यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाधिपः, पुं, (धनानामधिपः ।) कुवेरः । इत्य- मरः । १ । १ । ७२ ॥ (यथा, देवीभागवते । ५ । ७ । १८ । “सङ्गरं सम्परित्यज्य गते शक्रे शचीपतौ । यमो धनाधिपः पाशी जग्मुः सर्व्वे भयातुराः ॥”) अस्य ध्यानं यथा, -- “कुबेरञ्च प्रवक्ष्यामि कुण्डलाभ्यामलङ्कृतम् । हारकेयूररचितं सिताम्बरधरं शुभम् ॥ गदाधरञ्च कर्त्तव्यं वरदं मुकुटान्वितम् । वरयुक्तविमानस्थं मेषस्थं वापि कारयेत् ॥ वर्णेन पीतवर्णेन गुह्यकैः परिवारितम् । महोदरं महाकायं ऋद्ध्यष्टकसमन्वितम् ॥ गुह्यकैर्वहुभिर्युक्तं धनव्यग्रकरैस्तथा ॥” इति मत्स्यपुराणम् ॥

"https://sa.wiktionary.org/w/index.php?title=धनाधिपः&oldid=142239" इत्यस्माद् प्रतिप्राप्तम्