यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशः, पुं, (दिश्यते निर्द्दिश्यते इति । दिश निर्द्देशे + कर्म्मणि घञ् ।) भूगोलभागविशेषः । इति सिद्धान्तमञ्जरी ॥ जनपदे जनपदसमुदाये जनपदैकदेशे सजलनिर्जलस्थानमात्रे च । इत्य- मरटीकायां भरतः ॥ स त्रिविधः । जाङ्गलः अनूपः साधारणश्च । तत्पर्य्यायः । जनपदः १ नीवृत् २ विषयः ३ उपवर्त्तनम् ४ । इति राज- निर्घण्टः ॥ प्रदेशः ५ राष्ट्रम् ६ । इति शब्द- रत्नावली ॥ * ॥ अथ देशे वर्णनीयानि । रत्नम् १ खनिः २ द्रव्यम् ३ पण्यम् ४ धान्यम् ५ करोद्भवः ६ दुर्गग्रामः ७ जनाधिक्यम् ८ नदी- मातृकतादि ॥ * ॥ अथ ग्रामे वर्णनीयानि । धान्यम् १ लता २ वृक्षः ३ सरः ४ पशुपुष्टिः ५ क्षेत्रम् ६ अरघट्टः ७ केदारः ८ ग्रामेयीसुखम् ९ विभ्रमः १० । इति कविकल्पलता ॥ * ॥ अथ मध्यदेशीयजनपदा यथा, -- “तास्विमे कुरुपाञ्चालाः शाल्वाश्चैव सजाङ्गलाः । शूरसेना भद्रकारा बोधकाः सपटच्चराः ॥ मत्स्याः किराताः कुल्याश्च कुन्तयः कान्ति- कोशलाः । आवन्ताश्च भुलिङ्गाश्च लोकाश्चैवान्धकैः सह ॥ मध्यदेश्या जनपदाः प्रायशः परिकीर्त्तिताः ॥” अथ उदीच्या देशा यथा, -- “बाह्वीका वाटधानाश्च आभीराः कालतोयकाः । परन्ध्राश्चैव शूद्राश्च पह्रवाश्चात्मखण्डिकाः ॥ गान्धारा जवनाश्चैव सिन्धुसौवीरमद्रकाः । शका द्रुह्याः पुलिन्दाश्च पारदा हारमूर्त्तिकाः ॥ रामठाः कण्ठकाराश्च केकया देशमानिकाः । क्षत्त्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ॥ आत्रेयोऽथ भरद्वाजः प्रस्थलाः सदशेरकाः । लम्पकास्तलगानाश्च सैनिकाः सह साङ्गजैः ॥ एते देशा उदीच्यास्तु प्राच्यान्देशान्निबोधत ॥” अथ प्राच्या देशा यथा, -- “अङ्गवङ्गा मद्गुरका अन्तर्गिरिबहिर्गिराः । ततः प्रवङ्गा मातङ्गा मलया मलवर्त्तकाः ॥ सुह्मोत्तराः प्रविजया भार्गवाङ्गेयमालवाः । प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलि- प्तकाः ॥ गौडदेशः समाख्यातः सर्व्वविद्याविशारदः । गोकर्णेशात् पूर्ब्बभागे आर्य्यावर्त्तात्तु चोत्तरे ॥ तैरभुक्तात् पश्चिमे तु महापूर्य्याश्च सर्व्वतः । महाकोशलदेशश्च सूर्य्यवंशपरायणः ॥ व्यासेश्वरं समारभ्य तप्तकुण्डान्तकं शिवे । मगधाख्यो महादेशो यात्रायां न हि दुष्यति ॥ दक्षोत्तरक्रमेणैव क्रमात् कीकटमागधौ । चरणाद्रिं समारभ्य गृध्रकूटान्तकं शिवे ! ॥ तावत् कीकटदेशः स्यात्तदन्तर्मागधो भवेत् । जगन्नाथप्रान्तदेशश्चोत्कलः परिकीर्त्तितः ॥ कामगिरिं समारभ्य द्बारकान्तं महेश्वरि ! । श्रीकुन्तलाभिधो देशो हूनं शृणु महेश्वरि ! ॥ कामगिरेर्द्दक्षभागे मरुदेशात्तथोत्तरे । हूनदेशः समाख्यातः शूरास्तत्र रमन्ति च ॥ अथाभ्यङ्गं समारभ्य कोटिदेशस्य मध्यगे । समुद्रप्रान्तदेशो हि कोङ्कण परिकीर्त्तितः ॥ ब्रह्मपुत्त्रात् कामरूपात् मध्यभागे तु कैकयः । मागधाद्दक्षभागे तु बिन्ध्यात् पश्चिमतः शिवे ! ॥ सौरसेनाभिधो देशः सूर्य्यवंशप्रकाशकः । हस्तिनापुरमारभ्य कुरुक्षेत्राच्च दक्षिणे ॥ पाञ्चालपूर्ब्बभागे तु कुरुदेशः प्रकीर्त्तितः । मरुदेशात् पूर्ब्बभागे कामाद्रेर्दक्षिणे शिवे ! ॥ सिंहलाख्यो महादेशः सर्व्वदेशोत्तमोत्तमः । शिलहट्टात् पूर्ब्बभागे कामरूपात्तथोत्तरे ॥ पुलन्ध्रिदेशो देवेशि ! नरनारायणः परः । गणेश्वरात् पूर्ब्बभागे समुद्रादुत्तरे शिवे ! ॥ कच्छदेशः समाख्यातः सुदेशं शृणु सादरम् । पुलिन्दादुत्तरे भागे कच्छाच्च पश्चिमे शिवे ! ॥ मत्स्यदेशः समाख्यातो मत्स्यबाहुल्य- कारकः । वैराटपाण्ड्ययोर्म्मध्ये पूर्ब्बदक्षक्रमेण तु ॥ मद्रदेशः समाख्यातो माद्रीहा तत्र तिष्ठति । शूरसेनात् पूर्ब्बभागे गण्डक्याः पश्चिमे शिवे ! ॥ सौवीरदेशो देवेशि ! सर्व्वदेशाधमाधमः । अवन्तीतः पश्चिमे तु वैदर्भाद्दक्षिणोत्तरे ॥ नाटदेशः समाख्यातो वर्व्वरं शृणु पार्व्वति ! । मायापुरं समारभ्य सप्तशृङ्गात्तथोत्तरे ॥ वर्व्वराख्यो महादेशः सैन्धवं शृणु सादरम् । लङ्काप्रदेशमारभ्य मक्कान्तं परमेश्वरि ! ॥ सैन्धवाख्यो महादेशः पर्व्वते तिष्ठति प्रिये ! । एते षट्पञ्चाशद्देशा मया प्रोक्ता महेश्वरि ! ॥ एतन्मध्येऽपि देवेशि ! देशभेदा ह्यनेकशः । कोटिशः सन्ति देवेशि ! एते मुख्याः प्रकीर्त्तिताः ॥ रहस्यातिरहस्यञ्च गोप्तव्यं पशुसङ्कटे । इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ॥” इति शक्तिसङ्गमतन्त्रे ७ पटलः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देश पुं।

