"उपाधि" इत्यस्य संस्करणे भेदः

(लघु) बॉट: hi:उपाधि जोड़ रहा है
(लघु) removing interwiki - replaced by cognate; ऊपरी परिवर्तन

पङ्क्तिः ५:

उपाधिः, पुं, (उप + आ + धा + कि ।) धर्म्मचिन्ता । कुटुम्बव्यापृतः । इत्यमरः ॥ छलम् । (यथा रामा- यणे २ । १११ । २९ । “उपाधिर्न मया कार्य्यो वनवासे जुगुप्सितः” ।) विशेषणम् । इति मेदिनी ॥ (“पदार्थविभाजको- पाधिमतम्” । इति मुक्तावली । ८ ।) नामचिह्नम् । इति शब्दरत्नावली ॥ न्यायमते साध्यव्यापकत्वे सति हेतोरव्यापकः । यथा धूमवान् वह्निरित्यत्र आर्द्रकाष्ठं उपाधिः । अस्य प्रयोजनम् । व्यभि- चारस्यानुमानम् । अलङ्कारमते जातिगणक्रिया- यदृच्छास्वरूपः ॥

[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]]

== अमरकोशः ==
{{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://github.com/sanskrit-coders/stardict-sanskrit/tree/master/sa-head/amara-onto}}

उपाधि पुं।

धर्मविचारः

समानार्थक:उपाधि,धर्मचिन्ता

1।7।28।2।1

कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः। उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]

उपाधि पुं।

कुटुम्बव्यापृतः

समानार्थक:कुटुम्बव्यापृत,अभ्यागारिक,उपाधि

3।1।12।1।2

स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम्. वराङ्गरूपोपेतो यस्सिंहसंहननो हि सः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

उपाधि पुं।

कुटुम्बव्यापृतः

समानार्थक:कुटुम्बव्यापृत,अभ्यागारिक,उपाधि

3।1।12।1।2

स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम्. वराङ्गरूपोपेतो यस्सिंहसंहननो हि सः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]

== वाचस्पत्यम् ==
Line २३ ⟶ १७:

'''उपाधि'''¦ पु॰ उप + आ--धा--कि। अन्यथास्थितस्य वस्तुनोऽन्यथाप्रकाशनरूपे

१ कपटे, उपधिशब्दे उदा॰। उपाधीयतेस्वधर्म्मोऽनेन करणे वा॰ कि। स्वसामीप्यादिना अन्यस्मिन्स्वधम्मारोपसाधने विशेषणभेदे।

२ उपाधिभेदेऽप्येकस्यनानायोगः आकाशस्येव घटादिना” गतिश्रुतिरप्युपा-धियोगादाकाशवत्” सा॰ सू॰
“उपाधिना क्रियते भिन्नरूपः” इति श्रुतिः
“कार्न्नोपाधिरयं जीवः कारणो-पाधिरीश्वरः” पञ्चद॰ कार्यमन्तःकरणं कारणमज्ञानमितिवक्ष्यमाणोपाधिवादे उदा॰

३ उपलक्षणरूपे विशेषणे च। स च जात्यादिस्तद्भिन्नश्च पदार्थवृत्तिधर्म्मः।
“पदार्थविभा-लकोपाधिमत्त्वम्” मुक्ता॰। पदार्थविभाजकाश्च द्रव्यत्वगुणत्वकर्म्मत्वसामान्यत्वविशेषत्वसमवायत्वभावत्वरूपाः तत्रद्रव्यत्वादयो जातिरूपाः सामान्यत्वादयस्तद्भिन्नाः तत्रनित्यत्वे सति ससवेतत्वम् जातित्वम् परमसीमावर्त्तित्वेसति नित्यद्रव्यमात्रवृत्तित्वं विशेषत्वम्। नित्यत्वे सतिसम्बन्धत्वम् समवायत्वम्। भावभिन्नत्वमभावत्वमन्योन्या-श्रयभावात् अखण्डोपाधिरभावत्वमिति नव्याः। एवंप्रतियोगित्वादयोऽपि अखण्डोपाधयः तैः कल्प्यन्ते।
“उपाधिभेदादेकापि प्राच्यादिव्यपदेशभाक्” भाषा॰

