यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षकः, त्रि, (भक्षयतीति । भक्ष + “ण्वुल्तृचौ ।” ३ । १ । १३३ । इति ण्वुल् ।) खादकः । भक्षण- परः । तत्पर्य्यायः । घस्मरः २ अद्मरः ३ । इत्य- मरः । ३ । १ । १२० ॥ (यथा, हितोपदेशे । १ । १३५ । “भक्ष्यभक्षकयोः प्रीतिर्विपत्तेः कारणं महत् । शृगालात् पाशबद्धोऽसौ मृगः काकेन रक्षितः ॥”)

"https://sa.wiktionary.org/w/index.php?title=भक्षकः&oldid=153651" इत्यस्माद् प्रतिप्राप्तम्