यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तमेहः, पुं, (मेहनं मेहः रक्तस्य मेहः ।) प्रमेहरोगविशेषः । तस्य लक्षणं यथा, -- “विस्रमुष्णं सलवणं रक्ताभं रक्तमेहतः ॥” मूत्रं मूत्रयेदिति योजनीयम् । अस्यौषधम् । यथा, -- “चन्द्रप्रभावचामुस्ताभूनिम्बसुरदारवः । हरिद्रातिविषादार्व्वीपिप्पलीमूत्रचित्रकम् ॥ धान्यकं त्रिफला चव्यं विडङ्गं गजपिप्लली । सुवर्णमाक्षिकं व्योषं द्वौ क्षारौ लवणत्रयम् ॥ एतानि टङ्कमात्राणि संगृह्णीयात् पृथक् पृथक् । द्विकर्षहतलोहं स्याच्चतुष्कर्षा सिता भवेत् ॥ शिलाजत्वष्टकर्षं स्यादष्टौ कर्षाश्च गुग्गुलोः । विधिना योजितैरेतैः कर्त्तव्या गुटिका शुभा ॥ चन्द्रप्रभेति विख्याता सर्व्वरोगप्रणाशिनी । निहन्ति विंशतिं मेहान् कृच्छ्रमष्टविधं तथा ॥ चतस्रश्चाश्मरीस्तद्वत् मूत्राधातांस्त्रयोदश । अण्डवृद्धिं पाण्डुरोगं कामलाञ्च हलीमकम् ॥ कासं श्वासं तथा कुष्ठमग्निमान्द्यमरोचकम् । वातपित्तकफव्याधीन् बल्या वृष्या रसायनी ॥ समाराध्य शियं तस्मात् प्रयत्नात् गुटिकामिमाम् । प्राप्तवांश्चन्द्रमा यस्मात् तस्माच्चन्द्रप्रभा स्मृता ॥” इति भावप्रकाशः ॥ (तथास्य लक्षणम् । यथा, -- “विस्रं लवणमुष्णञ्च रक्तं मेहति यो नरः । पित्तस्य परिकोपेन तं विद्याद्रक्तमेहिनम् ॥” इति चरके निदानस्थाने चतुर्थेऽध्याये ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तमेह¦ पु॰ कर्म॰। प्रमेहरोगभेदे
“विस्रमुष्णं सलवणंरक्ताभं रक्तमेहतः” भावप्र॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तमेह/ रक्त--मेह m. the voiding of blood with urine , S3a1rn3gS.

"https://sa.wiktionary.org/w/index.php?title=रक्तमेह&oldid=388091" इत्यस्माद् प्रतिप्राप्तम्