यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल, त् क गतौ । सङ्ख्यायाम् । इति कविकल्पद्रुमः ॥ (अदन्तचुरां--परं--सकं--सेट् ।) अन्त्यस्थतृती- योपधः । कलयति कालं धीरः । इति दुर्गादासः ॥

कल, ङ सङ्ख्यारुतोः । इति कविकल्पद्रुमः ॥ (भ्वां-- आत्मं--सकं--अकं च--सेट् ।) ङ कलते दिवसं वृद्धः गणयतीत्यर्थः । रुत् शब्दः । इति दुर्गादासः ॥

कल, क नुदौ । इति कविकल्पद्रुमः ॥ (चुरां--परं-- सक--सेट् ।) क कालयति । नुदिरिति नुद ञौश् प्रेरणे इत्यस्य औणादिककिप्रत्यये रूपम् । इति दुर्गादासः ॥

कलम्, क्ली, (कडति माद्यति अनेन । कड मदे + “हल- श्च” । ३ । ३ । १२१ । इति घञ् । संज्ञापूर्ब्बकत्वात् वृद्ध्यभावः । डलयोरेकत्वम् ।) शुक्रम् । इति मेदिनी ॥ कोलिवृक्षः । इति शब्दचन्द्रिका ॥

कलः, पुं, (कल + भावे घञ् वृद्ध्यभावः ।) मधुरास्फुट- ध्वनिः । इत्यमरः । १ । ७ । २ ॥ (“जगौ कलं वामदृशां मनोहरम्” ॥ इति भागवतम् । १० । २९ । ३ ॥) सालवृक्षः । इति राजनिर्घण्टः ॥

कलः, त्रि, (कलयति मान्द्यं नयति जाठराग्निम् । कल + णिच् + अच् । धातूनामनेकार्थत्वात् विशेषतः कलिहलिरित्युक्तेश्च तथात्वम् ।) अजीर्णः । इति मेदिनी ॥ (अव्यक्तमधुरध्वनिः । यथा रघुः । १ । ४१ । “सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल पुं।

अव्यक्तमधुरध्वनिः

समानार्थक:कल

1।7।2।2।1

काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे। कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु॥ नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः। स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल¦ संख्यायां सक॰ शब्दे अक॰ भ्वा॰ आत्म॰ सेट्। कलतेअकलिष्ट चकले प्रनिकलते।

कल¦ गतौ संख्यायाञ्च अद॰ चुरा॰ उभय॰ सक॰ सेट्। कलयति ते अचकलत् त। कलयाम्--बभूव आस-चकार चक्रे। गत्यर्थत्वात् ज्ञानार्थत्वमपि।
“कल-यन्त्यनुक्षणमनेकलयम्” माघः
“व्यालनिलयमिलनेनगरलमिव कलयति मलयजसारम्” जयदे॰ ग्रहणे
“कलथबलयश्रेणीं पाणौ पदे कुरुनूपुरौ” जलदे॰। संख्यानञ्चात्रगणनं ज्ञानभेदश्च।
“स पश्चात् संपूर्णः कलयति धरित्रींतृणसमाम्” नीतिः
“कलयैदमानमनसं सखि! माम्” माघः।
“वाचामाचकलत् रहस्यमखिलं यश्चाक्षपादस्फुराम्” मल्लि॰। उच्चारणेच
“माद्यन्तः कलयन्तु चूतशिखरे, केलि-पिकाः पञ्चमम्”। ग्रासे
“कालः कलयतामस्मि” गीता।
“कलनात्सर्वभूतानां स कालः परिकीर्त्तितः” ति॰ त॰विष्णुध॰। कलनीयम् कलयितव्यम् कलयिता कलितः। कलयन् कलयमानः कलयितुम् कलयित्वा आक-लय्य।
“कलितललितवनमालम्” जयदे॰
“करक-लितकपालः कुण्डली दण्डपाणिः” वटुकस्तवः। अव--अवगमे अवकलयति वि + अव वियोजने
“यदि व्यक्तेयुक्तिव्यवकलनमार्गेऽसि कुशला” लीला॰। आ + बन्धने
“सुवर्ण्णसूत्राकलिकधराम्बराम्, माघः ज्ञाने च”
“वाचामाचकलत्” मल्लि॰।
“मकरध्वजद्विरदमाकलयत्”
“सुक्तावलीराकलयाञ्चकार” इति च माघः। [Page1776-b+ 38] प्रति आ + प्रतिबोधे प्रत्याकलितस्वदुर्नयः” दशकु॰। उद् + उत्क्षिप्य ग्रहणे
“स तस्य हस्तोत्कलितस्तदासुरो विक्री-डतो यद्वदहिर्गरुत्मतः” भाग॰

