प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिशब्दकोशः β

अन्तर्विषयाः

यन्त्रोपारोपितकोशांशःसम्पाद्यताम्

कल्पद्रुमःसम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्धिः, स्त्री, (वृध + क्तिन् ।) अष्टवर्गान्तर्गतौ- षधविशेषः । तत्पर्य्यायः । योग्या २ ऋद्धिः ३ सिद्धिः ४ लक्ष्मीः ५ । इत्यमरः ॥ पुष्टदा ६ वृद्धि- दात्री ७ मङ्गल्या ८ श्रीः ९ सम्पत् १० आशीः ११ जनेष्टा १२ भूतिः १३ मुत् १४ सुखम् १५ जीवभद्रा १६ । अस्या गुणाः । “ऋद्धिर्वृद्धिश्च मधुरा सुस्निग्धा तिक्तशीतला । रुचिमेधाकरी श्लेष्मकुष्ठक्रिमिहरा परा ॥ प्रयोगेष्वनयोरेकं यथालाभं प्रयोजयेत् । तत्र यद्दातुमिष्टिः स्याद्द्वयमप्यत्र योजयेत् ॥” इति राजनिर्घण्टः ॥ * ॥ ऋद्धिवृद्ध्योरुत्पत्तिलक्षणनामगुणाः । “ऋद्धिर्व्वृद्धिश्च कन्दौ द्बौ भवतः कोषयामले । श्वेतलोमान्वितः कन्दो लताजातः सरन्ध्रकः ॥ स एव ऋद्धिर्वृद्धिश्च भेदमप्येतयोर्ब्रुवे । तूलग्रन्थिसमा ऋद्धिर्वामावर्त्तफला च सा ॥ वृद्धिस्तु दक्षिणावर्त्तफला प्रोक्ता महर्षिभिः । ऋद्धिर्योग्या सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे ॥ ऋद्धिर्बल्या त्रिदोषघ्नी शुक्रला मधुरा गुरुः । प्राणैश्वर्य्यकरी मूर्च्छारक्तपित्तविनाशिनी ॥ वृद्धिर्गर्भप्रदा शीता वृं हणी मधुरा स्मृता । वृष्या पित्तास्रशमनी क्षतकासक्षयापहा ॥ राज्ञामप्यष्टवर्गस्तु यतोऽयमतिदुर्ल्लभः । तस्मादस्य प्रतिनिधिं गृह्णीयात्तद्गुणं भिषक् ॥” मुख्यसदृशः प्रतिनिधिः ॥ * ॥ एतस्य प्रतिनिधि- माह । “मेदा जीवककाकोली ऋद्धिद्वन्द्वेऽपि चासति । वरीविदार्य्यश्वगन्धावाराहीश्च क्रमात् क्षिपेत् ॥” मेदा महामेदास्थाने शतावरीमूलं जीवकर्षभक- स्थाने विदारीमूलं काकलीक्षीरकाकोलीस्थाने- ऽश्वगन्धामूलं ऋद्धिवृद्धिस्थाने वाराहीकन्दं गुणैस्तत्तुल्यं क्षिपेत् । इति भावप्रकाशः ॥ * ॥ नीतिवेदिनां क्षयादित्रिवर्गान्तर्गतवर्गविशेषः । त्रिगुणा द्विगुणा च वृद्धिः परा । वशिष्ठेन तु रसस्य त्रैगुण्यमुक्तम् । द्विगुणं हिरण्यं त्रिगुणं धान्यं धान्येनैव रसा व्याख्याताः पुष्पमूल- फलानि च । तुला घृतं त्रितयमष्टगुणमिति । मनुना तु धान्यस्य पुष्पमूलफलादीनाञ्च पञ्च- गुणत्वमुक्तम् । “धान्ये शदे लवे बाह्ये नातिक्रा- मति पञ्चतामिति ।” शदः क्षेत्रफलं पुष्पमूल- फलादि । लवो मेषोर्णाचमरीकेशादि । बाह्यो वलीवर्दतुरगादि । धान्यशदलवबाह्यविषया वृद्धिः पञ्चगुणत्वं नातिक्रामतीति । तत्राधमर्णयोग्य- तावशेन दुर्भिक्षादिकालवशेन च व्यवस्था द्रष्टव्या । एतच्च सकृत्प्रयोगे सकृदाहरणे च वेदितव्यम् । पुरुषान्तरसंक्रमणेन प्रयोमान्तर- करणे तस्मिन्नेव वा पुरुषे अनैकशः प्रयोगा- न्तरकरणे सुवर्णादिकं द्वैगुण्याद्यतिक्रम्य पूर्ब्ब- वद्वर्द्धते । सकृत्प्रयोगेऽपि प्रतिदिनं प्रति- मासं प्रतिवत्सरं वा वृद्ध्याहरणेऽधमर्णदेयस्य द्बैगुण्यसम्भवात् । पूर्ब्बाहृतवृद्ध्या सह द्वैगुण्य- मतिक्रम्य वर्द्धत एव । यथाह मनुः । कुषीद- वृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता । सकृदाहि- तेत्यपि पाठोऽस्ति । उपचयार्थं प्रयुक्तं द्रव्यं कुषीदं तस्य वृद्धिः कुसीदवृद्धिर्द्वैगुण्यं नात्येति नातिक्रामति । यदि सकृदाहिता सकृत्प्रयुक्ता पुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणे द्वैगुण्यमत्येति सकृदाहृतेति पाठे शनैः शनैः प्रतिदिनं प्रतिमासं प्रतिवत्सरं वाधमर्णादा- हृता द्वैगुण्यं नात्येतीति व्याख्येयम् । तथा गौतमेनाप्युक्तम् । चिरस्थाने द्वैगुण्यं प्रयोग- स्येति प्रयोगस्येत्येकवचननिर्देशात् प्रगोगान्तर- करणे द्वैगुण्यातिक्रमोऽभिप्रेतः । चिरस्थान इति निर्द्देशात् शनैः शनैर्वृद्धिग्रहणे द्वैगुण्याति- क्रमो दर्शितः । इति मिताक्षरा ॥ कुरण्ड- रोगः । हर्षः । इति हेमचन्द्रः ॥ समूहः । इति शब्दचन्द्रिका ॥ शैलेयम् । धनम् । इति राजनिर्घण्टः ॥ * ॥

