यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनपतिः, पुं, (धनानां पतिः ।) कुवेरः । इति धनञ्जयः ॥ (यथा, महाभारते । २ । १२ । ३ । “तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा ॥”) अस्य उत्पत्तिर्यथा, -- महातपा उवाच । “शृणु चान्यां वसुपतेरुत्पत्तिं पापनाशिनीम् । यथा वायुः शरीरस्थो धनदः सम्बभूव ह ॥ आद्यं शरीरं यत्तस्मिन् वायुरन्तस्थितोऽभवत् । प्रयोजनान्मूर्त्तिमत्त्वमादिशन् क्षेत्रदेवताः ॥ तत्रामूर्त्तस्य वायोस्तु उत्पत्तिः कीर्त्त्यते मया । तां शृणुष्व महाभाग ! कथ्यमानां मयानघ ! ॥ ब्रह्मणः सृजतः सृष्टिं मुखाद्वायुर्विनिर्ययौ । प्रचण्डशर्करावर्षी तं ब्रह्मा प्रत्यषेधयत् ॥ मूर्त्तो भवस्व शान्तश्च तत्रोक्तो मूर्त्तिमान् भवन् । सर्व्वेषाञ्चैव देवानां यद्वित्तं फलमेव च ॥ तत् सर्व्वं पाहि नोक्तं तस्माद्धनपतिर्भवेत् । तस्य ब्रह्मा ददौ तुष्टस्तिथिमेकादशीं प्रभुः ॥ तस्यामनग्निपक्वाशी यो भवेन्नियतः शुचिः । तस्यास्तु धनदो देवस्तुष्टः सर्व्वं प्रयच्छति ॥ एषा धनपतेर्मूर्त्तिः सर्व्वकिल्विषनाशिनी । य एतां शृणुयाद्भक्त्या पुरुषः पठतेऽपि वा ॥ सर्व्वकाममवाप्नोति स्वर्गलोकञ्च गच्छति ॥” इति वराहपुराणम् ॥

"https://sa.wiktionary.org/w/index.php?title=धनपतिः&oldid=142226" इत्यस्माद् प्रतिप्राप्तम्