४ कुटुम्बव्यापृते। उपाधीयते नामसमीपे कर्म्मणि कि।

५ उपनामनि यथा भट्टाचार्य्यमिश्रादयः उपाधीयतेमनोऽत्र[Page1349-a+ 38] आधारे कि।

६ धर्मचिन्तायाम्

७ वाभिचारोन्नायकेन्यायमतसिद्धे पदार्थभेदे च।
“सर्वे साध्यसमानाधिकरणाः-सदुपाधयः हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता भाषा॰उपाधिपदार्थनिरूपणग्रन्थस्य प्रायेण वङ्गदेशादौ पठन-पाठनाभावेन लुप्त{??}यतया प्रचारो नास्तोति अनुमान-चिन्तामणिकृता यथा उपाधिवादे तन्निरूपितं यथा चतस्य दूषकतायां वोजं निरूपितं तदत्र प्रदर्श्यते।
“तत्रोपाधिः साध्यत्वाभिमतव्यापकचे सति साधनत्वाभि-मताव्यापकः। अनौपाधिकत्वज्ञानञ्च न व्याप्तिज्ञाने हेतुरतोव्यापकचादिज्ञानेन नान्योऽन्याश्रयः। यद्वा व्यापकत्वंतद्वन्निष्ठात्यन्ताभावापतियोगित्वं तत्प्रतियोगित्वञ्चाव्या-पकत्वं प्रतियोगित्वञ्च तदधिकरणानधिकरणत्वमिति व-दन्ति तन्न साधनपक्षधर्मावच्छिन्नसाध्यव्यापकोपाध्यव्याप्तैःन च तयोरनुपाधित्वं दूषकतावीजसाम्यात् मित्रातनय-त्वेन श्यामत्वसाधने शाकपाकजत्वस्य, प्रत्यक्षस्पर्शाश्रय-त्वेन वायोः पत्यक्षत्वे साध्ये उद्भूतरूपवत्त्वस्य च शास्त्रेऽप्रयोजकचेनोपाधिन्वस्वीकारात् पक्षेतरेऽतिव्याप्तेश्च। न च व्यतिरेके पर्वतेतरान्यत्वादित्यत्र इतरान्यत्वम्यासिद्धि-वारणार्थं पर्वतपदं विशेषणमिति व्यतिरेके व्यर्थविशेष-अत्वान्न स उपाधिः, बाधोन्नीतस्याप्यनुपाधितापत्तेः। नचेष्टापत्तिः इतरान्यत्वस्यापसिद्ध्या विशेषणं विना व्याप्त्य-ग्रहेण तत्सार्थकत्वात्। वस्तुगत्या साध्यव्यापकः पक्षेतर{??}पाधिरिति चेत् अस्तु तथा, तथापि पक्षातिरिक्ते सा-ध्यव्यापकताग्रहादुपाधेर्दूषकत्वं तच्च तत्राप्यस्ति, अन्यथापक्षे साध्यसन्देहादलपाधित्वे उपाधिमात्रमुच्छिद्येत वि-पक्षाव्यावर्त्तकविशेषणशून्थत्वं विशेषणं तेन बाधोन्नीतप-क्षेतरस्य परिग्रहः तत्र पक्षस्यैव विपक्षत्वात् न तु पर्वते-तरत्वादेरिति चेन्न न हि वस्तु विपक्षव्यावर्तकविशेषणशून्यंसर्ब्बत्र प्रमेयत्वादेः सत्त्वात्तत्रीपात्तेति विशेषणे सिद्ध्य-सिद्धव्याधातः तथापि च साध्यव्यापकत्वसाधनाव्यापकत्वेतत्र स्त इति तद्द्य वृत्त्या पक्षे साध्यव्यावृत्तिरतो हेतोर्व्य-भिचार एव व्यभिचारे चावश्यमुपायिरिति पक्षेतरएवतत्रोपाधिः स्यात् तावन्मात्रस्यैव दूषकत्वाच्च व्यर्थं विशे-षणम्। अतएवानुमानमात्रोच्छेदकतया जातित्वान्न पक्षे-तर उपाधिरित्यपास्तम् दूषणसमर्थत्वेन जातित्वाभावात्। एतेन पक्षेतरव्यावृत्त्यर्थं प्रकारान्तरमपि निरस्तम्, उपा-धित्वाभावेऽपि दूषणसमर्थत्वात्। अथोपाधिः स्वव्यतिरे-केण सत्प्रतिपक्षोत्थापकतया दूषणं, पक्षेतरत्वव्यातरेकश्च[Page1349-b+ 38] न साध्याभावमाधकोऽसाधारणत्वात् न तु व्यभिचारोन्ना-यकतया दूषणं यथा हि साध्यव्यापकोपाध्यव्याप्यतया हेतोःसाध्याव्याप्यत्वं तथा साध्यव्याप्यहेत्वव्यापकतयोपाधेर्नसाध्यव्यापकत्वमपि सिध्येत् व्याप्तिग्राहकस्योभयत्रापिसाम्येन विनिगमकविरहात्। त{??}द्यथा साध्यव्याप्येन हे-तुना साध्यं साधनीयं तथा साध्यव्यापकोपाधिव्यावृत्त्यासाध्याभावोऽपि साधनीयो व्याप्तिग्रहतौल्यादिति दूष-कतावीजं सोऽयं सत्प्रतिपक्ष एवेति मैवम् एवं हि सत्-प्रतिपक्ष उपाध्युद्भावनं न स्यात् सत्प्रतिपक्षान्तरवत्। किञ्चैवं बाधोन्नीतोऽपि पक्षेतरो नोपाधिः स्यात् व्यति-रेकेऽसाधारण्यात्। ननु बाधे नोपाधिनियमः धूमेन ह्रदेवह्निसाधते तदभावात्। न च हेतुमति पक्षे बाधे पक्षेतरो-पाधिनियमः प्रत्यक्षे वह्नौ कृतकत्वेनानुष्णत्वे साध्येऽतेज-स्त्वादेरुपाधित्वसम्भवादिति चेत् न तेजोमात्रपक्षत्वेऽ-तेजस्त्वं विनान्यस्य उपाधेरभावात्। किञ्च पर्वतावयववृत्त्य-न्यत्वं पवेतेतरद्रव्यत्वं ह्रदपर्वतसंयोगानाधारत्वं ह्रद-पर्वतान्यचादिकर्मुपाधिः स्यादेव व्यतिरेकेऽसाधारण्याभा-वात् व्यतिरेकिणा सत्प्रतिपक्षसम्मवाच्च। न चासाधारण्यं,तस्यापि सत्प्रतिपक्षोत्थापकतया दोषत्वात् त{??}दुभयो-रपि व्याप्तिग्राहकसाम्ये विरोधान्न व्याप्तिनिश्चयः किन्तूभयत्र व्यभिचारसंशयः तथा च व्यभिचारसंशयाधायक-त्वेनोपाधेर्दूषकत्वं तच्च पक्षेतरेऽप्यस्ति तदुक्तमुपाधेरेव व्य-भिचारशङ्केति। भवतु वोक्तन्यायेन सकलानुमानभङ्ग-भिया पक्षेतरोऽनुपाधिः तथापि लक्षणमतिव्यापकम्। नापि साध्यसमव्याप्तत्वे सति साधनाव्यापकत्वमुपाधित्वंदूषकतावोजस्य व्यभिचारोन्नयनस्य सत्प्रतिपक्षस्य वासाम्येन विषमव्याप्तस्याप्युपाधित्वात् तथा दूषकतायां सा-ध्यव्याप्यत्वस्यापयोजकत्वाच्च। अथ साध्यप्रयोजकोधर्म्म-उपा धः प्रयोजकत्वञ्च न न्यूनाधिकदेशवृत्तेः तम्मिन् स-त्यभवतस्तेन विनापि भवतस्तदप्रयीजकत्वात् अन्यथा प-क्षेतरस्याप्युपाधित्वप्रसङ्ग इति चेत् न दूषणौपयिकं हिप्रयोजकत्वमिह विवक्षितं तच्च साध्यव्यापकत्वे