यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षितम्, त्रि, (भक्ष्यते स्मेति । भक्ष + कर्म्मणि क्तः ।) कृतभक्षणवस्तु । (यथा, हितोपदेशे । १ । “भक्षितेनापि भवता नाहारो मम पुष्कलः ॥”) तत्पर्य्यायः । चर्व्वितम् २ लिप्तम् ३ प्रत्यवसितम् ४ गिलितम् ५ खादितम् ६ प्सातम् ७ अभ्यव- हृतम् ८ अन्नम् ९ जग्धम् १० ग्रस्तम् ११ ग्लस्तम् १२ अशितम् १३ भुक्तम् १४ । इत्यमरः । ३ । २ । ११० ॥ जक्षितम् १५ । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=भक्षितम्&oldid=153659" इत्यस्माद् प्रतिप्राप्तम्