यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कास, ऋ ङ कुशब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-- आत्मं-अकं-सेट्-ऋदित् ।) कुशब्द इह रोग हेतुककुत्सितशब्दः । ऋ अचकासत् । ङ कासते वृद्धः । इति दुर्गादासः ॥

कासः, पुं, (कासतेऽनेन । कासृ शब्दकुत्सनयोः । “हलश्च” ३ । ३ । १२१ । इति घञ् ।) रोगविशेषः । कासी इति भाषा । तत्पर्य्यायः । क्षवथुः २ । इत्यमरः । २ । ६ । ५२ ॥ तस्य निदानं यथा, -- “धूमोपघाताद्रजसस्तथैव व्यायामरूक्षान्ननिषेवणाच्च । विमार्गगत्वाच्च हि भोजनस्य वेगावरोधात् क्षवथोस्तथैव” ॥ सम्प्राप्तिर्यया । “प्राणो ह्युदानानुगतः प्रदुष्टः” ॥ लक्षणं यथा । “संभिन्नकांस्यस्वनतुल्यघोषः । निरेति वक्त्रात् सहसा सदोषो मनीषिभिः कास इति प्रदिष्टः” ॥ स च पञ्चविधो यथा, -- “पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः । क्षयायोपेक्षिताः सर्व्वे बलिनश्चोत्तरोत्तरम्” ॥ तेषां पूर्ब्बरूपं यथा, -- “पूर्ब्बरूपं भवेत्तेषां शूकपूर्णगलास्यता । कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते” ॥ वातिको यथा, -- “हृच्छङ्खमूर्द्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः । प्रसक्तदेगस्तु समीरणेन भिन्नस्वरः कासति शुष्कमेव” ॥ पैत्तिको यथा, -- “उरोविदाहज्वरवक्त्रशोषै- रभ्यर्द्दितस्तिक्तमुखस्तृषार्त्तः । पित्तेन पीतानि वमेत् कटूनि कासेत् सपाण्डुः परिदह्यमानः” ॥ श्लैष्मिको यथा, -- “प्रलिप्यमानेन मुखेन सीदन् शिरोरुजार्त्तः कफपूर्णदेहः । अमक्तरुग्गौरवसादयुक्तः कासेद्भृशं सान्द्रकफः कफेन” ॥ क्षतजो यथा, -- “अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः । रूक्षस्योरः क्षतं वायुर्गृहीत्वा कासमावहेत् ॥ स पूर्ब्बं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् । कफं शुद्धैश्च तःपुष्टिं कुर्य्यात्सम्यग्वहन् रसः । चविकात्रिफलाभार्गी दशमूलः स चित्रकैः ॥ कुलत्थपिप्पलीमूलपाठाकालयवैर्जले । शृतैर्नागरदुस्पर्शा पिप्पलीशठिपौष्करैः ॥ पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत् । सिद्धेऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च ॥ दत्त्वा युक्त्यापिबेन्मात्रां क्षयकासनिपीडितः । कासमर्द्दोऽभयामुस्तापाठाकट्फलनागरैः ॥ पिप्पल्या कटुरोहिण्या काश्मर्य्याः स्वरसेन च । अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षा रसाढके ॥ पचेच्छोषज्वरप्लीहसर्व्वकासहरं शिवम्” ॥ * ॥ “वृषव्याघ्री गुडूचीनां पञ्चमूलफलाङ्कुरान् ॥ रसकल्कैर्घृतं पक्वं हन्ति कासज्वरारुचीः” । “स्युर्दोषबद्धः कण्ठोरः स्रोतसाञ्च विशुद्धये ॥ प्रस्थोन्मिते यवक्वाथे विंशतिर्विजयाः पचेत् । स्विन्नामृदित्वा तास्तस्मिन् पुराणात्षट्पलं गुडात् ॥ पिप्पल्या द्विपलं कर्षं मनोह्वाया रसाञ्जनात् । दत्त्वार्द्धाक्षं पचेद्भूयः सलेहः श्वासकासनुत्” ॥ “तद्वन्मरि चचूर्णं वा सघृतक्षौद्रशर्करम् । पथ्याशुण्ठी घनगुडैर्गुटिकां धारयेन्मुखे ॥ सर्व्वेषु श्वासकासेषु केवलं वा विभीतकम् । पत्रकल्कं घृतभृष्टं तिल्वकस्य सशर्करम् ॥ पेयावोत्कारिकाच्छर्द्दितृट्कासामातिसारनुत् । कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः ॥ स गौरामलकः साम्लः सर्व्वक्वासभिषग्जितम् ॥ वातघ्नौषधनिःक्वाथे क्षीरं यूषान् रसानपि । वैष्किरान् प्रातुदान् वैलान् दापयेत् क्षयकासिने ॥ क्षतकासे च येधूमाः सानुपानानि दर्शिताः । क्षयकाशेऽपि ते योज्या वक्ष्यन्ते यच्च यक्ष्मणि ॥ वृंहणं दीपनञ्चाग्नेः स्रोतसाञ्च विशोधनम् । व्यत्यासात्क्षयकासिभ्यो बल्यं सर्व्वं प्रशस्यते ॥ सन्निपातोद्भवो घोरः क्षयकासो यतस्ततः । यथादोषबलन्तस्य सन्निपातहितं हितम्” ॥ इति वाभटे चिकित्सास्थाने ३ अध्याये ॥ * ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कास पुं।