सति सा-धनाव्यापकत्वमेवेति तदेव प्रयोजकं नत्वधिकं व्यर्थत्वात्। ( अथोपाधिः स उच्यते यद्धर्मोऽन्यत्र प्रतिविम्बते यथाजवाकुसुमं स्फटिकलौहित्य उपाधिः तथा चोपाधिवृत्ति-व्यापत्वं हतुत्वाभिमते चकास्ति तेनासावुपाधिः न च व्यप्यत्वमात्रेण दूषकत्वमिति साध्यव्यापकतापीष्यते तथाच समव्याप्त एवोपाधिरिति चेत् तत् किं विषमव्याप्तस्य[Page1350-a+ 38] दूषकतावीजाभावान्नोपाधिशब्दवाच्यत्वं तथात्वेऽप्युपा-धिपदप्रवृत्तिनिमित्ताभावाद्वा नाद्यः तस्यापि व्यभिचारा-द्युन्नायकत्वात्। नापरः न हि लोके समव्याप्तएवान्यत्रस्वधर्मपतिविम्बजनक एवोपाधिपदप्रयोगः लाभाद्युपा-धिना कृतमित्यादौ लाभादावुपाधिपदप्रयोगात्। किञ्चन शास्त्रे लौकिकव्यवहारार्थमुपाधिव्यत्पादनं किन्त्वनु-मानदूषणार्थं तच्च साध्यव्यापकत्वे सति साधनाव्यापकत्वमात्रमिति शास्त्रे तत्रैवोप धिपदप्रय गात्। अन्ये तुयदभावोव्यभिचारविरोधी स उपाधिः न च विषमव्या-प्तस्याभावोव्यभिचारं विरुणद्धि तस्याभावेऽपि व्यभिचा-रात् अस्ति ह्यनित्यत्वव्यापकं प्रमेयत्वं तद्द्य प्यञ्च गुणत्वंनचानित्यत्वगुणत्वयोर्व्याप्तिरस्ति समव्याप्तिकस्य च व्यति-रेकस्तथा, न हि साध्यव्यापकव्याप्यीभूतस्य व्याप्यं यत्तत्साध्यं व्यभिचरति व्यभिचारे चान्ततः साध्यमेवोपाधिःअभेदेऽपि व्याप्यव्यापकत्वात् माधनव्यापकत्वादिति स्वी-चक्रुस्तन्न तवापि ह्यव्यभिचारे साध्यव्याप्यव्याप्यत्वं तन्त्र-मावश्यकत्वाल्लाघवाच्च न साध्यव्यापकव्याप्यत्वमपि भवतैवव्यभिचारस्य दर्शितत्वात्। न च साध्यव्याप्यव्याप्यत्वमेवा-नौपाधिकत्वं साध्यव्याप्यमित्यत्रापि ह्यनौपाधिकत्वं त-देव वाच्यं तथा चानवस्थेति। अनौपाधिकत्वे च व्याप्तिल-क्षणे यावदिति पदं साध्यव्यापके विशेषणं दत्तमेव किञ्चयस्मिन् सत्यनुमितिर्न भवति तदेव तत्र दूषणं न तु यद्व्य-रेके न भवत्येवेत्येतद्गर्भं विरुद्धत्वादेरप्यदोषत्वापत्तेः नापिपक्षधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनव्यापकत्वमुपा-धित्वं साधनावच्छिन्नसाध्यव्यापकोपाध्यव्यापनात्। शब्दो-ऽभिधेयः प्रमेयत्वादित्राश्रावणत्वस्योपाधित्वापत्तेश्च शब्दधर्मगुण वावच्छिन्नाभिधेयत्वं यत्र रूपादौ तत्राश्रावणत्वंव्यापकं पक्षे प्रमेयत्वस्य साधनस्याव्यापकं हि तत्। आर्द्रेन्धनवत्त्व दावुपाघौ पक्षनियततादृशधर्माभावाच्च।{??}थ साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकउपाधि तन ध्वंसस्य जन्यत्वेन ध्वंसप्रतियोगित्वे साध्येसाधनावच्छन्नसाध्यव्यापकं भावत्वमुपाधिः। श्यामत्वेशाकपाकजत्वमुपाघिरिति तन्न पक्षधर्मावच्छिन्नसाध्यव्या-पकपृथिपात्वस्यापाधित्वपसङ्गात् सोपाधित्वादसाधकमित्यत्रसाधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वे साधनावच्छिन्ने-त्यस्य व्यर्थत्वप्रसङ्गाच्च। किञ्च पक्षद्वयेऽपि विशिष्टसाध्यव्य-भिचार विशिष्टभाध्यव्यतिरेकं वा प्रसाध्य पश्चात् केव-समाध्यव्याभचारः केवलसाध्यव्यतिरेको वा साधनीय-[Page1350-b+ 38] स्तथा चार्थान्तरं केवलसाध्ये हि विवादो न तु विशिष्टे। अथ प्रकृतसाध्यव्यभिचारमिद्ध्यर्थं विशिष्टसाध्यव्यभिचारःसाध्य इति चेन्न अप्राप्तक लत्वात् प्रथमं साध्यव्यभिचारएवोद्भाव्यस्तत्रासिद्धावुपाधिरिति चेत् तर्हि प्रकृतानुमानेनोपाधिर्दूषणं स्यात्। किञ्च साध्यव्यभिचारहेतुत्वेन प-क्षघर्मावच्छिन्नसाध्यव्यापकव्य भचार एवोपन्यसनीयोनो-पाधिः। स्यादेतत् पर्यवसितसाध्यव्यापकत्वे सति सा-धनाव्यापक उपाधि पर्यवसितं साध्यं च पक्षधर्मताबल-लभ्यं यथा शब्दोऽनित्यत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवान्मेयत्वादित्यत्र पर्यवसितं यतस ध्यम् अनित्यत्वं तस्य व्या-पकं कृतकत्वमुपाधिः यदि च तथैव कृतकत्वमपि शब्देसाध्यते तदा अनित्यत्वमुपाधिः तदुक्तं वाद्युक्तसाध्यनि-यमच्युतोऽपि कथकैरुपाधिरुद्भाव्यः पर्यवसितं नियम-यन् दूषकत्रावीजसाम्राज्यादि त। अनेन पक्षधर्म्मसा-घनावच्छिन्नसाध्यव्यापकोपाधिः सगृह्यते तादृश साध्यस्यपर्यवसितत्वादिति तन्न एवं हि द्व्यणुकस्य सावयवत्वेसिद्धे द्व्यणुकमनित्यद्रव्यासमवेतं जन्यमहत्त्वानधिकरण-द्रव्यत्वादित्यत्र निस्पर्शद्रव्यसमवेतत्वमुपाधिः स्यात्। भवतिहि नित्यद्रव्यसमवेतत्वं पर्यवसितं साध्यं तस्य, व्यापकंसाधनाव्यापकञ्च। किञ्च पक्षधर्म्मताबललभ्यसाध्यसिद्धौनिष्फल उपाधिः तदसिद्धौ च कस्य व्यापकः न हि सो-पाधौ पक्षधर्म्मताबलात् साध्यं सिध्यति यस्य व्यापकउपाघिः स्यादिति। अत्रोच्यते यद्व्यभिचारित्वेन साध-नस्य साध्यव्यभिचारित्वं स उपाधिः लक्षणन्तु पर्यवसि-तसाध्यव्यापकत्वे सति साधनाव्यापकत्वं यद्धर्मावच्छे-देन साध्यं स च धर्मः। क्वचित् साधनमेव क्वचिद्द्रव्यत्वादिक्वचिन्महानसत्वादि। तथा हि समव्याप्तस्य विषमव्या-प्तस्य