यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजुर्व्वेदः, पुं, (यजुरेव वेदः । यजुषां वेद इति वा ।) वेदविशेषः । तस्याधिपतिर्यथा, -- “ऋग्वेदाधिपतिर्जीवः सामवेदाधिपः कुजः । यजुर्व्वेदाधिपः शुक्रः शशिजोऽथर्व्ववेदराट् ॥” इति ज्योतिषम् ॥ अस्य वक्ता वैशम्पायनः । स तु आदावेक एवासीत् । यथा, -- “ऋग्वेदंश्रावकं पैलं जग्राह स महामुनिः । यजुर्व्वेदप्रवक्तारं वैशम्पायनमेव च ॥ जैमिनं सामवेदस्य श्रावकं सोऽन्वपद्यत । तथैवाथर्व्ववेदस्य सुमन्तुमृषिसत्तमम् ॥ एक आसीद्यजुर्व्वेदस्तञ्चतुर्धा व्यकल्पयत् । चातुर्होत्रमभूद्यस्मिंस्तेन यज्ञमथाकरोत् ॥ अध्वर्यवं यजुर्भिः स्यादृग्भिर्होत्रं द्विजोत्तमाः । उद्गात्रं सामभिश्चक्रे ब्रह्मत्वञ्चाप्यथर्व्वभिः ॥ ततः स ऋच उद्धृत्य ऋग्वेदं कृतावान् प्रभुः । यजूंषि च यजुर्व्वेदं सामवेदञ्च सामभिः ॥ एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा । शाखानान्तु शतेनाथ यजुर्व्वेदमथाकरोत् ॥ सामवेदं सहस्रेण शाखानाञ्च विभेदतः । अथर्व्वाणमथो वेदं बिभेद नवकेन तु ॥” इति कौर्म्म्ये ४९ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=यजुर्व्वेदः&oldid=159447" इत्यस्माद् प्रतिप्राप्तम्