यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षपातः, पुं, (पक्षे अन्याय्यसाहाय्ये पातः अभि- निवेशः । स्नेहसम्बन्धाद्यनुरोधत एकस्मिन्नेव वर्गे आनुकूल्यप्रयोगचिकीर्षेतिभावः ।) अन्याय्य- साहाय्यकरणम् । (यथा गोः रामायणे २ । १०९ । ५७ । “क्वच्चिद्विवदतोऽर्थेषु बलिनो दुर्ब्बलस्य च । अपक्षपातात् पश्यन्ति कार्य्येष्वधिकृता नराः” ॥) गणताकरणम् । यथा । “ईश्वरत्वविषये विप- श्चितां पक्षपातकरणे न कारणम्” । इत्युत्तर- मीमांसायां संक्षेपशारीरम् ॥ (पक्षाणां गरुतां पातः पतनं यत्र ।) पक्षिणां ज्वरः । यदुक्तं “पक्षपातः पतङ्गानाम् । इति विजयरक्षितः ॥

"https://sa.wiktionary.org/w/index.php?title=पक्षपातः&oldid=145879" इत्यस्माद् प्रतिप्राप्तम्