"ण" इत्यस्य संस्करणे भेदः

अर्थनिवेशः
replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
पङ्क्तिः ८:
ण, णकारः । स व्यञ्जनपञ्चदशवर्णः । टवर्ग- पञ्चमवर्णश्च ॥ (अर्द्धमात्राकालेनोच्चारणीयः ।) अल्योच्चारणस्थानं मूर्द्धा । इति व्याकरणम् ॥ (शिक्षाग्रन्थादिमते तु अस्योच्चारणे जिह्वा- मध्येन मूर्द्ध्नः स्पर्शः नासिकायत्नप्रभेदश्च आभ्य- न्तरप्रयत्नः । संवारणादघोषाः अल्पप्राणश्च वाह्यप्रयत्नाः । मातृकान्यासेऽस्य दक्षपादा- ङ्गुल्यग्रे न्यासक्रिया ॥ वङ्गीयवर्णमालायाम् ।) तस्य लेखनप्रकारो यथा, -- “कुण्डलीत्वगता रेखा मध्यतस्तत ऊर्द्ध्वतः । वामादधोगता सैव पुनरूर्द्ध्वं गता प्रिये ! ॥ ब्रह्मेशविष्णुरूपा सा चतुर्व्वर्गफलप्रदा ॥ ध्यानमस्य णकारस्य प्रवक्ष्यामि च तत् शृणु । द्धिभुजां वरदां रम्यां भक्ताभीष्टप्रदायिनीम् ॥ राजीवलोचनां नित्यां धर्म्मकामार्थमोक्षदाम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य स्वरूपं यथा, -- “णकारं परमेशानि ! या स्वयं परकुण्डली । पीतविद्युल्लताकारं पञ्चदेवमयं सदा ॥ पञ्चप्राणमयं देवि ! सदा त्रिगुणसंयुतम् । आत्मादितत्त्वसंयक्तं महामोहप्रदायकम् ॥” इति कामधेनुतन्त्रम् ॥ तस्य २४ चतुर्विंशतिनामानि यथा, -- “णो निर्गुणं रतिर्ज्ञानं जम्भनः पक्षिवाहनः । जया शम्भो नरकजित् निष्कला योगिनीप्रियः ॥ द्बिमुखं कोटवी श्रोत्रं समृद्धिर्बोधनी मता । त्रिनेत्रो मानुषी व्योमदक्षपादाङ्गुलेर्म्मुखः ॥ माधवः शङ्खिनी वीरो नारायणश्च निर्णयः ॥” इति नानातन्त्रशास्त्रम् ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
 
णः, पुं, (णखति गच्छति जानात्यनेन इति । णख गतौ + डः । पृषोदरादित्वात् णत्वम् ।) ज्ञानम् । निश्चयः । इत्येकाक्षरकोषः । बिन्दुदेवः । स बुद्धदेवताविशेषः । भूषणम् । गुणवर्ज्जितः । पानीयनिलयः । इति मेदिनी । णे, १ ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
"https://sa.wiktionary.org/wiki/ण" इत्यस्माद् प्रतिप्राप्तम्