धनफलम्
यन्त्रोपारोपितकोशांशः सम्पाद्यताम्
कल्पद्रुमः सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धनफलम्, क्ली, (धनानां फलम् ।) दानभोगादि । यथा, अग्निरुवाच । “अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्त्रफला दाराः शीलवृत्तफलं श्रुतम् ॥” इति वह्निपुराणे दानविधिनामाध्यायः ॥