यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजतः, पुं, (यजतीति । यज् + “भृमृदृशियजि- पर्विपच्यमितमिनमिहर्य्यिभ्योऽतच् ।” उणा० ३ । ११० । इति अतच् ।) ऋत्विक् । इति सिद्धान्त- कौमुदी ॥ (ऋषिविशेषः । स तु ऋग्वेदस्य ५ म० ६७ । ६८ । सूक्तयोः ऋषिः ॥ त्रि, यष्टव्यः । यथा, ऋग्वेदे । १ । १८१ । ३ । “अहंपूर्ब्बो यजतो धिष्ण्या यः ॥” “यजतो यष्टव्यः ।” इति तद्भाष्ये सायणः ॥ तथा च तत्रैव । २ । ५ । ८ । “यथा विद्बा~ अरं करद्विश्वेभ्यो यजतेभ्यः ।” “यजतेभ्यः सर्व्वेभ्यो यजनीयेभ्यो देवेभ्यः ।” इति तद्भाष्ये सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=यजतः&oldid=159428" इत्यस्माद् प्रतिप्राप्तम्