रक्तधातुः
यन्त्रोपारोपितकोशांशः सम्पाद्यताम्
कल्पद्रुमः सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रक्तधातुः, पुं, (रक्तो रक्तवर्णो धातुः ।) गैरि कम् । इति त्रिकाण्डशेषः ॥ (अस्य पर्य्यायो यथा, -- “गैरिकं रक्तधातुश्च गैरेयं गिरिजन्तथा । सुवर्णगैरिकन्त्वन्यत्ततो रक्ततरं हि तत् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) ताम्रम् । इति राजनिर्घण्टः ॥ रक्तवर्णधातु मात्रञ्च ॥