यन्त्रोपारोपितकोशांशःसंपादित करें

कल्पद्रुमःसंपादित करें

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नायकः, पुं, (नयति प्रापयतीति । नी + ण्वुल् ।) नेता । (यथा, गीतायाम् । १ । ७ । “नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥”) श्रेष्ठः । (यथा, भागवते । ४ । ७ । १९ । “तमुपागतमालक्ष्य सर्व्वे सुरगणादयः । प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः ॥”) हारमध्यमणिः । इति मेदिनी । के, ११० ॥ अग्रे सरिकः । सेनापतिः । इति त्रिकाण्ड- शेषः ॥ (यथा, महाभारते । ३ । २२२ । ४ । “वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरन्दरः । स्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा ॥”) शृङ्गारसाधकः । स च त्रिविधः । पतिरुपपति- र्वैशिकश्चेति । विधिवत् पाणिग्राहकः पतिः । अनुकूलदक्षिणधृष्टशठभेदात् पतिश्चतुर्द्धा । सार्व्व- कालिकपराङ्गनापराङ्मुखत्वे सति सर्व्वकाल- मनुरक्तोऽनुकूलः । सकलनायिकाविषयसमसह- जानुरागो दक्षिणः । भूयो निःशङ्कः कृतदोषो- ऽपि भूयो निवारितोऽपि भूयः प्रश्रयपरायणो धृष्टः । कामिनीविषयकपटपटुः शठः । आचार- हानिहेतुः पतिरुपपतिः । बहुलवेश्याभोगोप- रसिको वैशिकः । वैशिकस्तूत्तममध्यमाधम- भेदात् त्रिविधः । दयिताश्रमप्रकोपेऽपि उप- चारपरायण उत्तमः । प्रियायाः प्रकोपे यः प्रकोपमनुरागं वा न प्रकटयति चेष्टया मनो- भावं गृह्णाति स मध्यमः । भयकृपालज्जाशून्यः कामक्रीडायामकृतकृत्याकृत्यविचारोऽधमः ॥ * ॥ मानी चतुरश्च शठ एवान्तर्भवति । वाक्चेष्टा- व्यङ्ग्यसमागमश्चतुरः । प्रोषितपतिरुपपतिर्वैशि- कश्च भवति । अनभिज्ञनायको नायकाभास एव । तेषाञ्च नर्म्मसचिवपीठमर्द्दविटचेटक- विदूषकभेदाच्चतुर्धा । कुपितस्त्रीप्रसादकः पीठ- मर्द्दः । नर्म्मसचिवोऽप्ययमेव । कामतन्त्रकला- कोविदो विटः । सन्धानचतुरश्चेटकः । अङ्गादि- वैकृत्यैर्हासकारी विदूषकः ॥ * ॥ तेषामष्ट- सात्त्विकगुणाः । यथा, -- “स्वेदः स्तम्भोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रणयावित्यष्टौ सात्त्विका गुणाः ॥” * ॥ तेषां दशावस्था यथा, -- “अभिलाषस्तथा चिन्ता स्मृतिश्च गुणकीर्त्तनम् । उद्वेगश्च प्रलापश्च उन्मादो व्याधिरेव च । जडता निधनान्येव दशावस्थाः प्रकीर्त्तिताः ॥” इति रसमञ्जरी ॥ (अस्य लक्षणभेदादिकं यथा, साहित्यदर्पणे । ३ । ३३ -- ३८ । “त्यागी कृती कुलीनः सुश्रीको रूपयौवनोत्- साही । दक्षोऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवान् नेता ॥ धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च । धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः ॥ अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः । स्थेयान् निगूढमानो धीरोदात्तोदृढव्रतः कथितः ॥ मायापरः प्रचण्डश्चपलोऽहङ्कारदर्पभूयिष्ठः । आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः ॥ निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् । सामान्यगुणैर्भूयान् द्बिजादिको धीरप्रशान्तः स्यात् ॥” एषाञ्च शृङ्गारिरूपत्वे भेदानाह तत्रैव । ३ । ३९ -- ४४ । “एभिर्दक्षिणधृष्टानुकूलशठरूपिभिस्तु षोडशधा । एषु त्वनेकमहिलासु समरागो दक्षिणः कथितः ॥ कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः । दृष्टदोषोऽपि मिथ्यावाक् कथितो धृष्टनायकः ॥ अनुकूल एकनिरतः शठोऽयमेकत्र वद्धभावो यः । दर्शितवहिरनुरागो विप्रियमन्यत्र गूढमाचरति ॥ एषाञ्च त्रैविध्यात् सर्व्वेषामुत्तममध्याधमत्वेन । उक्ता नायकभेदाश्चत्वारिंशत्तथाऽष्टौ च ॥” एषामुदाहरणादिकं तत्रैव द्रष्टव्यम् ॥)