७ ,

८ ,

१६ । सम् + एकसंख्यापादनरूपे योगे।
“अथ संङ्कलनव्यकलननयोःकरणसूत्रम्”
“सैकपदघ्नपदार्धमथैकाद्यङ्गयुतिः किलसङ्गलिताख्या” लीला॰।

कल¦ नोदने प्रेरणे चुरा॰ उभय॰ सक॰ सेट्। कालयति तेअचीकलत् त। कालयां बभूव आस चकार चक्रे। काल-यितव्यः कालनीयः। कालयिता कालितः कालयन् कालय-मानः। कालयित्वा आकाल्य। कर्म्मणि काल्यते अकालिअकालयिषाताम् अकालिषाताम्।
“गवां शतसहस्राणित्रिगर्त्ताः कालयन्ति ते” भा॰ वि॰

१०

० ,

७ ।
“गावोन काल्यन्त इदं कुतो रजः” भाग॰

४ ,

५ ,

८ । सा गौस्तत्-सकलं सैन्यं कालयामास दूरतः” भा॰ आ॰

६६

९० ।

कल¦ पु॰ कल--शब्दे घञ् नि॰ अवृद्धिः। मधुराव्यक्ते ध्वनौअमरः।
“सारसैः कलनिर्ह्रादैः”
“कलमन्यमृतासुभाषितं कलहंसीसु मदालसं गतम्”
“निशासु भास्वत्कलनूपुराणाम्” रघुः।
“कलपक्षिणीरवमुदासि वपुः”।
“कलकाञ्चि काञ्चिदरुणत्तरुणः” माघः। कलप्रधानाकाञ्चि-र्यत्र एवं कलहंस इत्यादौ शा॰ त॰ समासस्तेन तस्य नतद्युक्तार्थता। अतएवामरेण
“कलो मन्द्रस्तु गम्भीरस्तारो-ऽत्युच्चैस्त्रयस्त्रिषु” मन्द्रादीनां त्रयाणामेव त्रिलिङ्गत्व-मुक्तम्।
“उदकण्ठि कण्ठपरिवर्त्तिकलस्वरशून्यगानपरयापरया” माघः। कड--मदे अच् डस्य लः।

२ शुक्रे चरम-धातौ न॰ मेदि॰।

४ कोलिवृक्षे पु॰ शब्दच॰।

४ सालवृक्षेपु॰ राजनि॰।

५ अजीर्ण्णे त्रि॰ मेदि॰। कलास्त्यस्यअच्। कुलान्वितेऽवयवे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल¦ r. 1st cl. (कलति) To sound. 1st and 10th cls. (कलति, कालयति) To throw or cast, to send; also 1st and 10th cls. (कलति, कलयति)
1. To go.
2. To count or reckon: with आङ् prefixed,
1. To take,
2. To bind or tie; with परि, To keep in mind, to think or remember; with वि, To maim, to separate a part, to make defective; with सम्, To sum up, to add.

कल¦ mfn. (-लः-ला-लं)
1. Crude, undigested.
2. Weak. m. (-लः)
1. A low [Page164-b+ 60] or soft tone, as humming, buzzing, &c.
2. The Sal tree.
3. In poetry, time equal to four matras or instants. n. (-लं)
1. Semen virile.
2. The jujube, Zizyphus jujuba.) f. (-ला)
1. A small part of anything.
2. A digit or one sixteenth of the moon's diameter.
3. A division of time, equal to thirty Kash'has or about eight seconds.
4. The 60th part of one thirtieth of a zodiacal sign, a minute of a degree.
5. Interest on a capital.
6. Any practical art, mechanecal or fine, sixty-four such are enumerated, as carpentering, architecture, jewel- lery, farriery, acting, dancing, music, medicine, poetry, &c.
7. The menstrual discharge.
8. A boat
9. Fraud, deceit. E. कल् to sound, to count, &c. अच् affix or क pleasure, and ल what gives, from ला to bring, &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल [kala], a. [ कल्- घञ्]

Sweet and indistinct (अस्पष्टमधुर); कर्णे कलं किमपि रौति H.1.78; सारसैः कलनिर्ह्रादैः R.1.41,8. 59; M.5.1. वाग्भिः कलाभिर्ललितैश्च हावैः Bu. Ch.2.3. (Hence

Low, soft, sweet (note &c.); melodious, pleasing, निशासु भास्वत्कलनूपुराणाम् R.16.12.

