यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रूरः, त्रि, (कृत् छेदने + “कृतेश्छक्रूच” । उणां २ । २१ । इति रक्प्रत्ययः धातोः क्र्वादेशश्च ।) पर- द्रोहकारी । (यथा, मेघदूते । १०७ । “क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः” ॥) निर्दयः । तत्पर्य्यायः । नृशंसः २ घातुकः ३ पापः ४ । (यथा, भागवते । ९ । १४ । ३७ । “स्त्रियो ह्यकरुणाः क्रूरा दुर्मर्षाः प्रियसाहसाः” ॥ यथा, च कुमारे । २ । ४८ । “तस्मिन्नुपायाः सर्व्वे नः क्रूरे प्रतिहतक्रियाः” । “क्रूरे घातुके” इति मल्लिनाथः ॥) कठिनः । इत्यमरः । ३ । ३ । १९० ॥ (यथा, रघुवंशे । १२ । ४ । “तस्याभिषेकसम्भारं कल्पितं क्रूरनिश्चया” ॥) घोरः । इति मेदिनी ॥ (यथा, पञ्चतन्त्रे ३ । २५ । “क्रूरो लुब्धोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः” ॥) उष्णः । इति हेमचन्द्रः ॥ प्रथमतृतीषपञ्चमसप्तम- नवमैकादशराशयः । यथा, -- “ओजोऽथ युग्मं विषमः समश्च क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च । चरस्थिरद्व्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टाः” ॥ इति दीपिका ॥

क्रूरः, पुं, (कृन्ततीति । “कृतेश्छक्रूच” । उणां २ । २१ । इति रक् धातोः क्र्वादेशश्च ।) भूताङ्कुशवृक्षः । रक्तकरवीरवृक्षः । श्येनपक्षी । कङ्कपक्षी । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रूर वि।

परद्रोहकारी

समानार्थक:नृशंस,घातुक,क्रूर,पाप,क्षुद्र,शार्वर,निस्त्रिंश

3।1।47।2।3

कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः। नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

क्रूर वि।

कठिनम्

समानार्थक:खक्खट,कठिन,क्रूर,कठोर,निष्ठुर,दृढ,जरठ,मूर्तिमत्,मूर्त,घन,जठर,कर्कश

3।1।76।1।3

खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्. जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रूर¦ त्रि॰ कृत--रक् धातोः क्रूः।

१ निर्दये

२ कठिने अमरः

३ हिंसके

४ उग्रे च मेदि॰।
“तस्याभिषेकसंभारं कल्पितंक्रूरनिश्चया” रघुः।
“तस्मिन्नुपायाः सर्व्वेनः क्रूरेप्रतिहतक्रियाः” कुमा॰।
“दृढकारी मृदुर्दान्तः क्रूराचा-[Page2337-b+ 38] रैरसंवसत्” मनुः। तस्य भावः ष्यञ् क्रौर्य्य न॰, तल्क्रूरता स्त्री, त्वक्रूरत्व न॰, निर्द्दयत्वे हिंसने काठिन्येउग्रत्वे च।
“ओजोऽथ युग्मं विषमः समश्च क्रूरोऽथसौम्यः पुरुषोऽङ्गना च। चरस्थिरद्व्यात्मकनामधेया मे-षादयोऽमी क्रमशः प्रदिष्टाः” दोपिकोक्ते मेषादिषु मध्ये

५ विषमराशौ पु॰
“अर्द्धोनेन्द्वर्कसौराराः पापाः सौम्या-स्तथा परे। पापयुक्तोबुधः पापोराहुकेतू च पापदौ” ज्योति॰ उक्ते

६ ग्रहभेदेच
“यथा दृष्टफला क्रूरास्तथासौम्याः शुमप्रदाः। क्रूरयुक्तः पुनः सौम्योज्ञेयः क्रूर-फलप्रदः”
“इदञ्च सौम्यक्रूराणां फलं स्थानवशात्समम्। एतदेव फलं विद्धि सौम्यैः क्रूरैर्विपर्य्ययात्”
“ग्रहाः सौम्यास्तथा क्रूरा वक्राः शीघ्रोचनीचगाः” इति
“तिथिराश्यंशनक्षत्रं विद्धं क्रूरग्रहेण यत्। सर्व्वेषुशुभकार्य्येषु वर्ज्जयेत्तत् प्रयत्नतः। न नन्दति विवाहेच यात्रायां न निवर्त्तते। रोगाद्विमुच्यते रोगी वेधवेला-कृतोद्यमः। रोगकाले भवेद्वेधः क्रूरखेचरसम्भवः”
“क्रूरावक्रा महाक्रूरा इति च ज्यो॰ त॰ पापग्रहार्थपरतया क्रूरशब्दप्रयोगात्। क्रूरवेधप्रकारस्तु चक्र-शब्दे सर्व्वतोभद्रचक्रे वक्ष्यते।