अमरकोशःसंपादित करें

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नायक पुं।

अधिपतिः

समानार्थक:स्वामिन्,ईश्वर,पति,ईशितृ,अधिभू,नायक,नेतृ,प्रभु,परिवृढ,अधिप,इन

3।1।11।1।2

अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः। अधिकर्द्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

नायक वि।

मध्यरत्नम्

समानार्थक:नायक

3।3।17।5।1

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्संपादित करें

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नायक¦ त्रि॰ नी--ण्वुल्।

१ प्रापके

२ प्रभौ

३ श्रेष्ठे

४ प्रधानेहारमध्यमणौ च पु॰ मेदि॰

५ आग्रसरिके सेनापतौ त्रिका॰

६ शृङ्गारालम्बने च।
“स च त्रिविधः पतिरुपपतिर्वैशिक-श्चेति। तत्र विधिवत् पाणिग्राहकः पतिः। अतुकूलदक्षिणधृष्टशठभेदात् पतिश्चतुर्धा। सार्वकालिकपराङ्गनाप-राङ्मुस्वत्वे सति सर्वकालमनुरक्तोऽनुकूलः। सकलना-यिकाविषयसमसहजानुरागो दक्षिणः। भूयो निःशङ्कःकृतदोषोऽपि भूयो निपारितोऽपि भूयः प्रणयपरायणो[Page4042-a+ 38] धृष्टः। कामिनीविषयकपटपटुः शठः। आचारहानिहेतुः पतिरुपपतिः। वहुलवेश्याभोगोपरसिको वै-शिकः। त्रिविधोऽपि उत्तममध्यमाधमभेदात् पुंन-स्त्रिबिधः। दयिताभूयःप्रकोपेऽपि उपचारपरायणउत्तमः। प्रियायाः यः प्रकोपमनुरागं वा न प्रकटयतिचेष्टया मनोभावं गृह्णाति स मध्यमः। भयकृपाल-ज्जाशून्यः कामक्रीडायामकृतकृत्याकृत्यविचारोऽधमः। भानी चतुरश्च शठ एवान्तर्भवति। वाक्चेष्टाव्यङ्ग्यसमा-गमश्चतुरः। प्रोषितश्च पतिरुपपतिर्वैशिकश्च भवति। अनभिज्ञनायकोनायकामास एव। तेषाञ्च नर्मसचि-वपीठमर्द्दविटचेटकविदूषकभेदाच्चतुर्धा सहायाः। कुपि-तस्त्रीप्रसादकः पीठमर्मः। नर्मसचिवोप्ययमेव। काम-तन्त्रकलाकोविदी विटः। सुसन्धानचतुरश्चेटकः। अङ्गादिवैकृत्यैर्हासकारी विदूषकः। तेषामष्ट सात्वि-कागुणा यथा। स्वेदस्तम्भोऽथ रोमाञ्छः सरभङ्गो-ऽथ वेपथुः। वैवर्ण्यमश्रु प्रलयावित्यष्टौ सात्विकागुणाः। तेषां दशावस्था यथा
“अभिलाषस्तथा चिन्तास्मृतिश्च गुणकीर्त्तनम्। उद्वेगश्च प्रलापश्च उन्मादोव्याधिरेव च। जडता निधनान्येव दशावस्थाः प्रकी-र्त्तिताः” इति रसमञ्जरी। सा॰ द॰ अन्यथाभेदा दर्शितायथा।
“आलम्बनं नायकादिस्तमालम्ब्य रसोद्गमात्” तत्रनायकः।
“त्यागो कृती कुलीनः सुश्रीको रूपयौवनो-{??}ही। दक्षोऽनुरक्तलोकस्तेजीवैदग्ध्यशीलवान् नेता। धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च। धीरप्रशान्तइत्ययमुक्तः प्रथमं चतुर्भेदः। अविकत्मनः क्षमा-वानतिगम्भीरो महासत्वः। स्थेयान् निगूढमानोधीरोदात्तो दृढव्रतः कथितः। मायापरः प्रचण्डश्चप-लोऽहङ्कारदर्षभूयिष्ठः। आत्मश्लाघानिरतो धीरैर्धीरो-द्धतः कथितः। निश्चिन्तो मृदुरनिशं कलापरो धीर-ललितः स्यात्। सामान्यगुणैर्भूयान् द्विजादिको धीर-प्रशान्तः स्यात्। एभिर्द्दक्षिणधृष्टानुकूलशठरूपिभिस्तुषोडशधा। एषु त्वनेकमहिलासु समरागो दक्षिणःकथितः। कृतागा अपि निःशङ्कस्तर्ज्जितोऽपि नलज्जितः। दृष्टदोषोऽपि मिथ्यावाक् कथितो धृष्टनायकः। अनूकूल एकनिरतः शठोऽयमेकत्र बद्धभावो यः। दर्शितबहिरनुरागो विप्रियमन्यत्र गूढमाचरति। एषाञ्चत्रैविध्यात् सर्वेषामुत्तममध्याधमत्वेन। उक्ता नायकभे-दाश्चत्वारिंशत्तथाऽष्टौ च” तत्र प्रभौ
“तव वरद! क्वरो[Page4042-b+ 38] तु सुप्रातमह्नामयं नायकः” माघः शक्तिसम्पन्ने श्रेष्ठेहारमध्यमणौ च
“यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः। एकार्थतन्तुप्रोतायां नायको नायकायते” माघः
“रामोहरिः करी भूभृद्भानुः कर्त्ता च चन्द्रमाः। तस्थिवान् भगवानात्मा दशैते पुंसि नायकाः”।