Making noise, jingling, tinkling &c.; भास्वत्कलनूपुराणाम् R.16.12; कल- किङ्किणीरवम् Śi.9.74,82; कलमेखलाकलकलः 6.14,4.57;

Weak.

Crude; undigested.

Vigorous.

Full. दीनस्य ताम्राश्रुकलस्य राज्ञः Rām.2.13.24.

ला A low or soft and inarticulate tone.

(In poetry) Time equal to four Mātrās.

(-m. pl.) A class of manes.-लम् Semen. -Comp. अङ्कुरः the Sārasa bird. -अनु- वादिन् m.

a sparrow.

a bee.

the Chātaka bird. -अविकलः a sparrow.

आलापः a sweet humming sound.

sweet and agreeable discourse; स्फुरत्- कलालापविलासकोमला करोति रागं हृदि कौतुकधिकम् K.2.

a bee. -उत्ताल a. high, sharp. -कण्ठ a. having a sweet voice. (-ण्ठः) (ण्ठी f.)

the (Indian) cuckoo.

a goose, swan.

कलः murmuring or hum of a crowd.

indistinct or confused noise; चलितया विदधे कलमेखलाकलकलो$लकलोलदृशान्यया Śi.6.14; नेपथ्ये कलकलः (in dramas); Bh.1.27,37; Amaru.31.

N. of Śiva.

resin, pitch. -कूजिका, -कूणिका a wanton woman. -घोषः the (Indian) cuckoo. -चु(चू)रिः N. of a royal family; B. R. -तूलिका a wanton or lascivious woman. -धूतम् silver.

धौतम् silver; कलधौतधौत- शिलवेश्मनां रुचौ Śi.13.21,4.41.

gold; विमलकलधौत- त्सरुणा खड्गेन Ve.3. कन्येयं कलधौतकोमलरुचिः कीर्तिस्तु नातः परा Mahār.

a low or pleasing tone. ˚लिपि f.

illumination of a manuscript with gold.

characters written in gold; मरकतशकलकलितकलधौतलिपेरिव रतिजय- लेखम् Gīt.8.

ध्वनिः a low sweet tone.

a peacock.

the (Indian) cuckoo.-नाद a. having a low and sweet tone. (-दः) a swan; see कलध्वनि. -भाषणम् lisping, the prattle of childhood.

रवः a low sweet tone.

a dove.

the (Indian) cuckoo. -विशुद्ध a. soft and clear; Ś.5. -व्याघ्रः a mongrel breed between a tigress and panther.

हंसः a gander, a swan; वधूदुकूलं कलहंस- लक्षणम् Ku.5.67.

a duck, drake; Bk.2.18; कलमन्य- भृतासु भाषितं कलहंसीषु मदालसं गतम् R.8.59.

the supreme soul.

an excellent king.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल mf( आ)n. ( etym. doubtful) indistinct , dumb Br2A1rUp. ChUp.

कल mf( आ)n. ( ifc. , बाष्प, or अश्रुpreceding) indistinct or inarticulate (on account of tears) MBh. R. etc.

कल mf( आ)n. low , soft (as a tone) , emitting a soft tone , melodious (as a voice or throat) R. BhP. Vikr. etc.

कल mf( आ)n. a kind of faulty pronunciation of vowels Pat.

कल mf( आ)n. weak , crude , undigested L.

कल m. ( scil. स्वर)a low or soft and inarticulate tone (as humming , buzzing etc. ) L.

कल m. Shorea robusta L.

कल m. (in poetry) time equal to four मात्रs or instants W.

कल m. pl. a class of manes MBh.

कल n. semen virile L.

कल n. Zizyphus Jujuba

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KALA (S) A : group of Manes. This group lives in the Brahmasabhā. (Chapter 11, Śānti Parva).


_______________________________
*4th word in right half of page 370 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कल&oldid=495281" इत्यस्माद् प्रतिप्राप्तम्