यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तचन्दनम्, क्ली, (रक्तं रक्तवर्णं चन्दनम् ।) रक्त वर्णचन्दनकाष्ठम् । (यथा, रामायणे । २ । ३३ । ९ । “पद्मरागोचितां सीतां रक्तचन्दनसेविनीम् । वर्षमुष्णञ्च शीतञ्च नेष्यत्याशु विवर्णताम् ॥”) तत्पर्य्यायः । तिलपर्णो २ पत्राङ्गम् ३ रञ्ज- नम् ४ कुचन्दनम् ५ । इत्यमरः । १ । ६ । १३२ ॥ ताम्रसारम् ६ ताम्रवृक्षः ७ चन्द- नम् ८ । इति रत्नमाला ॥ लोहितम् ९ शोणितचन्दनम् १० रक्तसारम् ११ ताम्र- सारकम् १२ क्षुद्रचन्दनम् १३ अर्कचन्द- नम् १४ । इति राजनिर्घण्टः ॥ रक्ताङ्गम् १५ प्रवालफलम् १६ । इति भावप्रकाशः ॥ पत्त- ङ्गम् १७ पत्तगम् १८ रक्तबीजम् १९ । इति शब्दरत्नावली ॥ अस्य गुणाः । अतिशीतल- त्वम् । तिक्तत्वम् । ईक्षणगतास्रदोषभूतपित्त- कफकासज्वरभ्रान्तिजन्तुवमथुतृषानाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “रक्तं शीतं गुरु स्वादु च्छर्द्दितृष्णास्रपित्तहृत् । तिक्तनेत्रहितं वृष्यं ज्वरव्रणविषापहम् ॥” इति भावप्रकाशः ॥ अन्यच्च । “रक्तपित्तहरं बल्यं चक्षुष्यं रक्तचन्दनम् ॥” इति राजवल्लभः ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तचन्दनम्&oldid=160324" इत्यस्माद् प्रतिप्राप्तम्