यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगणः, पुं, (भानां नक्षत्राणां गणः समूहः ।) नक्षत्रसमूहः । शीघ्रगामिनां ग्रहाणामल्पेन कालेन मन्दगामिनां ग्रहाणां महता कालेन पूर्ब्बगत्या पातानां पश्चिमगत्या परिवर्त्तनेनाश्वि- न्यादिरेवत्यन्तनक्षत्रभोगकालः । षष्टिविकलाभिः कला षष्टिकलाभिर्भागस्त्रिंशभागैराशिर्द्वादश- राशिभिर्भगणः । यथा, -- “शीव्रगस्तान्यथाल्पेन कालेन महताल्पगः । तेषान्तु परिवर्त्तेन पौष्णान्ते भगणः स्मृतः ॥ विकलानां कलाषष्ट्या तत्षष्ट्या भाग उच्यते । तत्त्रिंशता भवेद्राशिर्भगणो द्बादशैव ते ॥ युगे सूर्य्यज्ञशुक्राणां खचतुष्करदार्णवाः ४३२०००० । कुजार्किगुरुशीघ्राणां भगणाः पूर्ब्बयायिनाम् ॥ इन्दो रसाग्नित्रित्रीषुसप्तभूधरमागणाः ५७७५३३३६ । दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु २२९६८३२ ॥ बुधशीघ्रस्य शून्यर्त्तुखाद्रित्र्यङ्कनगेन्दवः १७९३७०६० । बृहस्पतेः खदस्राक्षिवेदषड्वह्रयस्तथा ३६४२२० ॥ सितशीघ्रस्य षट्सप्तत्रियमाश्विखभूधराः ७०२२३७६ । शनेर्भुजङ्गषट्पञ्चरसवेदनिशाकराः १४६५६८ ॥ चन्द्रोच्चस्याग्निशून्याश्विवसुसर्पार्णवा ४८८२०३ युगे । वामं पातस्य सर्पाग्नियमाश्विशिखिदस्रकाः २३२२३८ ॥ इति सूर्य्यसिद्धान्तः ॥ * ॥ अपि च । ग्रहाणां मन्दोच्चानां चलोच्चानां ग्रहपातानाञ्च भगणान् श्लोकषट्केनाह । अर्कशुक्रबुधपर्य्यया विधेरह्नि कोटिगुणिता रदा- ब्धयः । ४३२००००००० एत एव शनिजीव- भूभुवां कीर्त्तिताश्च गणकैश्चलोच्चजाः ॥ १ ॥ खाब्भ्रखाब्भ्रगगनामरेन्द्रियक्ष्माधराद्रिविषया ५७७५३३००००० हिमद्युतेः । युग्मयुग्मशरनागलोचनव्यालषण्णवयमाश्विनोऽ सृजः २२९६८२८५२२ ॥ २ ॥ सिन्धुसिन्धुरनवाष्टगोऽङ्कषट्त्र्यङ्कसप्तशशिनो १७९३६९९८९८४ ज्ञशीघ्रजाः । पञ्चपञ्चयुगषट्कलोचनद्ब्यब्धिषड्गुणमिता ३६४२२६४५५ गुरोर्मताः ॥ ३ ॥ द्विनन्दवेदाङ्कगजाग्निलोचनद्विशून्यशैलाः ७०२२३८९४९२ सितशीघ्रपर्य्ययाः । भुजङ्गनन्दद्विनगाङ्गबाणषट्कृतेन्दवः सूर्य्यसुतस्य पर्य्ययाः १४६५६७२९८ ॥ ४ ॥ खाष्टाब्धयो ४८० ऽष्टाक्षगजेषुदिग्वियद्द्विपाब्धयो ४८०१०५८५८ द्व्यङ्कयमा २९२ रदाग्नयः ३३२ । शरेष्विभा ८५५ स्त्र्यक्षरसाः ६५३ कुषागराः ४१ स्युः पूर्ब्बगत्या तरणेर्मृदुच्चजाः ॥ ५ ॥ गजार्ष्टिभर्गत्रिरदाश्विनः २३२३१११६८ कुभृद्र- साश्विनः २६७ कुद्बिशराः ५२१ क्रमर्त्तवः ६३ । त्रिनन्दनागा ८९३ युगकुञ्जरेषवो ५८४ निशाकराद्व्यस्तगपातपर्य्ययाः ॥ ६ ॥” इति सिद्धान्तशिरोमणिः ॥ * ॥ ग्रहाणां पूर्ब्बगमनेन कल्पे एते पर्य्ययाः । तथा मन्दोच्चानाञ्च प्राग्गत्या एतावन्तः । पातानां पश्चिमगत्या एतावन्तो भवन्ति । अत्रोपपत्तिः सा तु तद्भाषाकुशलेन तत्क्षेत्रसंस्थानज्ञेन शुत- गोलेनैव श्रोतुं शक्यते नान्येन । ग्रहमन्दशीघ्र- पाताः स्वस्वमार्गेषु गच्छन्त एतावतः पर्य्ययान् कल्पे कुर्व्वन्तीत्यत्रागम एव प्रमाणम् । इति तट्टीका ॥

"https://sa.wiktionary.org/w/index.php?title=भगणः&oldid=153672" इत्यस्माद् प्रतिप्राप्तम्