कासरोगः

समानार्थक:कास,क्षवथु

2।6।52।1।4

स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान्. शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कास¦ कुत्सित शब्दे (रोगहेतुकशब्दभेदे) भ्वा॰ आत्म॰ अक॰सेट्। कासते अकासिष्ट कासाम्--बभूब--आस--चक्रे चका-से
“असीतोरावणः कासाञ्चक्रे शस्त्रेर्निराकुलः” भट्टिः।
“कासाञ्चक्रे कुत्सितशब्दमभिहितवान्” जयम॰।
“अतऊर्द्ध्वं प्रवक्ष्यामि धूमोपहतलक्षणम्। श्वसितिक्षौति चात्यर्थमत्याधमति कासते”
“स पूर्ब्बं कासतेशुष्कम्” सुश्रु॰।
“कासमानश्च तृष्णाभिभूतः” सुश्रु॰। अस्व क्वचित् परस्मैपदित्वमिच्छन्ति।
“प्रसक्तवेगश्च समी-रणेन कासेत्तु शुष्कं स्वरभेदयुक्तः” सुश्रु॰ कासशब्दे उदा॰। क्विप् काः।
“यत्त्वं शीतोऽथोरूरः सह कासा वेपयः” अथ॰

५ ,

२२ ,

१० , भावे घञ्। कासः कुत्सितशब्दः
“मुञ्चशीर्पक्त्या उत कासएनम्” अथ॰

१ ,

१२ ,

३ ।

कास¦ त्रि॰ कस हिंसने कर्त्तरि ण।

१ हिंसके। कासतेऽनेनकास--करणे घञ्।

२ रोगभेदे पु॰
“कुरुथा वलासंकासमुद्युगम्” अथ॰

५ ,

२२ ,

११ । तल्लक्षणनिदानादिसुश्रुते उक्तं यथा
“अथातः कासप्रतिषेधमध्यायं व्याख्यास्यामः। उक्ता[Page2042-b+ 38] ये हेतवो नॄणां रोगयोः श्वासहिक्कयोः। कासस्यापि चते ज्ञेयास्त एवोत्पत्तिहेतवः। धूमोपघाताद्रजसस्तथैवव्यायामरूक्षान्ननिषेवणाच्च। विमार्गगत्वादपि भोजनस्यवेगावरोधात् क्षवथोस्तथैव। प्राणोह्युदानानुगतः प्रदुष्टःसंभिन्नकांस्यस्वनतुल्यघोषः। निरेति वक्त्रात्सहसा सदोषःकासः स विद्वद्भिरुदाहृतस्तु। स वातपित्तप्रभवः कफाच्चक्षतात्तथान्यः क्षयजोऽपरश्च। पञ्चप्रकारः कथितोभिषग्भिर्व्विवर्द्धितो यक्षविकारकृत् स्यात्। भविष्यतस्तस्यतु कण्ठकण्डूर्भ्योज्योपरोधो गलतालुलेपः। स्वशब्दवैषम्य-मरोचकोऽग्निसादश्च लिङ्गानि भवन्त्यमूनि। हृच्छङ्ख-मूर्द्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः। प्रस-क्तवेगश्च समीरणेन कासेत्तु शुष्कं स्वरभेदयुक्तः। उरी-विदाहज्वरवक्त्रशोषैरभ्यर्द्दितस्तिक्तमुखस्तृषार्त्तः। पित्तेनपीतानि वमेत्कटूनि कासेत्स पाण्डुः परिदह्यमानः। विलिप्यमानेन मुखेन सीदन् शिरोरुगार्त्तः कफपूर्णदेहः। अभक्तरुग् गौरवसादयुक्तः कासेद्भृशं सान्द्रकफः कफेन। वक्षोऽतिमात्रं विहतञ्च यस्य व्यायामभाराध्ययनाभिधा-कैः। विश्लिष्टवक्षाः स नरः सरक्तं ष्ठीवत्यभीक्ष्णं क्षत-जःस उक्तः। अतिव्यवायभाराध्वयुक्ताश्वगजविग्रहैः। रहस्योरःक्षतं वायुर्गृहीत्वा कासमावहेत्। स पूर्बंकासते शुष्कं ततः ष्ठीवेत् सशोणितम्। कण्ठेन रुज-ताऽत्यर्थं विभिन्नेनैव चोरसा। सूचीभिरिव तीक्ष्णाभि-स्तुद्यमानेन शूलिना। दुःखस्पर्शेन शूलेन भेदपीडाभि-तापिना। पर्व्वभेदज्वरश्वासवृष्णावैस्वर्य्यपीडितः। पा-रावतैवाकूजन् कासवेगात् क्षतोद्भवात्। विषमाऽसात्म्य-भोज्यातिव्यवायाद्वेगनिग्रहात्। वृणिनां शोचतां नॄणांव्यापन्नेऽग्नौ त्रयो मलाः। कुपिताः क्षयजं कासंकुर्य्युर्देहक्षयप्रदम्। स गात्रशूलज्वरटाहमोहान्प्राणक्षयञ्चोपलभेत कासी। शुष्यन् विनिष्ठीवति दुर्ब्ब-लस्तु प्रक्षीणमांसो रुधिरं सपूयम्। तं