"योग्यता" इत्यस्य संस्करणे भेदः

अर्थनिवेशः
 
replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
पङ्क्तिः ८:
योग्यता, स्त्री, (योग्यस्य भावः । योग्य + तल् । टाप् ।) क्षमता । इति लोकप्रसिद्धिः ॥ (यथा, मार्कण्डेये । ११३ । ९ । “तथान्यानप्ययोग्यानि योग्यतां यान्ति कालतः । योग्यान्ययोग्यतां यान्ति कालवश्या हि योग्यता ॥”) शाब्दबोधकारणविशेषः । स तु पादार्थानां परस्परसम्बन्धे वाधाभावः । इति साहित्य- दर्पणम् ॥ न्यायमते तत्पदार्थे तत्पदार्थवत्ता । यथा, -- “पदार्थे तत्र तद्वत्ता योग्यता परिकीर्त्तिता ।” इति भाषापरिच्छेदः ॥ “योग्यतां निरूपयति पदार्थ इत्यादिना । एकपदार्थेऽपरपदार्थसम्बन्धो योग्यता इत्यर्थः । तज्ज्ञानाभावाच्च वह्निना सिञ्चतीत्यादौ न शाब्दबोधः । नन्वेतस्या योग्यताया ज्ञानं शाब्दबोधात् प्राक् सर्व्वत्र न सम्भवति वाक्यार्थ- स्यापूर्ब्बत्वादिति चेन्न तत्तत्पदार्थस्मरणे सति क्वचित् संशयरूपस्य क्वचिन्निश्चयरूपस्यापि योग्यताया ज्ञानस्य सम्भवात् । नव्यास्तु योग्यताज्ञानं न शब्दज्ञाने कारणं वह्निना सिञ्चति इत्यादौ सेके वह्निकरणकत्वाभाव- रूपायोग्यताया निश्चयेन प्रतिबन्धान्न ज्ञाब्द- बोधः । तदभावनिश्चयस्य लौकिकसन्निकर्षा- जन्यदोषविशेषाजन्यज्ञानपात्रे प्रतिबन्धकत्वात् शाब्दे प्रतिबन्धकत्वं सिद्धं योग्यताज्ञान- विलम्बाच्च शाब्दविलम्बोऽसिद्ध इति वदन्ति ।” इति सिद्धान्तमुक्तावली ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
"https://sa.wiktionary.org/wiki/योग्यता" इत्यस्माद् प्रतिप्राप्तम्