वा साध्यव्यापकस्य व्यभिचारेण साधनस्य साध्यव्य-भिचारः स्फुटएव व्यापकव्यभिचारिणस्तद्व्याप्यव्यभिचा-रनियमात् साधनावच्छिन्नपक्षधर्मावच्छिन्नसाध्यव्यापक-योर्व्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वमेव यथाध्वंसस्यानित्यत्वे साध्ये भावत्वस्य, वायोः प्रत्यक्षत्वे साध्येउद्भूतरूपवत्त्वस्य च विशेषणाव्यभिचारिणि साधने विशि-ष्टव्यभिचारस्य विशेव्यव्यभिचारित्वनियमात्। अतएवनार्थान्तरं, विशेषणाव भिचारित्वेन ज्ञाते साधने विशि-ष्टव्यभिचारः सिध्यन् विशेष्यसाध्यव्यभिचारमादायैव सि-ध्यति पक्षधर्म्मताबलात्। अन्यथा प्रतीतेरपर्यवसानात्। न च पक्षधर्मताबलात् प्रकृतसिद्धावर्थान्तरम्। यद्वा प्र-[Page1351-a+ 38] त्यक्षस्पर्शाश्रयत्वं प्रत्यक्षत्वव्यभिचारि द्रव्यत्वाव्यभिचारित्वेसति द्रव्यप्रत्यक्षत्वव्यापकव्यभिचारित्वान्महत्त्ववत् तथामित्रातनयत्वं श्यामत्वव्यभिचारि मित्रातनयत्वाव्यभिचा-रित्वे सति श्याममित्रातनयत्वव्यापकव्यभिचारित्वात्अघटत्ववत्। अव्यभिचारश्च तत्समानाधिकरणात्यन्ताभा-वाप्रतियोगित्वं तच्चाभेदेऽपि। यद्वा यः साधनव्यभि-चारी साध्यव्यभिचारोन्नायकः स उपाधिः तत्त्वञ्चसाक्षात् परम्परया वेति तार्थान्तरम्। किञ्च अर्थान्त-रस्य पुरुषदोषत्वादाभासान्तरस्य तत्राभावादुपाधिरेवभावत्वादिकं दोषः न चैवं शब्दोऽभिधेयः प्रमेयत्वादि-त्यत्राश्रावणत्वं, जलं प्रमेयं रसवत्त्वादित्यत्र पृथिवीत्व-मुपाधिः स्यात् केवलान्वयित्वसाधकप्रमाणेन तत्र साध्य-सिद्धेरुपाधेर्विशिष्टाव्यापकत्वात् न च पक्षेतरे स्वव्याघा-तकत्वेनानुपाधावतिव्याप्तिः तत्रानुकूलतर्काभावेन साध्य-व्यापकत्वानिश्चयात् सहचारदर्शनादेस्तेन विना संशाय-कत्वादित्युक्तं बाघोन्नीते चानुकूलतर्कोऽस्त्येवेति। एवं प-र्व्वतावयववृत्त्यन्यत्वादेरपि नोपाधित्वं पक्षमात्रव्यावर्त्त-कविशेषणवत्त्वात् अतएव धूमे आर्द्रेन्धनप्रभववह्निमत्त्वंबहिरिन्द्रियप्रत्यक्षत्वे उद्भूतरूपवत्त्व मित्रातनयश्या-मत्वे शाकपाकजत्वं जन्यानित्यत्वे भावत्वमुपाधिः तदुत्-कर्षेण साध्योत्कर्षात् अनन्यथासिद्धान्वयव्यतिरेकतो वैद्य-कात् कारणतावगमेन घटोन्मज्जनप्रसङ्गेन साध्यव्यापक-तानिश्चयात्। तत् किं कायकारणयोरेव व्याप्तिः तथा चबहुधा व्याकुलोस्यादिति चेन्न तदुपजीव्यान्येषामप्यनु-कूलतर्केण व्याप्तिग्रहात् यत्र साध्योपाध्योर्हेतुसाध्ययोर्वाव्याप्तिग्राहकसाम्यान्नैकत्र व्याप्तिनिश्चयस्तत्र सन्दिग्धो-पाधित्वं व्यभिचारसंशयोपाधायकत्वात्। यदा च तादृश्ये-कत्रानुकूलतर्कावतारस्तदा हेतुत्वमुपाधित्वं वा निश्चितंपक्षेतरस्य स्वव्याघातकत्वेन न हेतुव्यभिचारसंशायकत्व-मतो न सन्दिग्धोपाधिरपि सः। यत्तु पक्षेतरस्य यथासाध्यव्यापकत्वं तथा साध्याभावव्यापकत्वमपि ग्राहक-साम्यात् तथा चोभयव्यापकनिवृत्त्या साध्यतदभावाभ्यांपक्षे निवर्त्तितव्यम् न चैवम्। तथा च पक्षेतरः सा-ध्यव्यापकतासंशयेन सन्दिग्धः कथं परं दूषयेदिति तन्नतथापि हि साध्यव्यापकता पक्षमालम्ब्य हेतुव्यभिचारसंशयाधायकत्वेन दूषणं स्यादेव। ननु यत्रोपाधिस्तत्रा-नुकूलतर्कोयदि नास्ति तदा तदभावेनैव व्याप्तेरग्रहः अ-थास्ति तदा साध्यव्याप्याव्यापकत्वेनोपाधिः साध्यव्या-[Page1351-b+ 38] पकत्वनिश्चयान्नोपाधिरित्युभयथापि नोपाधिर्दूषणं न चव्याप्यतदभावव्याप्यमुभयमत उपाधिरपि तदभावोन्नयनेनदोष इति वाच्यं उपाधेरात्मलाभार्थमनुकूलतर्काभावोजी-वकत्वेन तस्यैव दोषत्वादिति चेन्न सोपाधावेकत्र साध्यतद-भावसम्बन्धस्य विरुद्धत्वादवच्छेदभेदेन तदुभयसम्बन्धो वाच्यःतथा च साधने साध्यसम्बन्धितावच्छेदकरूपमनुकूलतर्काभा-वोपजीवनमन्तरेणोपाधिरावश्यकस्तथानुकूलतर्काभावोऽप्या-वश्यक इति उभयोरपि विनिगमकाभावाददूषकत्वम्। अन्ये तु यद्व्यावृत्त्या यस्य साधनस्य साध्यं निवर्त्तते सधर्म्मस्तत्र हेतावुपाधिः स च धर्म्मोयस्याभावात् पक्षे सा-ध्यसाधनसम्बन्धाभावः यथा आर्द्रेन्धनवत्त्वं, व्यावर्त्तते हितद्व्यावृत्त्या धूमवत्त्वमयोगोलके। अतएव तत्र साध्यसाधन-सम्बन्धाभावा पक्षे। एवं भावत्वव्यावृत्त्या ध्वंसे जन्यत्वानि-त्यत्वयोः सम्बन्धीनिवर्त्तमानः पक्षधर्म्म ताबलादनित्य-त्वाभावमादाय सिध्यति। तथा वायावुद्मूतरूपवत्त्वं निव-र्त्तमानं बहिर्द्रव्यत्वे सन्ति प्रत्यक्षत्वं निवर्त्तयत् प्रत्यक्ष-त्वाभावमादाय सिध्यति तथा चोभयत्रापि पक्षे साध्या-भावसिद्ध्या साध्यसाधनसम्बन्धाभावोऽस्तीति अतएव वा-धानुन्नीतपक्षेतरस्यानुपाधित्वं स्वव्याघातकत्वेन तद्व्यति-रेकस्य साध्याव्यावर्त्तकत्वादिति। यत्तूपापिमात्रस्यलक्षणं व्यतिरेकिधर्म्मत्वं पक्षेतरोऽपि क्वचिदुपाधिःतत्तदुपाधेस्तु तत्तत्साध्यव्यापकत्वे सति तत्तत्साधनाव्याप-कत्वं न च धूमवह्निसम्बन्धोपाधिः पक्षेतरत्वं