"व" इत्यस्य संस्करणे भेदः

(लघु) अर्थनिवेशः
(लघु) replace यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तः with यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
पङ्क्तिः २९:
व, वकारः । स च व्यञ्जनस्य ऊनत्रिंशवर्णः । यव- र्गस्य चतुर्थवर्णश्च । अस्योच्चारणस्थानं दन्तः ओष्ठश्च । इति व्याकरणम् ॥ (यथा, शिक्षा- याम् । १८ । “जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठो वः स्मृतो बुधैः ॥”) दन्त्यवकारः । स च अन्तःस्थवर्णः । यथा । अन्तःस्था य र ल वाः । इति कलापव्याक- रणम् ॥ अपि च । “ततोऽक्षरसमाम्नायमसृजद्भगवानजः । अन्तःस्थोष्मस्वरस्पर्शह्रस्वदीर्घादिलक्षणम् ॥” इति श्रीभागवते १२ स्कन्धे ६ अध्यायः ॥ “ततस्तेभ्योऽक्षराणां समाम्नायं समाहारं तमे- वाह । अन्तःस्था य र ल वाः । उष्माणः श ष स हाः । स्वरा अकाराद्याः । स्पर्शाः कादयो मावसानाः । ह्रस्वा दीर्घाश्च । आदि- शब्दात् जिह्वामूलीयादयः । त एव लक्षणं स्वरूपं यस्य तम् ।” इति तट्टीकायां श्रीधर- स्वामी ॥ * ॥ “यवरलीयवकारस्य प फ ब भ म वा इत्येकपदोक्त्या उत्पत्तिस्थानमोष्ठमुक्त्वा दन्त्य- कार्य्यार्थं दन्त्यमध्येऽपि त थ द ध न ल सा व इति भिन्नपदे पठितवान् । यथा संवुवूर्षति इत्यादौ वकारस्य ओष्ठ्यत्वात् उर् दन्त्यत्वात् अनुस्वारस्य मकारो न स्यात् । वैदिकास्तु अस्योत्पत्तिस्थानं दन्त एवेत्याहुः । अतएव तद्विष्णोः परमं पदं इत्यादौ तथैवोच्चारयन्ति ।” इति मुग्धबोधतीकायां दुर्गादासः ॥ * ॥ तस्य पर्य्यायः । “वो बाणो वारुणी सूक्ष्मा वरुणो देव- संज्ञकः । तोयं लान्तश्च वामांशः ॥” इति बीजवर्णाभि- धानम् ॥ * ॥ अपि च । “वकारो वरुणो बाणः स्वेदः खड्गीश्वरो जवः ॥” इति रुद्रयामले मन्त्रकोषः ॥ * ॥ अपि च । “वो बाणो वारुणी सूक्ष्मा वरुणो देवसंज्ञकः । खड्गीशो ज्वालिनी वक्षः कलमध्वनिवाचकः ॥ उत्कारीशस्तु नावीतो वज्रा स्फिक् सागरः शुचिः । त्रिधातुः शङ्करः श्रेष्ठो विशेषो यमसादनम् ॥” इति नानातन्त्रशास्त्रम् ॥ तस्य स्वरूपं यथा, -- “वकारं चञ्चलापाङ्गि कुण्डली मोक्षमव्ययम् । पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा ॥ त्रिबिन्दुसहितं वर्णमात्मादितत्त्वसंयुतम् । पञ्चदेवमयं वर्णं पीतविद्युल्लतामयम् ॥ चतुर्व्वर्गप्रदं वर्णं सर्व्वसिद्धिप्रदायकम् । त्रिशक्तिसहितं देवि ! त्रिबिन्दुसहितं सदा ॥” इति कामधेनुतन्त्रम् ॥ * ॥ वङ्गौयवर्णमालायामस्य लेखनप्रकारो यथा, -- “कोणत्रययुता रेखा ब्रह्मविष्णुशिवात्मिका । माया शक्तिः परा नित्या ध्यानमस्य प्रचक्ष्यते ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य ध्यानम् । “कुन्दपुष्पप्रभां देवीं द्विभुजां पङ्कजेक्षणाम् । शुक्लमाल्याम्बरधरां रत्नहारोज्ज्वलां पराम् ॥ साधकाभीष्टदां सिद्धां सिद्धिदां सिद्धसेविताम् । एवं ध्यात्वा वकारन्तु तन्मन्त्रं दशधा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
 
व, व्य, इवार्थः । इति मेदिनी । वे, १ ॥ (यथा, रघुः । ४ । ४२ । “ताम्बूलीनां दलैस्तत्र रचितापानभूमयः । नारिकेलासवं योधाः शात्रवं व यशः पपुः ॥”)
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
 
वम्, क्ली, (वा ल गमनहिंसयोः + कः ।) प्रचेताः । इति मेदिनी । वे, १ ॥ वरुणबीजम् । इति तन्त्रम् ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
 
वः, पुं, (वानमिति । वा + भावे घः ।) सान्त्व- नम् । (वाति गच्छतीति । वाल गमने + कः ।) वायुः । वरुणः । इति मेदिनी । वे, १ ॥ बाहुः । मन्त्रणम् । कल्याणम् । बलवान् । वसतिः । वरुणालयः । इति शब्दरत्नावली ॥ शार्द्दूलः । वस्त्रम् । शालूकः । वन्दनम् । इति नानैकाक्षरकोषः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
 
वम्, व्य, (उ + अ + म् ।) शिवपूजान्ते कपोल- वाद्यविशेषः । तत्तु उकाराकारमकारात्मकं शिवप्रणवस्वरूपम् । यथा, -- “डिम् डिम् डिम् डिम् डिडिम् डिम् डिडिमरु डमरुं वादयन् सूक्ष्मनादं वम् वम् वम् वम् ववम् वम् भ्रमितदशशिरा- स्तालमानेन नृत्यन् । कर्पूरासिक्तभस्मापटितपटुजटालम्बिरुद्राक्ष- मालो मायायोगी दशास्यो रघुरमणपुरः प्राङ्गणे प्रादुरासीत् ॥” इति रामलीलामृतकाव्यम् ॥ * ॥ वरुणबीजम् । यथा । नासापुटौ धृत्वा वमिति वरुणबीजस्य चतुःषष्टिवारजपेन कुम्भकं कृत्वा तस्मात् ललाटस्थचन्द्राद्गलितसुधया मातृका- वर्णात्मिकया समस्तं देहं विरचय्य लमिति पृथ्वीबीजस्य द्वात्रिंशद्वारजपेन दहं सुदृढं विचिन्त्य दक्षिणेन वायुं रेचयेत् । इति भूत- शुद्धिप्रकरणे तन्त्रसारः ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
"https://sa.wiktionary.org/wiki/व" इत्यस्माद् प्रतिप्राप्तम्