सर्व्वलिङ्गंभृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति। वृद्ध-त्वमासाद्य भवत्यथौ वै याप्यन्तमाहुर्भिषजस्तु कासम्”। भावप्र॰ एतद्विवृतं यथापञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः। क्षयायोपे-क्षिताः सर्वे बलिनश्चोत्तरोत्तरम्। क्षयाय राजयक्ष्मणे। अथ पूर्व्वरूपमाह। पूर्व्वरूपं भवेतेषां शूकपूर्णगला-स्यता। कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते। भोज्यानामवरोधः कवलगिलने कण्ठव्यथा। अथ[Page2043-a+ 38] वातिकस्य रूपमाह हृच्छङ्खपार्श्वोदरमूर्द्ध्वशूली क्षामान-नः क्षीणवलस्वरौजाः। प्रसक्तवेगस्तु समीरणेन भिन्नस्वरःकासति शुष्कमेव। शङ्खो ललाटैकदेशः, शुष्कं श्लेष्मादि-रहितम्। पैत्तिकस्य रूपमाह तनोर्बिदाहज्वरवक्त्र-शोषैरभ्यर्द्दितस्तिक्तमुखस्तृपार्त्तः। पित्तेन पीतानि वमे-त्कटूनि कासेत् सपाण्डुः परिदहामानः। सपाण्डुः,पाण्डुरोगयुक्तः। श्लैष्मिकस्य रूपमाह प्रलिप्यमानेनमुखेन सीदेत् शिरोरुजार्त्तः कफपूर्ण्णदेहः। अभक्तरुङ्-नीरवकण्डुयुक्तः कासेद्भृशं सान्द्रकफः कफेन। प्रलिप्य-मानेन मुखेन श्लेष्मलिप्तेन मुखेनोपलक्षितः। अभक्तरुक् नभक्ते रुक् रुचिर्य्यस्यसः कण्डूः कण्ठ एव। क्षतकासस्यनिदानपूर्ब्बिकां सम्प्राप्तिमाह अतिव्यवायभाराध्वयुद्धा-श्वगजनिग्रहैः। रहस्योरःक्षतं वायुर्गृहीत्वा कासमा-वहेत्। अश्वगजयोर्निग्रहो दमनम्। लक्षणमाह सपूर्ब्बं कासते शुष्कं ततः ष्ठीवेत् सशोणितम्। कण्ठेनकूजत्यत्यर्थं विभग्नेनेव चोरसा। सूचीभिरिवतीक्ष्णाभिस्तुद्यमानेन शूलिना। दुःखस्पर्शेन शूलेनभेदपीडाभितापिना। पर्वभेदज्वरश्वासतृष्णावैस्वर्य्य-पीडितः। पारावत इवाकूजन् कासवेगात् क्षतोद्भ-वात्। कण्ठेनेत्युपलक्षणे तृतीया एवमुरसेति। क्षयकासस्य निदानपूर्ब्बकां सम्प्राप्तिमाह विषमाऽसात्म्य-भोज्यातिव्यवायाद्वेगनिग्रहात्। वृणिनां शोचतां नॄणांव्यापन्नेऽग्नौ त्रयो मलाः। कुपिताः क्षयणं कासं कु-र्य्युर्देहक्षयप्रदम्। घृणिनां विचिकित्सायुक्तानाम्। ल-क्षणमाह सगात्रशूलज्वरमोहदाहप्राणक्षयञ्चोपलभेत्-स कासी। शुष्कं विनिष्ठीवति निर्बलस्तु प्रक्षीणमांसोरुधिरं सपूयम्। तं सर्यलिङ्गं भृगदुश्चिकित्स्यं चिकि-त्सितज्ञाः क्षयजं वदन्ति। असाध्यसाध्ययाप्यानाहइत्येष क्षयजः कासः क्षीणानां देहनाशनः। साध्योबलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः। एवं क्षतो-त्थितः क्षीणानामसाध्यः। बलवतां साध्यो याप्यो वास्यात्। न वा कदाचित् सिध्येतामपि पादगुणान्वितौसिध्येतां क्षतजक्षयजौ सद्वैद्यः सद्भेषजः सत्परिचार-कथुक्तस्य सदातुरस्य जातौ। स्थविराणां जराकासःसर्वो याप्यः प्रकीर्त्तितः। स्थविराणां जराकासः वृद्धा-नां यः कासो भवति स जराकाससंज्ञः स सर्वएव वात-जादिरपि याप्यः। त्रीन् पूर्वान् साधयेत् साध्यान् पथ्यै-र्याप्यांस्तु यापयेत्। स्वल्पोऽपि कास उपेक्षणीयो न भव-[Page2043-b+ 38] ति। किन्तु शीघ्रं प्रतिकुरणीय इत्याह ज्वरारोचकहृल्लासस्वरभेदक्षयादयः। भवन्त्युपेक्षया यस्मात्तस्मार्त्तत्वरया जयेत्”। कासरोगभेदस्य हेतुपापादि कर्म्मविपाकशब्दे