स्यादितिवाच्यम् आपद्याप्रसिद्धेरिति तन्न अनुमितिप्रतिबन्धकज्ञा-नविषयतावच्छेदकमुपाधित्वमिह निरूप्यं तच्च न व्यतिरे-कित्वमतिप्रसङ्गात् विशेषलक्षणे वह्निधूमसम्बन्धे पक्षेतर-त्वस्योपाधित्वप्रसङ्गाच्च। केचित्तु साधनव्यापकोऽप्युपाधिःक्वचिद्यत्र पक्षावृत्तिर्हेतुः यथा करका पृथिवो कठिनसयो-गात् इत्यत्रानुष्णाशीतस्पर्शवत्त्व न च तत्र स्वरूपासिद्धि-रेव दोषः सर्व्वत्रोपाधेर्दूषणान्तरसङ्करादित्याहुः। सा-ध्यञ्च नोपाधिः व्यभिचारसाधने साध्याविशिष्टत्वात्अनुमितिमात्रोच्छेदप्रसङ्गाच्च। स चायं द्विविधः निश्चितः सन्दिग्धश्च साध्यव्यापकत्वेन साध-नाव्यापकत्वेन च निश्चितोव्यभिचारनिश्चयाधायकत्वेन नि-श्चितोपाधिः यथा वह्निमत्त्वेन धूमवत्त्वे साध्ये आद्रेन्धन-प्रभववह्निमत्त्वम्। यत्र साधनव्यापकत्वसन्देहः साध्यव्यापक-त्वसंशयो वा तदुभयसन्देहो वा तत्र हेतुव्यभिचारसंशाय-कत्वेन सन्दिग्धोपाधिः यथा मित्रातनयत्वेन श्यामत्वे साध्ये[Page1352-a+ 38] शाकाद्याहारपरिणतिजत्वं न च तेन हेतुना शाकपा-कजत्वमपि साध्यं तत्र श्यामत्वस्योपाधित्वादुभयस्यापिसाधने अर्थान्तरं श्यामत्वमात्रे विवादो नतूभयत्र। नचैवं धूमाद्वह्न्यनुमानेऽपि वह्निसामग्र्युपाधिः स्यात् तत्रवह्निनेव तत्सामग्र्यापि समं धूमस्यानौपाधिकत्वनिश्च-यात्। अत्र तु मित्रातनयत्वव्याप्यश्यामसामग्य्रा स्थात-व्यमित्यत्र कार्यकारणभावादीनां व्याप्तिग्राहकाणामभा-वात्। अतएव साध्यसामग्य्रा सह हेतोरपि यत्र व्याप्तिग्रा-हकमस्ति तत्र सामग्री नोपाधिः यत्र तु तन्नास्ति तत्रसाप्युपाधिरित्यभिसन्धाय सामग्री च क्वचिन्नोपाधिर्नतुसर्वत्र इत्युक्तं यथा तुल्ययोगक्षेमयोरुपाधेर्व्यापकतासन्देहेईश्वरानुमाने शरीरजन्यत्वाणुत्वादिः यथा च शाकपा-कजत्वस्य साध्यव्यापकतासन्देहे मित्रातनयत्वे। यत्तुउपाधिसन्देहो नोपाधिर्न वा हेत्वामासान्तरमिति तदु-द्भावने निरनुयोज्यानुयोग इति तन्न सन्दिग्धानैकान्तिक-व्यभिचारसंशयाधायकत्वेन दूषणत्वादुपाधेरिव व्यभि-चारनिश्चयाधायकतया। ( इदानीमुपाधेर्दूषकतावीजं निरूप्यते। नाप्यस्यव्यतिरेकद्वारा सत्प्रतिपक्षत्वेन दूषकत्वं तदा हिसत्प्रतिपक्षे सत्प्रतिपक्षान्तरवदुपाधेरुद्भावनं न स्यात्न च प्रतिपक्षबाहुल्येनाधिबचार्थमुद्भावनं शतमप्यन्धोन पश्यतीति न्यायात् एकेनापि बहूनां प्रतिबन्धाच्चब्याप्तिपक्षधर्म्मतेति बलं तच्च तुल्यमेव न तु भूयस्त्व-मपि एकस्मादनुमितेरदर्शनात्। सन्दिग्धोपाधेरदू-षकतापाताच्च तद्व्यतिरेकस्य पक्षे सन्दिग्धत्वात् अपिचैवं बाधोन्नीतपक्षेतरस्योपाधित्वं न स्यात् व्यति-रेकेऽसाधारण्यात् पक्षधर्म्मश्चोपाधिर्न स्यात् यथा घटो-ऽनित्यो द्रव्यत्वादित्यत्र कार्यत्वं, गन्धाधरो द्रव्यं स्वात-न्त्र्येण प्रतीयमानत्वादित्यत्राश्राबणत्वं, तद्व्ययिरेकस्य पक्षा-वृत्तित्वात्। न च नायमुपाधिः, तल्लक्षणसत्त्वात् अन्यथादूषकत्वसम्भपा{??}। किञ्च साध्यव्यापकव्याप्यत्वेनोपाधेःसाध्याव्यापकत्वे तद्व्यतिरेकेण कथं सत्प्रतिपक्षः, नह्यव्यापकव्यतिरेकादव्याप्यव्यतिरेकः। नापि व्याप्तिविर-हरूपतया असिद्धत्वेनानौपाधिकत्वस्य व्याप्तित्वनिरा-सात्। नाप्यनौपाधित्वज्ञानस्य व्याप्तिधीहेतुत्वस्य तत्त्वेनव्याप्तिज्ञानकारणविघटकतया व्याप्यत्वासिद्धावन्तर्भावात्। नह्यन्यस्य साध्यव्यापकत्वसाधनाव्यापकत्वज्ञानमन्यव्या-प्तिज्ञानं प्रति प्रतिबन्धकमित्युक्तम्। न च साध्यव्याप-[Page1352-b+ 38] कत्वसाध्यव्याप्यत्वज्ञाने विद्यमाने साधनस्य साध्यव्याप-कत्वज्ञानं नोत्पत्तुमर्हतीति वाच्यं न हि साध्यव्यापकव्य-प्यत्वज्ञानं व्याप्तिज्ञानकारणं येन तत् प्रतिवन्धकं स्यात्किन्तु साध्यव्यापकव्यभिचारित्वेन साध्यव्यभिचारित्व-ज्ञानद्वारा, नापि व्यभिचारोन्नायकत्वेन। यथा हि सा-ध्यव्यापकव्यभिचारितया साधनस्य साध्यव्यभिचारित्व-मनुमेयं तथा साध्यव्याप्यव्यभिचारित्वेन साध्यव्यभि-चारित्वमुपाधेरप्यनुमेयं व्याप्तिग्राहकसाम्यात्। नापिसाध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्नायकतया, साध्य-व्याप्याव्यापकत्वेनोपाधेरेव साध्याव्यापकत्वसाघनात् त-स्मादुपाधिर्हेत्वाभासान्तरमिति। उच्यते आर्द्रेन्धनलत्त्वा-देस्तर्कादिना साध्यव्यापकत्वसाधने व्यापकत्वे निश्चितेदूषकतावीजचिन्तनं यदि हि साध्यसाधनसहचारदर्श-नेनोपाधौ साध्यव्यापकतानिश्चय एव नास्ति तदोपाधि-त्वनिश्चयाभावात् दूषकतैव नास्तीति क्व बहिर्भावान्तर्भाव-चिन्ता। किञ्च सत्प्रतिपक्षतया व्याप्यत्वासिद्धतया स्वा-तन्त्र्येण वा यदि दोषत्वं सर्वथा साध्यव्यापकतानिश्च-योवाच्यः तेन विना तेषामभावात्। तस्मादुपाधिनि-श्चयाद्व्यभिचारनिश्चयः तत्संशयात् संशय इति वाभिचा-रज्ञानद्वारा साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्ना-यकतया