यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकुष्ठः, पुं, (मङ्कते मङ्क्यते इति वा । बाहुलकात् उः मकुः । तिष्ठतीति स्था + कः स्थः । मकु- श्चासौ स्थश्चेति मकुष्ठः । पूर्ब्बपदादिति । ८ । ३ । १०६ । षत्वम् ।) ब्रीहिभेदः । मन्थरे त्रि । इति मेदिनी । ठे, १६ । “मकुष्ठो वनमुद्गः स्यान्मकुष्ठकमुकुष्ठकौ । (ब्रीहिभेदार्थे यथा, पर्य्यायो गुणाश्च । मकुष्ठो वातलो ग्राही कफपित्तहरो लघुः । वह्निजिन्मधुरः पाके कृमिकृज्ज्वरनाशनः ॥” इति भांवप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=मकुष्ठः&oldid=155272" इत्यस्माद् प्रतिप्राप्तम्