रक्तशिग्रुः
यन्त्रोपारोपितकोशांशः सम्पाद्यताम्
कल्पद्रुमः सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रक्तशिग्रुः, पुं, (रक्तवर्णः शिग्रुः ।) रक्तशोभा- ञ्जनवृक्षः । तत्पर्य्यायः । रक्तकः २ मधुरः ३ बहुलच्छदः ४ सुगन्धः ५ केशरी ६ सिंहः ७ मृगारिः ८ । अस्य गुणाः । महावीर्य्यत्वम् । मधुरत्वम् । रसायनत्वम् । शोफाध्मानसमी- रार्त्तिपित्तश्लेष्मनाशित्वम् । सारकत्वञ्च । इति राजनिर्घण्टः ॥