वोपाधेर्दूषकत्वम्। यद्वा साध्यव्यापकाभाव-वद्वृत्तितया साध्यव्यभिचारित्वमुन्नेयं न च साधनाभा-ववद्वृत्तित्वमुपाधेरिति वाच्यम् उपाधिमात्रोच्छेदप्रस-ङ्गात् सत्प्रतिपक्षे पूर्वसाधनव्यतिरेकवत् अवृत्तिगग-नादौ साध्याव्यापकत्वात् संयोगादौ हेतौ साधनव्याप-कत्वाच्च। अथोपाध्याभासाः। असाधारणविपर्ययो य-थान्वयव्यतिरेकिणि साध्ये बाधोन्नोतान्यपक्षेतरत्वम्। अप्रसिद्धसाध्यबिपर्ययो यथा केवलान्वयिनि साध्ये पक्षे-तरत्वादिः। बाधितसाधकविपययो यथा वह्निरुष्णस्ते-जस्त्वादित्यत्राकृतकत्वम्। पक्षाविपर्ययो यथा क्षित्या-दिकं सकर्तृकं कार्य्यत्वादित्यत्राणुव्यतिरिक्तत्वम् अत्रा-णुव्यतिरेकव्यतिरेकस्य क्षित्यादेरेकदेशवृत्त्या भागासिद्धेः। पूर्वसाधनव्यतिरेको यथा शर्करारसोऽनित्योऽनित्यवृत्ति-गुणत्वात्, रसोऽनित्यो रसनेन्द्रियजन्यनिर्विकल्पकविषय-त्वात् रसत्ववदित्यादौ पूर्वसाधनतायाः प्रयोगानुरोधि-त्वेनाव्यवस्थितत्वात् कदाचिन्नित्यत्वसाधनव्यतिरेकस्यो-पाधित्वं कदाचिदनित्यत्वसाधनव्यतिरेकित्वस्येति वस्तुव्य-वस्था न स्यात् उपाधेर्नित्यदोषत्वाच्च। न हि यद्येन[Page1353-a+ 38] सोपाधिसम्बद्धं तत्तेनानुपाधित्वसम्बद्धं सम्भवति न तुसत्प्रतिपक्षोच्छेदः पूर्ब्बसाधनव्यतिरेकस्यानुपाधित्वे वीजंस्थापनाया यत्राभासत्वं तत्र पूर्ब्बसाधनव्यतिरेकस्यसाध्याव्यापकत्वेनानुपाधित्वात् न च पूर्वहेतोस्तत एवासा-धकत्वात् सत्प्रतिपक्षवैयर्थ्यं तत्रेति वाच्यम् अगृह्यभाण-विशेषदशाया सत्प्रतिपक्षसम्भवात्। पूर्वसाधनव्याप्यव्यति-रेको यथा अकर्तृत्वानुमाने नित्यत्वादिः। पक्षविपक्षान्य-तरान्यी यथा प्रसिद्धानुमाने पर्वतजलह्रदात्यतरान्यत्वम्। पक्षेतरसाध्याभावो यथात्रैव पर्वतेतराग्निमत्त्वं न चात्रव्यर्थविशेषणत्वं दूषणं सत्त्वेप्युपाधेराभासत्वात्। तत्तु-ल्यश्च यथात्रैव पर्व्वतेतरेन्धनवत्त्वम्। एवं वह्निसामग्थ्रादि-कमूह्यम्” विवरणं दीधित्यादौ दृश्यं विस्तरभयान्नोक्तम्। उपाधिना निर्मितः ठञ् स्त्रियां ङीप्। औपाधिकउपाधिजनिते मिथ्याभूते आरोपिते स्फटिकलौहित्यादौजवासन्निकर्षात् स्फटिके च मिथ्याभूतं लौहित्यमुत्पद्यतेइति वेदान्तिनः। नैयायिकादयस्तु तत्र लौहित्यस्यभ्रान्तिरित्युररीचक्रुः। प्रमेयवि॰ संग्रहे तयोः पक्षयो-र्युक्तायुक्तत्वं यथावर्ण्णितं तदत्र दर्श्यते।
“यस्तु लौहित्यमिथ्यात्वं न सहते स वक्तव्यः किं स्फटिकप्रवृत्ता नयनरश्मयः स्फटिकप्रतिफलितजवाकुसुममुप-सर्पेयुः? किंवा कुसुमगतरूपमात्रं स्फटिके प्रति-विम्बितं स्फटिकात्मना भासते? उत पद्मरागादिमणी-प्रभयेव कुसुमप्रभया व्याप्तवात् स्फटिकोलोहितैवावभासते?। अथ वा तत्र व्याप्तवती प्रभैव लोहिता भाति?आहोस्वित्तया प्रभया स्फटिके नूतनं लौहित्यमुत्पा-दितम्! आद्ये नेत्राभिमुखं कुसुममपि प्रतीयेत। यदि च दोषवशान्न कुसुमेन संयोगः तर्हि लौहित्य-मपि न भासेत तद्युक्तसभवायस्य तत्राभावात्। नद्वितोयः क्वचिदपि द्रव्यं परित्यज्य रूपमात्रस्य प्रति-विम्बादर्शनात्। तृतीये तु स्फटिकलौहित्ययोः सम्बन्धो-मिथ्येति त्वयाभ्युपगतमेव स्यात् इवशब्दप्रयोगात्। चतुर्थे स्फटिकशौक्ल्यमपि प्रतीयेत अप्रतीतिकारणाभावात्न च जवाप्रभया विरोधिगुणयुक्तया शौक्ल्यमपसारितंतथासति नीरूपस्य स्फटिकस्याचाक्षुषत्वप्रसङ्गात् न हिरूपं विहाय द्रव्यमात्रस्य चाक्षुषत्वं सम्भवति वायोरपितत्प्रसङ्गात्। पञ्चमेऽपि प्रभा निमित्तकारणं चेत्तदाप्रभापगमेऽपि स्फटिके लौहित्यमवतिष्ठेत्। उपादानं प्र-भेति चेत् न मणाविव कुमुमे प्रभाया एवादर्शनात् प्रूर्वोक्त-[Page1353-b+ 38] विकल्पदूषणानामङ्गीकारवादत्वात् तदेवं स्फटिके मिथ्यालौहित्यं कुसुमनिमित्तमित्यङ्गीकर्त्तव्यम्। एवमात्मत्यह-ङ्कारनिमित्तं कर्तृत्वादिकमारोप्यते”। प्रतिविम्बपक्षेऽपि प्र-तिम्बपदार्थस्य यथा मिथ्यात्वं तदपि तत्रैव निर्ण्णीतं यथाननु जीवस्याहङ्कारस्थप्रतिविम्बत्वे दर्पणस्थमुखप्रति-विम्बवद्विम्बाद्भेदः स्यात्। तत्र हि ग्रीवास्थदर्पणस्थयो-रन्योन्याभिमुखत्वेन भेदोऽनुभूयते। भैवं मदीयमिदं मुख-मित्यैक्यप्रत्यभिज्ञयाभेदानुभवस्य बाधात्। न च प्रत्य-भिज्ञैवेतरेण बाध्येति वाच्यम् सति भेदे प्रतिविम्बास-म्भवात्। किं प्रतिविम्बोनाम मुखलाञ्छितमुद्रा उत दर्प-णावयवा एव विम्बस्य सन्निधिवशात्तथा परिणमन्ते। नाद्यः दर्पणस्थमुखस्येतरस्मादल्पत्वात्। यत्र तु प्रौढदर्पणे प्रौढं मुखमुपलभ्यते तत्रापि तस्य न मुद्रात्वम्दर्पणमुखयोः संयोगाभावात्। न द्वितीयः निमित्तका-रणस्य विम्बस्यापायेऽपि तस्यावस्थानप्रसङ्गात् न हितथावतिष्ठते। तेनैव पुरुषेण दर्पणे तिर्य्यङ्निरीक्षिते पुरु-षान्तरेण सम्यगवलोकिते वा तन्मुखानुपलम्भात्। नचैवं मन्तव्यम् क्वचिन्निमित्तापाये कार्यमप्यपैति हस्त-संयोगजन्यस्य कटप्रसारणस्य हस्तसंयोगापायेऽपाय-दर्शनादिति। न तत्र निमित्तापायात् कायापायः किन्तुचिरकालसंवेष्टनाहितेन संस्कारेण संवेष्टनलक्षणविरुद्धकार्योत्पादनात्। अन्यथा चिरकालप्रसारणे{??