"राजा" इत्यस्य संस्करणे भेदः

(लघु) अर्थनिवेशः
(लघु) replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
पङ्क्तिः ४६:
राजा, [न्] पुं, (राजते शोभते इति । राज् + “कणिन् युवृषितक्षिराजीति ।” उणा० १ । १५६ । इति कणिन् ।) प्रभुः । नृपतिः । (यथा- रघुः । ४ । ११ । “यथा प्रह्लादनात् चन्द्रः प्रतापात् तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥”) क्षत्त्रियः । (यथा, मनुः । २ । ३२ । “शर्म्मवद्ब्राह्मणस्य स्यात् राज्ञो रक्षासम- न्वितम् । वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रैष्यसंयुतम् ॥”) चन्द्रः । यक्षः । इन्द्रः । इति मेदिनी ॥ उत्तर- पदे चेत् श्रेष्ठार्थवाचकः ॥ अथ नृपतेः पर्य्यायः । राट् २ पार्थिवः ३ क्ष्माभृत् ४ नृपः ५ वाराह उवाच । शृणु तत्त्वेन मे देवि यन्मां त्वं भीरु भाषसे । तरन्ति मनुजा येन राजान्नस्योपभुञ्जकाः ॥ एकं चान्द्रायणं कृत्वा तप्तकृच्छ्रञ्च पुष्कलम् । कुर्य्यात् सान्तपनञ्चैकं शीघ्रं मुञ्चति किल्विषात् ॥ भुक्त्वा वै राज्ञोऽन्नानि इदं कर्म्म समारभेत् । न तस्यैवापराधोऽस्ति वसुधे वै वचो मम ॥ एवमेव न भोक्तव्यं राजान्नन्तु कदाचन । ममात्र प्रियकामाय यदीच्छेत् परमां गतिम् ॥” इत्यादि वाराहे राजान्नभक्षणप्रायश्चित्तं नामा- ध्यायः ॥ * ॥ अपि च । “राजान्नं तेज आदत्त शूद्रान्नं ब्रह्मवर्च्चसम् । इत्याद्यभिधाय, -- भुक्त्वा चान्यतमस्यान्नममत्या क्षपयेत्त्र्यहम् । मत्या भुक्त्वा चरेत् कृच्छ्रं रेतो विण्मूत्रमेव च ॥” इति प्रायश्चित्ततत्त्वम् ॥ (राजनम् । यथा, ऋग्वेदे । १० । ४९ । ४ । “अहं भुवं यजमानस्य राजनि ।” “अहं यजमानस्य राजनि राजनार्थं भुवं अभवं समर्थ इति शेषः ।” इति तद्भाष्ये सायणः ॥)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
"https://sa.wiktionary.org/wiki/राजा" इत्यस्माद् प्रतिप्राप्तम्