१७

६४ ,पृ॰ उक्तम् कं जलमस्यतेऽनेन अस--क्षेपणे करणे घञ्

६ त॰।

३ शोभाञ्जनवृक्षे पु॰ शब्दच॰। तदञ्जनसेवनेनेत्राज्जलनिस्मारणात्तस्य तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कास¦ r. 1st cl. (ऋ) कासृ (कासते)
1. To make a bad sound, or one indi- cating disease; to cough.
2. To shine: see काश।

कास¦ m. (-सः)
1. Cough, catarrh.
2. A species of reed or long grass, (Saccharum spontaneum.)
3. Morunga, (Hyperanthera, &c.) see शीभाञ्जन। E. कास् to cough, to make an unpleasant sound, अच् affix: also काश् to shine, &c. see काश।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कासः [kāsḥ] सा [sā], सा [कास्-घञ्]

Cough, catarrh. मुञ्च शीपेक्त्था उत कास एनम् Av.1.12.3; कासश्वासकृतायासः कण्ठे घुरघुरायते Bhāg.3.3.16.

Sneezing. -Comp. -कुण्ठ a. affected with cough. (-ण्ठः) an epithet of Yama.-घ्न, -हृत् a. removing cough, pectoral. (-घ्नः) a medical plant (Mar. बेहडा) (-घ्नी) a sort of prickly nightshade, Solanum Jacquini (Mar. रिंगणी). -नाशिनी N. of medicinal plant.

मर्दः a cure of cough.

an acid preparation (कासुंदी).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कास m. id. Sus3r. BhP.

कास mn. for काश(the grass Saccharum spontaneum) L.

कास m. the plant Moringa pterygosperma L.

कास mfn. fr. कस्Pa1n2. 3-1 , 140.

"https://sa.wiktionary.org/w/index.php?title=कास&oldid=496193" इत्यस्माद् प्रतिप्राप्तम्