} संवेष्टनसंस्कारे विनाशितेऽपि हस्तापाये प्रसारणमरेयात्। नचैवमपैति। इह तु चिरकालविम्बसन्निधावप्यन्ते विम्बा-पाये प्रतिविम्बोऽपि गच्छत्येवेति न विम्बं परिणामस्यनिमित्तम्। अथ मन्यसे चिरकालावस्थितोऽपि कमलवि-काशः सवितृकिरणस्य निमित्तस्यापायेऽपगच्छतीति। तन्न तत्रापि प्राथमिकमुकुलत्वे हेतुभिः पार्थिवैराप्यैश्चकमलावयवैः पुनरपि रात्रौ मुकुलत्वे विरुद्धकार्ये जनितेविकासापायात्। अन्यथा तादृगवयवरहिते म्लाने कम-लेऽपि रात्रौ विकासोऽपगच्छेत्। आदर्शे तु मुखाकार-परिणते पुनः केन हेतुना समतलाकारपरिणामः तदवय-वानां कारुकर्मव्यतिरेकेण अकिञ्चित्करत्वात्। अतएव वि-म्बासन्निधिमात्रेण नादर्शावयवा मुखाकारेण परिणमेरन्। अन्यथा दर्पणद्रव्ये प्रतिमामुखे कर्त्तव्ये सति लौकिकाविम्ब-मेव सन्निधागयेयुर्नतद्धेतुमपक्षेरन्। दर्पणद्रव्यस्यान्याकारपरिणामे कारुकर्मापेक्षायामपि प्रतिविम्बपरिणामे पुनस्वरूपपरिणामे वा न तदपेक्षेति चेत् एवमपि न मुख-[Page1354-a+ 38] प्रतिविम्बाकारपणिणामो युक्तिसहः चक्षुर्नासिकादिनिम्नोन्नतभावस्य स्पर्शेनानुपलम्भात्। समतलमेव हिपाणिना स्पृंश्यते। समतलेन व्यवहितं मुखमिति चेत्। तर्हि चाक्षुषमपि न स्यात्। तत एतत्सिद्धम्। विमतआदर्शोमुखव्यक्त्यन्तररहितः तज्जन्मकारणशून्यत्वात्। यथा विषाणजन्मकारणशून्यं विषाणरहितं शशमस्तक-मिति। ननु तर्हि शुक्तिरजतवन्मिथ्यात्वापत्तेर्न विम्बैक-त्वसिद्धिः प्रत्यभिज्ञा तु व्यभिचारिणी मिथ्यारजतेऽपि म-दीयमिदं रजतमिति तद्दर्शनादिति चेत्। विषमोदृ-ष्टान्तः नेदं रजतमिति हि तत्र रजतस्वरूपबाधया र-जताभिज्ञाया भ्रमत्वे तत्प्रत्यभिज्ञाया अपि भ्रमत्वमु-चितम् इह तु न तथा नेदं मुखमिति स्वरूपबाधःकिन्तु नात्र मुखमिति देशसम्बन्धमात्रबाधे समुत्पन्नामदीयमेव मुखमिति प्रत्यभिज्ञा कथं भ्रमःस्यात्। न चस्वमुखावयवानामचाक्षुषत्वात् कथं प्रत्यभिज्ञानमितिवाच्यम् नासाग्रादिकतिपयावयवदर्शनादपि घटादि-वदवयविनश्चाक्षुषत्वोपपत्तेः। यः पुनर्द्दर्पणापगमे प्रतिवि-म्बापगमः नासौ स्वरूपबाधः दर्पणेऽपि तत्प्रस-ङ्गात्। ननु तत्त्वमसिवाक्येन जीवरूपः प्रतिविम्बो-बाध्यते यः स्थाणुरसौपुरुष इति वद्बाधायां सामाना-धिकरण्यात् संसार्य्यविनाशे च मोक्षानुपपत्तेः। मै-वम् सोऽयं देवदत्त इति वदैक्यपरत्वेनापि सामाधि-रण्यसम्भवात् विरुद्धांशबाधमात्रेण मोक्षोपपत्तेः। कृत्स्नस्य जीवस्य बाधे मोक्षस्यापुरुषार्थत्वात्। यस्तु म-न्यते प्रतिबिम्ब एव नास्ति, दर्पणप्रतिस्फालिता नेत्रर-श्मयः परावृत्य विम्बमेव दर्पणादविविक्तं गृह्णन्तीति, स्पष्ट-प्रत्यङ्मुखत्वाद्यनुभवेनैवासौ निराकरणीयः। कथं तर्हिमूर्त्तद्रव्यस्य मुखस्यैकस्य विच्छिन्नदेशद्ववे युगपत् कात्र्स्न्येनवृत्तिः। दर्पणदेशवृत्तेर्मायाकृतत्वादिति ब्रूमः। न हिमायायामसम्भावनोयं नाम स्वशिरच्छेदादिकमपि स्वप्नेमाया दर्शयति। नन्वेवमेव जलमध्येऽधोमुखस्य वृक्षप्रति-विम्बस्य तीरस्थवृक्षेणेक्ये सति तीरस्थवृक्षोऽधिष्ठानं तत्रच मायया जलगतत्वमधोमुखत्वं चाध्यस्तमिति वक्तव्यम्। न चात्राध्यासहेतुरस्ति। अधिष्ठानस्य साकल्येन प्रती-तेस्तत्कथमसावध्यासः। उच्यते। किमत्र वृक्षावरणा-भावादध्यासाभावः? किं वा दोषाभावात्। उतो-पादानाभावात्? आहोस्विदध्यासविरोधिनोऽधिष्ठान-तत्त्वज्ञानस्य सद्भावात्?। नाद्यः। वैतन्यावरणस्यैवा-[Page1354-b+ 38] ध्यासोपादानतया जडे पृथगावरणानुपयोगात्। एतेनतृतीयोऽपि निरस्तः। न द्वितीयः। सोपाधिकभ्रमेषूपा-धेरेव दोषत्वात्। न चतुर्थः। निरुपाधिकभ्रमस्यैवाधि-ष्ठानतत्त्वज्ञानविरोधित्वात्।{??}र्हि सोपाधिकभ्रमस्य क-र्तृत्यादेर्नात्मतत्त्वज्ञानान्निवृत्तिः किन्तु अहंकारो-पाध्यपगमादिति चेत्। वाढम्। पारमार्थिकदर्पणाद्युपाधेस्तत्कृतभ्रमस्य च ज्ञानादनिवृत्तावप्यज्ञानजन्योपा-धेरहङ्कारस्य निरुपाधिकभ्रमरूपस्यात्मतत्त्वज्ञानान्निवृत्तौकर्तृत्वादेर्ज्ञानान्निवृत्तिरर्थात् सिध्यति”। परिभाषायां तु उपाधिसन्निकर्षस्थले भ्रममेवाङ्गीचकार नतु तत्र मिथ्यत्वमिति भेदः।
“तत्र सङ्केतवन्नाम सैव संज्ञेतिकीर्त्त्यते। नैमित्तिकी पारिभाषिक्यौपाधिक्यपि तद्भिदा” इति संज्ञां त्रिधा विभज्य।
“उभयावृत्तिधर्म्मेण संज्ञास्यात् पारिभाषिकी। औपाधिकी त्वनुगतोपाधिना याप्रवर्त्तते” इति
“यद्वाधुनिकसङ्केतशालित्वात् पारिभाषिकम्। जात्या नैमित्तिकं शक्तमौपाधिकमुपाधिना”।
“यदुपाध्य-वच्छिन्नशक्तिमन्नाम तदौपाधिकं यथाकाशपश्वादि” इतिच शब्दप्र॰। अत्र उपाधिना शक्तेरवच्छेदकरणात् तत्कृत-त्वम् इति बोध्यम्।