७ रक्तकरवीरे पु॰

८ श्येन-पक्षिणि

९ कङ्कपक्षिणि च पुंस्त्री॰ राजनि॰ स्त्रियांजातित्वात् ङीप्।

१० रक्तपुनर्णवायां स्त्री राजनि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रूर¦ mfn. (-रः-रा-रं)
1. Cruel, pitiless.
2. Hard, harsh.
3. Hard, solid.
4. Mischievous, destructive.
5. Formidable, terrible.
6. Hot, sharp.
7. Disagreeable. m. (-रः)
1. An odd sign of the zodiac, as the first, third, fifth, &c. which are, of malignant influences.
2. A hawk.
3. A heron.
4. Red oleander. E. कृत् to cut, रक् Unadi affix, and क्रू substituted for कृत।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रूर [krūra], a. [कृत-रक् धातोः क्रूः; Uṇ.2.21]

Cruel, wicked, hard-hearted, pitiless; तस्याभिषेकसंभारं कल्पितं क्रूरनिश्चया R.12.4; Me.17; Ms.1.9; तानहं द्विषतः क्रूरान् Bg.16. 19.

Hard, rough.

Formidable, terrible, fierce, ferocious, savage.

Destructive, mischievous.

Wounded, hurt.

Bloody.

Raw.

Strong.

Inauspicious (as opposed to सौम्य and अक्रूर; said of 1st, 3rd, 5th, 7th, 9th and 11th signs of the zodiac which are supposed to have a malignant influence.)

Hard, solid, hardened; Ś.2.4.

Hot; disagreeable, sharp; Ms.2.33.

Harsh, jarring; क्रूरक्वणत्कङ्कणानि Mv.1.35. -रः, -रम् Boiled rice.

रः A hawk.

heron.

An uneven sign of the zodiac.

N. of a planet (Rāhu or Saturn).

A kind of horse; तद्वद्वामाश्रयाः क्रूरः प्रकरोति धनक्षयम् Śālihotra 15.

रम् A wound.

Slaughter, cruelty.

Any horrible deed.

Any frightful appearance. -ind. In a formidable manner; Mb.3. -Comp. -आकृति a. terrible in form (-तिः) epithet of Rāvaṇa. -आचारः a. following cruel or savage practices; Ms.4.246. -आत्मन् the planet Saturn. -आशय a.

containing fierce animals (as a river).

of a cruel disposition. -कर्मन् n.

a bloody act.

any hard labour. -a. doing a bloody act; अहं क्रूरकर्मा जात्या चाण्डालः K. -कर्मकृत् m. a rapacious animal; Ms.12.58. -कृत् a. fierce, cruel, unrelenting; -कोष्ठ a. having costive bowels (unaffected by strong purgatives). -गन्ध sulphur. -चरित, -चेष्ठितa. cruel, ferocious. -दृश् a.

evil-eyed, having a malignant look; Ks.62.27.

mischievous, villainous. (-m.) N. of Saturn; also of Mars. -राविन् m. a raven -लोचनः an epithet of the planet Saturn.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रूर mf( आ)n. (fr. क्रवि-स्See. स्थूरand स्थविर) , wounded , hurt , sore S3Br.

क्रूर mf( आ)n. " bloody , raw " , cruel , fierce , ferocious , pitiless , harsh , formidable AV. TS. vi Mn. etc.

क्रूर mf( आ)n. inauspicious (as opposed to सौम्यand अ-क्रूर, said of the first , third , fifth , seventh , ninth , and eleventh signs of the zodiac , which are supposed to have a malignant influence Jyot. ; said of planets VarBr2S. )

क्रूर mf( आ)n. hard , solid Sus3r. S3ak. Pan5cat.

क्रूर mf( आ)n. strong (as a bow , opposed to मन्द) Na1r.

क्रूर mf( आ)n. hot , sharp , disagreeable L.

क्रूर mn. boiled rice(See. कूर) L.

क्रूर m. a hawk L.

क्रूर m. a heron L.

क्रूर m. red oleander(= रक्त-करवीर) L.

क्रूर n. a wound , sore AV. VS. TS. S3Br.

क्रूर m. blood-shedding , slaughter , cruelty , any horrible deed , harshness AV. AitBr. i , 26 Mn. i , 29 etc.

क्रूर m. any frightful apparition AdbhBr.

क्रूर m. a kind of house Gal.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of पौरुषेय Ra1ks2asa. Br. III. 7. ९३.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KRŪRA : A country in Ancient India. (Mahābhārata, Bhīṣma Parva, Chapter 9, Stanza 65).


_______________________________
*3rd word in left half of page 433 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=क्रूर&oldid=497731" इत्यस्माद् प्रतिप्राप्तम्