यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तम्, क्ली, (भज्यते स्मेति भजसेवायां + कर्म्मणि क्तः ।) अन्नम् । इत्यमरः । २ । ९ । ४८ ॥ अथ भक्तस्य नामानि साधनं गुणाश्च । “भक्तमन्नं तथान्धश्च क्वचित् कूरञ्च कीर्त्तितम् । ओदनोऽस्त्री स्त्रियां भिस्सा दीदिविः पुंसि भाषितः ॥” सुधौतांस्तण्डुलान् स्फीतांस्तोये पञ्चगुणे पचेत् । तद्भक्तं प्रसृतञ्चोष्णं विशदं गुणवन्मतम् ॥ भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लघु । अधौतमसृतं शीतं गुर्व्वरुच्यं कफप्रदम् ॥” इति भावप्रकाशः ॥ हरये निवेदितान्नस्य नित्यं भक्षणे फलं यथा, “ये विप्रा हरये दत्त्वा नित्यमन्नञ्च भुञ्जते । उच्छिष्टभोजनात्तेषां हरेर्दास्यं लभेन्नरः ॥” हरये अदत्त्वा तद्भक्षणे दोषो यथा, -- “न दत्त्वा हरये भक्त्या भुञ्जते चेद्भ्रमादपि । पुरीषसदृशं वस्तु जलं मूत्रसमं भवेत् ॥ * ॥ शूद्रश्चेद्धरिभक्तश्च नैवेद्यभोजनोत्सुकः । आमान्नं हरये दत्त्वा पाकं कृत्वा च खादति ॥” अन्नदानफलं यथा, -- “अन्नञ्च सर्व्वजीविभ्यः पुण्यार्थं दातुमर्हति । दत्त्वा विशिष्टजीविभ्यो विशिष्टं फलमाप्नुयात् ॥ अतो दत्त्वा मानुषेभ्यो लभतेऽष्टगुणं फलम् । ततो विशिष्टशूद्रेभ्यो दत्त्वा तद्द्विगुणं फलम् ॥ दत्त्वान्नं घैश्यजातिभ्यस्ततश्चाष्टगुणं फलम् । दत्त्वान्नं क्षत्त्रियेभ्योऽपि वैश्यानां द्विगुणं भवेत् ॥ क्षत्त्रियाणां शतगुणं विप्रेभ्योऽन्नं प्रदाय च । घिप्राणाञ्च शतगुण शास्त्रज्ञे ब्राह्मणे फलम् ॥ शास्त्रज्ञानां शतगुणं भक्ते विप्रे लभेद्ध्रुवम् । स चान्नं हरये दत्त्वा भुङ्क्ते भक्त्या च सादरम् ॥ विष्णवे भक्तविप्राथ दत्त्वा दातुश्च यत् फलम् । तत् फलं लभते नूनं भक्तब्राह्मणभोजने ॥ भक्त तुष्टे हरिस्तुष्टो हरौ तुष्टे च देवताः । भवन्ति सिक्ताः शाखाश्च यथा मूलनिषे- चनात् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २१ अध्यायः । यो यस्यान्नेन जीवेत स तस्याश्नाति किल्विषम् ॥” “आभीरः कुलमित्रञ्च गोपालो दासनापितौ । एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥ कुशीलवः कुम्भकारः क्षेत्रकर्म्मक एव च । एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्पं पणं बुधैः ॥” इति कौर्म्मे उपविभागे १६ अध्यायः ॥ तस्य मुख्यत्वं पारिभाषिकत्वञ्च यथा, -- “तण्डुलोऽम्ब्वग्निसंयोगाल्लवणयोगेन पिष्टकम् । फलं त्रितयसंयोगादन्नं भवति तत्क्षणात् ॥” इति रामार्च्चनचन्द्रिकाधृतवचनमिति केचित् ॥ (धनम् । यथा, मनौ । ११ । ७ । “यस्य त्रैवार्षिकं भक्तं पर्य्याप्तं भृत्यवृत्तये । अधिकं वापि विद्येत स सोमं पातुमर्हति ॥” “भक्तं धनम् ।” इति तद्भाष्ये मेधातिथिः ।)

"https://sa.wiktionary.org/w/index.php?title=भक्तम्&oldid=153626" इत्यस्माद् प्रतिप्राप्तम्