"सोमः" इत्यस्य संस्करणे भेदः

(लघु) अर्थनिवेशः
(लघु) अर्थनिवेशः
पङ्क्तिः २३२:
सोमः, पुं, (सौति अमृतमिति । सु प्रसवे + “अर्त्तिस्तुसुहुस्रिति ।” उणा० १ । १३९ । इति मन् ।) चन्द्रः । इत्यमरः । १ । ३ । १४ ॥ (यथा, हरिवंशे । ४ । २ । “द्विजानां वीरुधाञ्चैव नक्षत्रग्रहयोस्तथा । यज्ञानां तपसाञ्चैव सोमं राज्येऽभ्यषेचयत् ॥”) कर्पूरः । इति चामरः । २ । ६ । १३० ॥ वानरः । कुबेरः । यमः । वायुः । वसुभेदः । (यथा, मात्स्ये । ५ । २१ । “आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ॥”) जलम् । सोमलतौषविः । इति मेदिनी ॥ (अस्य विवरणं यथा, -- “ब्रह्मादयोऽसृजन् पूर्व्वममृतं सोमसंज्ञितम् । जरामृत्युविनाशाय विधानं तस्य वक्ष्यते ॥ एक एव खलु भगवान् सोमः स्थाननामाकृति- वीर्य्यविशेषैश्चतुर्व्विंशतिधा भिद्यते । तद्यथा, अंशुमान् भूञ्जवांश्चैव चन्द्रमा रजतप्रभः । दूर्व्वासोमः कनीयांश्च श्वेताक्षः कनकप्रभः ॥ प्रतानवांस्तालवृन्तः करवीरोऽंशवानपि । स्वयम्प्रभो महासोमो यश्चापि गरुडाहृतः ॥ ततोऽस्य नखा जायन्ते विद्रुमेन्द्रगोपकतरुणा- दित्यप्रकाशाः स्थिराः स्निग्धा लक्षणसम्पन्नाः केशाश्च जायन्ते त्वक् च नीलोत्पलातसीपुष्पवै- दूर्य्यप्रकाशा । ऊर्द्घञ्च सामान् केशान् वाप- येत् वापयित्वा चोशीरचन्दनकृष्णतिलकल्कैः शिरः प्रदिह्यात् पयसा वा स्नापयेत् ॥
 
[[वर्गः: यन्त्रोपारोपितकोशांशः 'कल्पद्रुमः'-तःकल्पद्रुमः]]
"https://sa.wiktionary.org/wiki/सोमः" इत्यस्माद् प्रतिप्राप्तम्