरतः शुचिः। सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः। ज्ञात्वा तस्य तु तद्-वृत्तं भारद्वाजो महामुनिः। ददा विश्रवसे भार्य्यांस्वसुतां देववर्णिनीम्। प्रतिगृह्य तु धर्मेण भरद्वाजसुतांतदा। मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः। सतस्यां वीर्य्यसम्पन्नमपत्यं परमाद्भुतम्। जनयामास धर्मज्ञःसर्वैर्ब्रह्मर्गुणैर्वृतम्। तस्मिन् जाते तु संहृष्टः संबभूवपितामहः। दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षोभविष्यति। नाम चास्याकरोत् प्रीतः सार्धं देवर्षि-भिस्तदा। यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव। तस्माद्विश्रवणो नाम भविष्यत्येष विश्रुतः”
“स तु वैश्रव-णस्तत्र तपोवनगतस्तदा। अवर्धताहुतिहुती महा-तेजा यथाऽनलः। तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महा-त्मनः। चरिष्ये परमं धर्मं धर्मो हि परमा गतिः। स तु वर्षसहस्राणि तपस्तप्त्वा महावने। यन्त्रितोनियमैरुग्रैश्चकार सुमहत्तपः। पूर्णे वर्षसहस्रान्ते तं तंविधिमकल्पयत्। जलाशो मारुताहारो निराहार-स्तथैव च। एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत्। अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह। गत्वातस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत्। परितुष्टोऽस्मि तेवत्स! कर्मणानेन सुव्रत!। वरं वृणीष्व भद्रन्ते वरा-र्हस्त्वं महामते॥ अथाब्रवीद्बैश्रवणः पितामहसुप-स्थितम्। भगवन्! लोकपालत्वमिच्छेयं लोकरक्षणम्। अथाब्रवीद्वैश्रवणं वाढमित्येव हृष्टवत्। अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः। यमेन्द्रवरुणानां चपदं यत्तव चेप्सितम्। तद्गच्छ वत्स! धर्मज्ञ! निधीश-त्वमवाप्नुहि। शक्राम्बुपयमानां च चतुर्थस्त्वं मवि-ष्यसि। एतच्च पुष्पकं नाम विमानं सूर्य्यसन्निभम्। प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज। स्वस्ति तेऽस्तुगमिष्यामः सर्वं एव यथागतम्। कृतकृत्यावयं तात!दत्त्वा तव वरद्वयम्। इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं[Page3838-b+ 38] त्रिदशैः सह। गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्तलम्। धनेशः पितरं प्राह प्राञ्जलिः प्रयतात्मवान्। भगवन्!लब्धवानस्मि वरमिष्टं पितामहात्। निवासनं न मे देवोविदधे स प्रजापतिः। तं पश्य भगवन्! कञ्चिन्निवासंसाधु मे प्रमो!। न च पीडा भवेद्यत्र प्राणिनो यस्यकस्यचित्। एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः। वचनं प्राह धर्मज्ञ! श्रूयतामिति सत्तम!। दक्षिणस्यो-दधेस्तीरे त्रिकूटो नाम पर्वतः। तस्याग्रे तु विशाला सामहेन्द्रस्य पुरी यथा। लङ्का नाम पुरी रम्या निर्मिताविश्वकर्मणा। राक्षसानां निवासार्थं यथेन्द्रस्यामरा-वती। तत्र त्वं वस भद्रन्ते लङ्कायां नात्र संशयः”। तस्य धनाध्यक्षत्वात् धनदत्वम्।
“यथा साधारणीभूतंनामास्य ध्रनदस्य च” रघुः।

४ धनञ्जयरूपे वायौ पु॰ धन-पतिशब्दे दृश्यम्।

५ वह्नौ

६ चित्रकवृक्षे च पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनद¦ mfn. (-दः-दा-दं) Beneficent, liberal, who gives away pro- [Page364-a+ 60] perty, &c. m. (-दः) A name of KUVE4RA. E. धन wealth, देङ् to drink, or दा to give, affix क, or धनं दयते दे पालने |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनद/ धन--द mf( आ)n. " -wwealth-giving " , liberal Ka1m.

धनद/ धन--द m. Barringtonia Acutangula L.

धनद/ धन--द m. N. of कुबेरMBh. R. etc.

धनद/ धन--द m. a गुह्यकL.

धनद/ धन--द m. N. of a servant of पद्म-पाणिW.

धनद/ धन--द m. of sev. men Sin6ha7s.

धनद/ धन--द m. of a monkey Ra1matUp.

धनद/ धन--द m. of a mountain MBh.

धनद/ धन--द m. of a तन्त्रdeity Tantras.

धनद/ धन--द n. a kind of house Gal.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Kubera (s.v.) son of विश्रवा. भा. IX. 2. ३२. Vi. III. 2. ११.
(II)--an आदित्य. M. १७१. ५६.
(III)--a Marut of the III गण. Br. III. 5. ९४.
"https://sa.wiktionary.org/w/index.php?title=धनद&oldid=431278" इत्यस्माद् प्रतिप्राप्तम्