[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]

== शब्दसागरः ==
Line ३० ⟶ २२:

उपाधि¦ m. (-धिः)
1. Virtuous reflection.
2. A discriminative or dis- tinguishing property, an attribute.
3. Deception, disguise. (In the Vadanta this is especially applied to certain natural forms or properties, considered as disguises of the spirit.)
4. A title, a dis- criminative appellation, a nickname.
5. Careful or diligent for the support of a family, (always masculine, though with a faminine or neuter substantive.)
6. A purpose, an occasion, an object.
7. (In logic,) A special cause for a general effect.
8. (In rhetoric,) The natural character of species, quality, or action. E. उप and आङ् before धा to have, aff. कि।

[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]

== Apte ==
Line ५९ ⟶ ४९:

A substitute, substitution; उपाधिर्न मया कार्यो वनवासे जुगुप्सितः Rām.2.111.29.

[[वर्गः: यन्त्रोपारोपितकोशांशः-Apte]]

== Monier-Williams ==
Line ९१ ⟶ ७९:
उपाधि/ उपा m. a man who is careful to support his family L.

[[वर्गः: यन्त्रोपारोपितकोशांशः-Monier-Williamsकल्पद्रुमः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-कल्पद्रुमःअमरकोशः]]

[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशः]]
[[hi:उपाधि]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-शब्दसागरः]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-अमरकोशःApte]]
[[वर्गः: यन्त्रोपारोपितकोशांशः-ApteMonier-Williams]]
"https://sa.wiktionary.org/wiki/उपाधि" इत्यस्माद् प्रतिप्राप्तम्