"आरम्भ" इत्यस्य संस्करणे भेदः

replace = कोशोद्धरणम् यन्त्रोपारोपितम् = with = यन्त्रोपारोपितकोशांशः =
replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
पङ्क्तिः ८:
आरम्भः, पुं, (आङ् + रभि + घञ् ।) प्रथमकृतिः । तत्पर्य्यायः । प्रक्रमः १ उपक्रमः २ अभ्यादानं ३ उदॄतः ४ आरम्भः ५ । इत्यमरः ॥ अभ्यादानादि- त्रयमारम्भमात्रे । प्रक्रमादिपञ्च आरम्भमात्रे इत्येके ॥ केचित्तु प्रक्रमादिद्वयं प्रथमारम्भे ॥ अभ्यादानादित्रयं आरम्भमात्रे । इति बहुभिरुक्त- मपि न साधु यतः प्रथमकृतिरेव आरम्भः तत्पूर्ब्ब- द्वयं आरम्भे शेषत्रयं आरब्धे इत्याहुः । इति मरतः ॥ त्वरा । उद्यमः । बधः । दर्पः । इति मेदिनी ॥ प्रन्तावना । इति त्रिकाण्डशेषः ॥ आद्यकृतिः । यथा, -- “मीनादिस्थो रविर्येषामारम्भप्रथमक्षणे । भबेत्तेऽब्दे चान्द्रमासाश्चैत्राद्या द्वादश स्मृताः” ॥ आरम्भप्रथमक्षणे आद्यकृत्याद्यसमये । इति मल- सामतत्त्वम् ॥ पारिभाषिकारम्भो यथा, -- “आरम्भो वरणं यज्ञे सङ्कल्पो व्रतजापयोः । नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिष्क्रिया” ॥ इति तिथ्यादितत्त्वम् ॥ (यथा मेघदूते । ३७ । -- “मृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छाम्” । साहित्यदर्पणे । प्रमथपरिच्छेदे । “ग्रन्थारम्भे निर्विघ्नेन प्रारिप्सितपरिसमाप्ति- कामः” । रघुवंशे । १ । १५ । “आगमैः सदृशारम्भ आरम्भसदृशोदयः” ।)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
"https://sa.wiktionary.org/wiki/आरम्भ" इत्यस्माद् प्रतिप्राप्तम्