यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्गलः, पुं, (मगि + “मङ्गतेरलच् ।” उणा० ५ । ७० । इति अलच् ।) ग्रहविशेषः । तत्प- र्य्यायः । अङ्गारकः २ भौमः ३ कुजः ४ वक्रः ५ महीसुतः ६ वर्षार्च्चिः ७ लोहिताङ्गः ८ खोन्मुखः ९ ऋणान्तकः १० । इति शब्दरत्नावली ॥ आरः ११ क्रूरदृक् १२ आवनेयः १३ । इति ज्योतिष- तत्त्वम् ॥ स च रक्तगौरमिश्रितवर्णः । दक्षिण- दिक्पुरुषक्षत्त्रियजातिसामवेदतमोगुणतिक्त- रसमेषराशिप्रबालावन्तिदेशानामधिपतिः । मेषवाहनः । चतुरङ्गुलप्रमाणः । आरक्तमाल्य- वसनः । भरद्वाजमुनिसन्तानः । चतुर्भुजः । शक्तिवराभयगदाधारी । सूर्य्याभिमुखः । अस्याधिदेवता कार्त्तिकेयः । प्रत्यधिदेषता पृथिवी । स तु पित्तप्रकृतिः । युवा । क्रूरः । वनचारी । मध्याह्नकाले प्रबलः । गैरिकादि- धातुस्वामी । चतुष्पदानां प्रभुः । चतुष्कोणा- कृतिः । सुवर्णकारादीनां स्वामी । ज्वलित- भूमिचारी । किञ्चिदङ्गहीनः । कटुरसप्रियः । ताम्रवर्णरक्तद्रव्यस्वामी च । इति ग्रहयागतत्त्व- लघुजातकादयः ॥ * ॥ अस्योत्पत्तिर्यथा, -- “उपेन्द्रबीजात् पृथ्व्यान्तु मङ्गलः समजायत । वसुन्धरायां बलवान् तन्मे व्याख्यातुमर्हसि ॥ सौतिरुवाच । उपेन्द्ररूपमालोक्य कामार्त्ता च वसुन्धरा । विधाय सुन्दरी वेशमक्षता प्रौढयौवना ॥ सस्मिता तस्य तल्पे च सहसा समुपस्थिता । सुरम्यां मालतीमालां ददौ तस्मै वरानना ॥ उपेन्द्रस्तन्मनो ज्ञात्वा कामी मन्मथपीडितः । नानाप्रकारशृङ्गारं चकार च तया सह ॥ तदङ्गसङ्गमासक्ता मूर्च्छां प्राप सती तदा । मृतेव निद्रिता वासौ वीर्य्याधानकृते हरौ ॥ विहाय तत्र रहसि जगाम पुरुषोत्तमः । उर्व्वशी पथि गच्छन्ती बोधयामास तां मुने ! ॥ सा च पप्रच्छ वृत्तान्तं कथयामास भूश्च ताम् । वीर्य्यं सम्बरणं कर्त्तुं सा चाशक्ता च दुर्ब्बला ॥ प्रबालस्याकरे त्रस्ता वीय्यन्यासं चकार सा । अस्य स्तोत्रं यथा, -- “धरणीगर्भसंभूतं विद्युत्पुञ्जसमप्रभम् । कुमारं शक्तिहस्तञ्च लोहिताङ्गं नमाम्यहम् ॥” इति व्यासोक्तनवग्रहस्तोत्रान्तर्गतम् ॥ ऋणपरिशोधनार्थस्तोत्रं यथा, -- “मङ्गलो भूमिपुत्त्रश्च ऋणहन्ता धनप्रदः । स्थिरासनो महाकायः सर्व्वकर्म्माविरोधकः ॥ रोहितो लोहिताक्षश्च सामगानां कृपाकरः । धरात्मजः कुजो भौमो भूमिजो भूमिनन्दनः ॥ अङ्गारको यमश्चैव सर्व्वरोगापहारकः । वृष्टिकर्त्ता च हर्त्ता च सर्व्वकामफलप्रदः ॥ एतानि कुजनामानि प्रातरुत्थाय यः पठेत् । ऋणं न जायते तस्य धनमाप्नोति पुष्कलम् ॥ रक्तपुष्पैश्च गन्धैश्च धूपदीपादिभिस्तथा । मङ्गलं पूजयेद्भक्त्या मङ्गलेऽहनि सर्व्वदा ॥ ऋणरेखाः प्रकर्त्तव्या अङ्गारेण सदा बुधैः । प्रोञ्छयेद्वामपादेन ऋणं तस्य विनश्यति ॥ मङ्गलाय नमस्तुभ्यं नमस्ते ऋणहारिणे । पुत्त्रपौत्त्रप्रदात्रे च मङ्गलाय नमो नमः ॥ ऋणार्थे त्वत्प्रपन्नोऽहमऋणं कुरु मे विभो ! । एतत् कृत्वा न सन्देहो ऋणं हत्वा धनी भवेत् । इति स्कन्दपुराणम् ॥ * ॥ मङ्गलवारे जातस्य फलं यथा, -- “उग्रः प्रतापी क्षितिपालमन्त्री रणप्रियो वक्रवचाः सरोषः । सत्त्वान्वितः शूरगणप्रणेता कुजस्य वारे प्रभवो मनुष्यः ॥” इति कोष्ठीप्रदीपः ॥

"https://sa.wiktionary.org/w/index.php?title=मङ्गलः&oldid=155335" इत्यस्माद् प्रतिप्राप्तम्