यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्फोटः, पुं, (विस्फोटतीति । वि + स्फुट् + अच् ।) विरुद्धस्फोटकः । विस्फोडा इति भाषा । तत्पर्य्यायः । पिठकः २ पिटका ३ पिटकम् ४ । इत्यमरः । विटकः ५ विटका ६ विटकम् ७ । इति तट्टीका ॥ स्फोटकः ८ स्फोटः ९ । इति राजनिर्घण्टः ॥ (यथा, कथासरित्सागरे । ८५ । १८ । “किमेतदिति संभ्रान्तः प्रबुद्धोऽथ ददर्श सः । उत्थाय राजा विस्फोटानङ्गे तस्या विनि- र्गतान् ॥”) तस्य विप्रकृष्टनिदानपूर्व्विकां संप्राप्तिमाह । “कट्वम्लतीक्ष्णोष्णविदाहिरूक्ष- क्षारैरजीर्णाध्यशनातपैश्च । तथर्त्तुदोषेण विसर्पणेन कुप्यन्ति दोषा पवनादयस्तु ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्फोट पुं।

विस्फोटः

समानार्थक:विस्फोट,पिटक

2।6।53।2।4

किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका। कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्फोट¦ पु॰ विस्फोटयति वि + स्फुट--णिच्--अच्। (विष-फोडा) व्रणभेदे स्वार्थे क। स्फोटकमेदे
“विस्फोटकभया-पहा” शीतलास्तोत्रम्। तद्रोगनिदानादि भावप्र॰ उक्तंयथा
“तत्र विस्फोटस्य विप्रकृष्टं निदानपूर्विकां संप्राप्तिमाह
“कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्षारैरजीर्णाध्यशनातपैश्च। तथर्तुदोषेण विपर्य्ययेण कुप्यन्ति दोषाः पवनादयस्तु। त्वचमाश्रित्य ते रक्तं मांसास्थीनि प्रदुष्य च। घोरान्कुर्वन्ति विस्फोटान् सर्वान् ज्वरपुरःसरान्”। ऋतुदोषेणऋतुहेतुकशीतोष्णादीनामतियोगेन। विपर्य्ययेण अतू-चिताहारविहारवैपरीत्येन। त्वचमाश्रित्य त्वचि विस्थो-टान् कुर्वन्तीत्यर्थः। ज्वरपुरःसरान् ज्वरपूर्वान्। पूर्व-रूपमाह
“अग्निदग्धा इव स्फोटवः सज्वरा रक्तपित्तजाः। क्वचित् सर्वत्र वा देहे विस्फाटा इति ते स्मृताः”। रक्तपित्तजाः एतेन सर्वेषु विस्फोटकेषु रक्तपित्तयोः प्र-धानकारणत्वम् यथा शूलेषु वातस्य, तथा वातानुगति-रपि बोद्धव्या। तथा च भोजः
“यदा रक्तञ्च पित्तञ्चवातेनानुगतं त्वचि। अग्निदग्धनिभान् स्फोटान् कुरुतःसर्वदेहगान्”। अथ वातिकमाह
“शिरोरुक्शूलभूयिष्ठंज्वरतृट्पर्ववेदनम्। सकृष्णवर्णता चेति वातविस्फोट-लक्षणम्”। शूलं तोदरूपम्। अथ पैत्तिकमाह
“ज्वर-दाहरुजापाकस्रावतृष्णासमन्वितम्। षीतलोहितवर्णञ्चपित्तविस्फोटलक्षणम्”। श्लैष्मिकमाह
“छर्{??}चरोचकजा-डानि कण्डूकाठिन्यपाण्डुताः। यस्मिन्नरुक् चिरात्पाकः स विस्फोटः कफा{??}कः। जांव्यम् जडस्वमङ्गा-[Page4939-a+ 38] नाम्। कफपैत्तिकमाह
“कण्डूर्दाहो ज्वरश्छर्दिरेतैश्चकफपैत्तिकः”। अथ वातपित्तजमाह
“वातपित्तकृतोयस्तुतत्र स्यात्तीव्रवेदना”। वातश्लैष्मिकमाह
“कण्डूस्तै-मित्यगुरुभिर्जानीयात् कफवातिकम्”। सान्निपातिकमाह
“मध्ये निम्नोन्नतान्तश्च कठिनः स्वल्पपाकवान्। दाहरा-गतृषामोहच्छर्दिमूर्च्छारुजाज्वराः। प्रलापो वेपथुर्मूर्च्छासोऽसाध्यश्च त्रिडोषजः”। मोहो विपरीतं ज्ञानम्मूर्च्छा सर्वथा ज्ञानशून्यता। रक्तजमाह
“वेदितव्याश्च र-क्तेन पैत्तिकेन च हेतुना। गुञ्जाफलसमा रक्ता रक्त-स्रावा विदाहिनः। न ते सिद्धिं समायान्ति सिद्धैर्योगि-शतैरपि”। पैत्तिकेन हेतुना पित्तस्य हेतुना कष्ट्वादिना-रक्तपित्तस्य तुल्यत्वात् सिद्धैर्योगिशतैरपि ते सिद्धिं न समायान्ति। विस्फोटकभेदानाह
“एते चाष्टविधा वाह्याआन्तरोऽपि भवेदयम्। तस्मिन्नन्तर्व्यथा तीव्रा ज्वरयुक्ताभिजायते। यस्मिन् वहिर्गते स्वास्थ्यं न वातस्यवहिर्गतिः। तत्र वातिकविस्फोटक्रिया कार्य्या विजानता”{??}मामुपद्रवानाह
“तृट्श्वासमांससङ्कोचदाहहि क्कामद-ज्वराः। विसर्पमर्मसंरोधास्तेषामुक्ता उपद्रवाः”। मांस-सङ्कोचः मांसस्य शठितम्। मर्मसंरोधो मर्मव्यथा। तेषांविस्फोटानां केचिदुपद्रवाणां लक्षणान्तरं पठन्ति
“हिक्का-श्वासाऽरुचिस्तृष्णा साङ्गमर्द्दा हृदिव्यथा। विसर्पज्वरहृ-ञ्जासाः विस्फाटानामुपद्रवाः”। साध्यत्वादिकमाह
“एक-ष्टोषोत्थितः साध्यः कृच्छ्रसाध्यो द्विदोषजः। सर्वरूपा-न्वितो घोरो ह्यसाध्यो भूर्य्युपद्रवः”।

२ कुष्ठभेदे
“स्फोटाःश्यावारुणाभासा विस्फोटास्तु तनुत्वचः” भावप्र॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्फोट¦ mf. (-टः-टा)
1. Boil, pustule.
2. Small-pox. E. वि before, स्फुट् to hurt or break, aff. घञ् or णिच्-अच् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विस्फोट/ वि-स्फोट m. cracking , crashing MBh.

विस्फोट/ वि-स्फोट m. a blister , boil Ka1v. Katha1s. Sus3r.

विस्फोट/ वि-स्फोट mfn. open DivyA7v.

विस्फोट/ वि-स्फोट etc. See. above under वि-स्फुट्.

"https://sa.wiktionary.org/w/index.php?title=विस्फोट&oldid=276594" इत्यस्माद् प्रतिप्राप्तम्