शब्दसागरःसंपादित करें

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नायक¦ m. (-कः)
1. A guide, a leader, a conductor.
2. A chief, a head, pre-eminent, principal.
3. A general, a commander,
4. The cen- tral gem of a necklace.
5. (In Erotic poetry,) The man, the husband or lover. f. (-यिका)
1. mistress, a wife, the female in the amatory poetry of the Hindu4s.
2. A sort of gooddess, an inferior form of DURGA4, and attendant upon her: there are eight Na4- yik4as. E. णी to guide, ण्वुल् aff.

Apteसंपादित करें

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नायक [nāyaka], a. [नी-ण्वुल्] Guiding, leading, conducting.

कः A guide, leader, conductor.

A chief, master, head, lord.

A pre-eminent or principal person, distinguished personage; सैन्यनायकः &c.

A general, commander.

(In Rhet.) The hero of a poetic composition (a play or drama); (according to S. D. there are four main kinds of नायक: धीरोदात्त, धीरोद्धत, धीरललित, and धीरप्रशान्त, q. v.; these are again subdivided, the total number of kinds being 48; see S. D.64-75. The Rasamañjarī mentions 3 classes पति, उपपति, and वैशिक; 95.11).

The central gem of a necklace; नायको नेतरि श्रेष्ठे हारमध्य- मणावपि' इति विश्वः.

A paradigm or leading example; दशैते स्त्रीषु नायकाः.

An epithet of Śākyamuni. -Comp. -अधिपः a king, sovereign.

Monier-Williamsसंपादित करें

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नायक m. a guide , leader , chief , lord , principal MBh. Ka1v. etc. (with or scil. सैन्यस्य, a general , commander ; ifc. f( अका). See. अ-नायक)

नायक m. a husband BhP.

नायक m. (in dram. ) the lover or hero

नायक m. the central gem of a necklace (implying also " a general " See. नायकायand महा-नायक)

नायक m. a paradigm or example (in gram.)

नायक m. N. of गौतमबुद्धBuddh.

नायक m. of a Brahman Ra1jat.

नायक m. of an author (also भट्ट-न्) Cat.

नायक mn. a kind of musk L. (See. नायिका-चूर्ण)

Purana indexसंपादित करें

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an army leader; ten in तारक's army; their names, ensigns, chariots, etc., detailed. M. १४८. ४३-56.

"https://sa.wiktionary.org/w/index.php?title=नायक&oldid=500613" इत्यस्माद् प्रतिप्राप्तम्