यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशस्थविलम्, क्ली, द्वादशाक्षरपादच्छन्दो- विशेषः । यथा, -- “वदन्ति वंशस्थविलं जतौ जरौ ॥” उदाहरणम् । “विलासवंशस्थविलं मुखानिलैः प्रपूर्य्य यः पञ्चमरागमुद्गिरन् । व्रजाङ्गनानामपि गानशालिनां जहार मानं स हरिः पुनातु वः ॥” वंशस्तनितमपि क्वापि । इति छन्दोमञ्जरी ॥

"https://sa.wiktionary.org/w/index.php?title=वंशस्थविलम्&oldid=163283" इत्यस्माद् प्रतिप्राप्तम्