संस्कृतम् सम्पाद्यताम्

मलयन्-प्रदेशीयः व्याघ्रः
  • व्याघ्रः, द्वीपिन्, कर्वर, गुहाशय, शार्दूलः, व्यालः, पुण्डरीकः, नखरायुधः, पञ्चनखः, मरुवकः, भीरुः।


नाम सम्पाद्यताम्

  • व्याघ्रः नाम भयानकजन्तुः।

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

  • भारते पुराणकथासु विग्रहेषु च व्याघ्रः विशेषगौरवभाक् दृश्यते ।
  • कालीदेव्याः वाहनरूपः अस्ति व्याघ्रः।
  • अरण्ये व्याघ्रः सन्ति।

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघ्रः, पुं, (व्याजिघ्रतीति । वि + आ + घ्रा + कः ।) जन्तुविशेषः । वाघ इति भाषा ॥ (यथा, छान्दोग्ये । ६ । ९ । ३ । “त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदा भवन्ति ॥”) तत्पर्य्यायः । शार्द्दूलः २ द्वीपी ३ । इत्यमरः ॥ पृदाकुः ४ वनश्वः ५ चित्रकः ६ पुण्डरीकः ७ । इति जटाधरः ॥ हिंस्रपशुः ८ व्याडः ९ हिंस्रकः १० हिंसारुः ११ श्वापदः १२ । इति शब्दरत्ना- बली ॥ पञ्चनखः १३ व्यालः १४ गुहाशयः १५ तीक्ष्णदंष्ट्रः १६ भीरुः १७ नखायुधः १८ । अस्य मांसगुणाः । “शार्द्दूलसिंहसरभर्क्षतरक्षुमुख्या येऽन्ये प्रसह्य विनिहन्त्यभिवर्त्तयन्ते । ते कीर्त्तिताः प्रहसनाः पललं तदीय- मर्शःप्रमेहजठरामयजाड्यहारि ॥” इति राजनिर्घण्टः ॥ स तु कश्यपभार्य्यादंष्ट्रासन्तानः । यथा, -- “दंष्ट्रा त्वजनयत् पुत्त्रान् व्याघ्रसिंहांश्च भाविनी । द्वीपिनश्च सुतास्तस्या व्याल्याद्याश्चामिष- प्रियाः ॥” इत्याद्ये वह्निपुराणे काश्यपीयवंशनामाध्यायः ॥ नरादिशब्दोत्तरस्थः श्रेष्ठार्थवाचकः ॥ (यथा, महाभारते । १ । १५२ । २९ । “किन्नुदुःखतरं शक्यं मया द्रष्टुमतःपरम् । योऽहमद्य नरव्याघ्रान् सुप्तान् पश्यामि भूतले ॥”) रक्तैरण्डः । करञ्जः । इति मेदिनी ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघ्रः [vyāghrḥ], [व्याजिघ्रति, व्याघ्रा क]

A tiger.

(At the end of comp.) Best, pre-eminent, chief; as in नरव्याघ्र, पुरुषव्याघ्र.

The red variety of the castor-oil plant.-घ्री A tigress; व्याघ्रीव तिष्ठति जरा परितर्जयन्ति Bh.3.19.-Comp. -अटः a skylark. -आस्यः a cat. -दलः, -पुच्छः the castor-oil plant.

नखः, खम् a tiger's claw.

a kind of perfume.

a scratch, the impression of a finger-nail. -नायकः a jackal. -पाद (-द्) a. tigerfooted. -श्वन् m. a tiger-like dog.

"https://sa.wiktionary.org/w/index.php?title=व्याघ्रः&oldid=504698" इत्यस्माद् प्रतिप्राप्तम्