यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलवान्, [त्] त्रि, (फलमस्यास्तीति । फल + मतुप् । मस्य वः ।) फलयुक्तवृक्षः । तत्पर्य्यायः । फलिनः २ फली ३ । इत्यमरः ॥ फलितः ४ । इति राजनिर्घण्टः ॥ (यथा, मनुः । १ । ४७ । “अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥”)

"https://sa.wiktionary.org/w/index.php?title=फलवान्&oldid=152546" इत्यस्माद् प्रतिप्राप्तम्