यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रम्, क्ली, (वङ्कते इति । षकि कौटिल्ये + रन् । पृषोदरादित्वात् न लोपः । यद्बा, वञ्चतीति । वञ्चु गतौ + “स्फायितञ्चिवञ्चीति ।” उणा० २ । १३ । इति रक् । न्यङ्क्रादित्वात् कुत्वम् ।) नदीवङ्कः । तत्पर्य्यायः । पुटभेदः २ । इत्य- मरः ॥ वङ्कः ३ । इति भरतः ॥ (तगर- पादिकम् । तत्पर्य्यायो यथा, -- “कालानुशारिवा वक्रं तगरं कुटिलं शठम् । महोरगं नतं जिह्मं दीनं तगरपादिकम् ॥” इति वैद्यकरत्नमालायाम् ॥ तथास्य विषयः । “शताह्वै रण्डमूलोग्रा वक्रव्याघ्रीफलैः शृतम् । तैलं नस्य मरुत्श्लेष्मतिमिरोर्द्ध्वगदापहम् ॥” इति शताह्वाद्यं तैलम् । इति चक्रपाणिसंग्रहे शिरोरोगाधिकारे ॥)

"https://sa.wiktionary.org/w/index.php?title=वक्रम्&oldid=163323" इत्यस्माद् प्रतिप्राप्तम्