वत्सनाभ
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वत्सनाभः पुं, (वत्सान् नभ्यति हिनस्तीति । नभ हिंसायाम् + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) विषवृक्षविशेषः । इत्यमरः १ । ८ । ११ ॥ स तु स्थावरविषभेदः । प्रायो वत्सान् नभ्यति हिनस्ति वत्सनाभः णभ्य ग हिंसे ढात् षन्निति षन् । वत्सस्य नाभिरिव वत्सनाभः ष्णः अनित- श्चेति न वृद्धिः अयं सिन्धुवारपत्रसदृशपत्रः । इति भारतः ॥ * ॥ (यथा, हरिवंशे । २२३ । ६५ । “वरुणा वत्सनाभाश्च पनसाश्चन्दनैः सह ॥) तत्पर्य्यायः । अमृतम् २ विषम् ३ उग्रम् ४ महौषधम् ५ गरलम् ६ मारणम् ७ नागः ८ स्तौककम् ९ प्राणहारकम् १० स्थावरादि ११ । अस्य गुणाः । अतिमधुरत्वम् । उष्णत्वम् । वातकफकण्ठरुक्सन्निवातनाशित्वम् । पित्त- सन्तापकारकत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अस्य स्वरूपनिरूपणं यथा । “सिन्धुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा । यत्पार्श्वेन तरोर्वृद्धिर्व्वत्सनाभः स भाषितः ॥” तस्य सामान्यगुणा यथा । “विषं प्राणहरं प्रोक्तं व्यवायि च विकासि च । आग्नेर्य वातकफहृद्योगवाहि मदावहम् ॥” व्यवायि सकलकायव्यापनपूर्ब्बकपाकगमनशीलम् । बिकासि ओजःशोषणपूर्ब्बकं सन्धिबन्धशिथिली- करणशीलम् । आग्नेयं अधिकाग्न्यंशम् । योग- वाहि संसर्गगुणग्राहकम् । मदावहं तमो- गुणाधिक्येन बुद्धिविध्वंसकम् । “तदेव युक्तियुक्तं तु प्राणदायि रसायनम् ॥ योगवाहि त्रिदोषघ्नं वृं हणं वीर्य्यवर्द्धनम् ॥ ये दुर्गुणा विषेऽशुद्धे ते स्युर्हीना विशोधनात् । तस्माद्विषं प्रयोगेषु शोधयित्वा प्रयोजयेत् ॥” इति भावप्रकाशः ॥ (क्लीवेऽपि दृश्यते । यथा, -- “चत्वारि वत्सनाभानि मुस्तके द्वे प्रकीर्त्तिते ।” “ग्रीवास्तम्भो वत्सनाभे पीतविण्मूत्रनेत्रता ॥” इति सुश्रुते कल्पस्थाने द्वितीयेऽध्याये ॥)
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वत्सनाभ पुं।
स्थावरविषभेदाः
समानार्थक:काकोल,कालकूट,हलाहल,सौराष्ट्रिक,शौक्लिकेय,ब्रह्मपुत्र,प्रदीपन,दारद,वत्सनाभ
1।8।11।1।2
दारदो वत्सनाभश्च विषभेदा अमी नव। विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः॥
पदार्थ-विभागः : , द्रव्यम्
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वत्सनाभ¦ पु॰ वत्सान् पशुशिशून् नभ्यति हिनस्ति नभ-अण् वत्सस्य नामिराकारेऽस्त्यस्य अच् वा। स्थावरेविषभेदे अमरः। तल्लक्षणादि भावप्र॰ उक्तं यथा(
“सिन्धुवारसदृक्पत्रोवत्सनाभ्याकृतिस्तथा। यत्पार्श्वेन तरोर्वृद्धिर्वत्सनाभः स भाषितः। तस्य सामान्यगुणा यथा।
“विषं प्राणहरं प्रोक्तं व्यवायि च विकाशिच। आग्नेय वातकफहृद्योगवाहि मदावहम्”। व्यवायि सकलकायव्यापनपूर्वकपाकगमनशीलम्। वि-काशि ओजसःशोषणपूर्बकं सन्धिबन्धशिथिलीकरणशी-लम्। आग्नेयम् अधिकाग्न्यंशं योगवाहि संसर्ग-गुणग्राहकम् मदावहं तमोगुणाधिक्येन बुद्धिविध्यंस-[Page4844-b+ 38] कम्।
“तदेव युक्तियुक्तम् तु प्राणदायि रसायनम्। योगवाहि त्रिदोषघ्नं वृंहणं वीर्य्यवर्द्धनम्। ये दुर्गुणाविषेऽशुद्धे ते स्युर्हीना विशोधनात्। तस्माद्विषं प्रयो-गेषु शोधयित्वा प्रयोजयेत्” भावप्र॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वत्सनाभ¦ m. (-भः) An active poison; also called Mi4tha Zeher, the root of the Aconite ferox brought from Ne4pa4l. E. वत्स a calf, and नभ् to injure, अण् aff.; the root is sometimes compared to the nipple of a cow, whence perhaps this etymology.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वत्सनाभ/ वत्स--नाभ m. a partic. tree MBh. Hariv. (also भक)
वत्सनाभ/ वत्स--नाभ m. N. of a mythical being Hariv. ( v.l. रजत-न्)
वत्सनाभ/ वत्स--नाभ mn. (also भक)a partic. strong poison prepared from the root of a kind of aconite (said to resemble the nipple of a cow ; it is also called Mitha zahr) Sus3r. Bhpr.
वत्सनाभ/ वत्स--नाभ n. a cavity of a partic. shape in the frame of a bedstead VarBr2S.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
VATSANĀBHA : A hermit. Dharma, once took the form of a she-buffalo and saved Vatsanābha from heavy rain. After this he thought that he was an ungrateful man and so he decided to forsake his body. But Dharma dissuad- ed him from this attempt. (M.B. Anuśāsana Parva, Dākṣiṇātya Pāṭha, Chapter 12).
_______________________________
*4th word in right half of page 840 (+offset) in original book.