ग्रामसमुदायलक्षणस्थानम्

समानार्थक:देश,विषय,उपवर्तन

2।1।8।2।3

आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः। नीवृज्जनपदो देशविषयौ तूपवर्तनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देश¦ पु॰ दिशति दिश--अच्। भूगोलान्तर्गते विभागभेदे जन-पदशब्दे विवृतिः। विस्तरस्तु देशावलीग्रन्थस्य प्रामाण्ये[Page3752-a+ 38] तत्र दृश्यः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देश¦ m. (-शः)
1. A country, a region, whether inhabited or uninhabited.
2. A part, a portion.
3. Institute, ordinance. E. दिश् to point, to show, affix घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशः [dēśḥ], [दिश्-अच्]

A place or spot in general; देशः को नु जलावसेकशिथिलः Mk.3.12 (often used after words like कपोल, स्कन्ध, अंस, नितम्ब &c., without any meaning; स्कन्धदेशे Ś.1.19 'on the shoulder').

A region, country, province, land, territory; यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् H.1.15.

A department, part, side, portion (as of a whole); as in एकदेश, एकदेशीय q. v.

An institute, an ordinance.

Range, compass; दृष्टिदेशः Pt.2. -Comp. -अटनम् roaming through a country, travelling. -अतिथिः a foreigner.

अन्तरम् another country, foreign parts; Ms.5.78.

longitude.-अन्तरिन् m. a foreigner. -आचारः, -धर्मः a local law or custom, the usage or custom of any country; देश- धर्मान् जातिधर्मान् कुलधर्मांश्च शाश्वतान् Ms.1.118. -कष्टकः a public calamity. -कारी N. of a Rāgiṇī. -कालौm. (du.) time and place; न देशकालौ हि यथार्थधर्माववेक्षते कामरतिर्मनुष्यः Rām.4.33.55. (-लम्) ind. according to time and place; सत्पात्रं महती श्रद्धा देशकालं यथोचितम् Pt.2.72.-कालज्ञ a. knowing the proper place and time. -च्युतिः banishment or flight from one's country. -ज, -जात a.

native, indigenous.

produced in the right country.

genuine, of genuine descent. -दृष्ट a.

seen in a country.

customary in a place; Ms.8.3. -भाषा the dialect of a country; आलोच्य लक्ष्यमधिगम्य च देशभाषाः Kāvyāl.4.35. -रूपम् propriety, fitness; Mb.12. -विद्धa. properly perforated (pearl); Kau. A.2.11. -वृत्तम् a circle depending upon its relative position to the place of the observer. -व्यवहारः a local usage, custom of the country.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देश m. (1. दिश्)point , region , spot , place , part , portion VS. AitBr. S3r. and Gr2S. Mn. etc.

देश m. province , country , kingdom R. Hit. Katha1s. Vet.

देश m. institute , ordinance W. ( देशम्आवस्, or नि-विश्, to settle in a place Mn. ; शे, in the proper place [ esp. with काले] MBh. Hit. Often ifc. [ f( आ). Ragh. vii , 47 R2it. i , 27 ] esp. after a word denoting a country or a part of the body e.g. काम्बोज-, मगध-; अंस-, कण्ठ-, स्कन्ध-; आत्मीय-, one's own country or home)

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Deśa, ‘land,’ is a word that does not come into use till the time of the Upaniṣads and Sūtras,[१] excepting one occurrence in the latest period of the Brāhmaṇa[२] literature, and one in a much-discussed passage of the Vājasaneyi Saṃhitā,[३] where the Sarasvatī is mentioned as having five tributaries. This passage militates against the view that Sarasvatī was a name of the Indus, because the use of Deśa here seems to indicate[४] that the seer of the verse placed the Sarasvatī in the Madhyadeśa or ‘Middle Country,’ to which all the geographical data of the Yajurvedas point.[५]

  1. Where its use becomes common;
    Bṛhadāraṇyaka Upaniṣad, iv. 1, 16;
    2, 3;
    Śāṅkhāyana Śrauta Sūtra, iv. 14, 6;
    Kātyāyana Srauta Sūtra, xv. 4, 17, etc. So the adjective deśīya, ‘belonging to a land,’ Kātyāyana, xxii. 4, 22;
    Lāṭyāyana Srauta Sūtra, viii. 6, 28.
  2. Aitareya Brāhmaṇa, viii. 10 (a late passage).
  3. xxxiv. 11.
  4. Cf. Zimmer, Altindisches Leben, 10, who thinks that the word crept into the text, where the Sarasvatī originally meant the Indus, with the five tributaries of the Panjab.
  5. Macdonell, Sanskrit Literature, 174.
"https://sa.wiktionary.org/w/index.php?title=देश&oldid=500354" इत्यस्माद् प्रतिप्राप्तम्