यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवृष्टिः, स्त्री, (रक्तानां वृष्टिः ।) रुधिरवर्ष- णम् । तत्तु उत्पातविशेषः । तत्फलं शस्त्रोद्- योगः । यथा । कृत्यचिन्तामणौ । “रक्ते शस्त्रोद्योगो मांसास्थिवसादिभिर्म्मरकः । धान्यहिरण्यत्वक्फलकुसुमाद्ये वर्षिते भयं विद्यात् ॥” इति ज्योतिस्तत्त्वम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवृष्टि¦ स्त्री

६ त॰। दैवकृतोपद्रवभेदे रुधिरवर्षणे
“कृत्यचिन्तामणौ
“रक्ते शस्त्रोद्योगो मांसास्थिवसादि-भिर्मरकः। धान्यहिरण्यत्वक्फलकुसुमाद्ये वर्षिते भयंविद्यात्” ज्यो॰ त॰।

"https://sa.wiktionary.org/w/index.php?title=रक्तवृष्टि&oldid=388254" इत्यस्माद् प्रतिप्राप्तम्