अमरकोशःसम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्धि स्त्री।

वृद्ध्याख्यौषधिः

समानार्थक:वृद्धि,आह्वय

2।4।112।2।5

गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा। योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वृद्धि स्त्री।

अष्टवर्गाणां_वृद्धिः

समानार्थक:वृद्धि

2।8।19।2।3

षड्गुणा: शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः। क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्.।

पदार्थ-विभागः : , क्रिया

वृद्धि स्त्री।

वृद्धिः

समानार्थक:स्फाति,वृद्धि

3।2।9।2।2

ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ। स्फातिर्वृद्धौ प्रथाख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे॥

पदार्थ-विभागः : , क्रिया

वृद्धि पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

3।3।100।2।1

विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे। बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्धि¦ स्त्री वृद्ध--क्तिन्।

१ समृद्दौ

२ अभ्युदये मेदि॰

३ सम्पत्तौ

४ समूहे च। वृध--कर्त्तरि क्तिच्।

५ औषधिविशेषेऋद्धिशब्दे

१४

४७ पृ॰ तल्लक्षणादि दृश्यम्। (कोरन्द)

६ रोगविशेषे तन्निदानादि भावप्र॰ उक्तं यथा
“तत्र वृद्धेर्निदानं संख्याञ्चाह
“दोषास्रमेदोमूत्रान्त्रेःसंवृद्धिः सप्तधा गदः। मुत्रान्त्रजावप्यनिलाद्धेतुभेदस्तुकेवलः। वृद्धिं करोति कोषस्थः फलकोषाभिवाहिनीम्। छद्ध्वा रुद्धगतिर्वायुर्धमनीः मुष्कगामिनीः। तत्र वाति-कमाह
“वातपूर्णदृतिप्रख्यो रूक्षो वातादहतुरुक्”। अहेतुरुक् अत्रेषदर्थे नञ्। तेन स्वल्पादपि विप्रकृष्टात्कारणात् रुक् पीडा यत्र सः। अथ पैत्तिकमाह
“पक्वोदुम्बरसङ्काशः पित्ताद्दाहोष्मपावकात्”। दाहःअभ्यन्तरः ऊष्मा वहिस्तप्तता। अथ श्लौष्मकमाह
“कफा-च्छीतो गुरुःस्निग्धः कण्डूमान् कठितोऽल्परुक्”। अथरक्तजमाह
“कृष्णस्फाटावृतः पित्तवृद्धिलिङ्गश्च र-क्तजः”। कृष्णस्फोटावृत इति पैत्तिकोद्भवः। मेदोज-माह
“कफवन्मेदसो वृद्धिर्मृदुस्तालफलोपमः”। नील-वर्त्तुलः। मूत्रजमाह
“मूत्रधारणशीलस्य मूत्रजः सतु गच्छतः। अम्भोभिः पूर्णदतिवत् क्षोभं याति सरुङ्मृदुः। मूत्रकृच्छ्रमधः कुर्य्यात् सञ्चलन् फलकोषयोः”। सञ्चलन् फलकोषयोरधः मूत्रकृच्छ्रं मूत्रेण व्यथां कु-र्यादित्यर्थः। अथान्त्रवृद्धिसाह
“वातकोपिभिराहारैःशीततोयावगाहनैः। धारणेरणभाराध्वविषमाङ्गप्रव-र्त्तनैः। क्षोभणैः क्षोभितोऽन्यैश्च क्षुद्रान्त्रावयवं यदा। पवनो विगुणीकृत्य स्वनिवेशादधो नयेत्। कुर्य्याद् वङ्क्षण-सन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा”। धारणम् उपस्थि-तस्य येमस्य। ईरणम् अनुपस्थितस्य वेगस्य प्रेरणम्। विषमाङ्गप्रवर्त्तनं वक्रत्वेनाङ्गमोटनम्। अन्यानि क्षो-भणानि बलवद्विग्रहकठारधनुराकर्षणादीनि तैः क्षो-मितः सन्दुष्य सञ्चालितः पवनः यदा क्षुद्रान्त्रावयवंविगुणीकृत्य स्वनिवेशादधो नयेत्। तदावङ्क्षणसन्धिस्थःअन्त्रवृद्धिरोगः। तस्यावस्थामाह।
“उपेक्ष्यमाणस्य मरुद्वि-वृद्धिमाधानरुक् स्तम्भमतोव कुर्य्यात्। प्रपीडितोऽन्तः-स्वनवान प्रयाति प्रध्मापयन्नेति पुनश्च मुष्कम्”। तत्रा-ध्मानमुदरे रुग् वृद्धयोर्मुष्कयोः स्तम्भो गात्रे तद्युक्तांकुर्य्यादित्यिर्थः। भोजोऽप्याह
“अन्त्रं विगुणमादायवातो नयति वङ्क्षणम्। वङ्क्षणात् तद्रुजायुक्तं फलकोषं[Page4949-b+ 38] प्रपद्यते” इति। स मुष्कवृद्धिरोगः अन्तः उदरे प्रध्माप-यन् आगमनमार्गं मिरुद्धं कुर्वन् एति आयाति। अथासाध्यमाह स कीदृक् स्यादित्याकाङ्क्षयामाह
“यस्या-न्त्रावयवाश्लेषो मुष्कयोर्वातसञ्चयात्। अन्त्रवृद्धिरसाध्यो-ऽयं वातवृद्धिसमाकृतिः”। वातवृद्धिपमाकृतिरिति यो-ऽन्त्रवृद्धिरोगः साऽसाध्या वातवृद्धिसमाकृतिः”। अन्त्र-वृद्धिशब्दे

२०

८ पृ॰ सुश्रुताक्तं दृश्यम् नीतिक्षयादित्रिवर्गान्तर्गते

७ वर्गघटकुपदार्थे
“क्षयः स्थानञ्च वृद्धिश्चत्रिवर्गो नीतिवेदिनाम्” अमरः।
“कृषिर्वाणक् पथोदुर्गंसेतुःकुञ्जरबन्धतम्। कत्यःकरवतादान सैन्यानाञ्च विना-शनम्”। एतेषामष्टानामन्यतमस्य क्षयं स्थान वृद्धिश्चेत्यर्थः।

८ कलान्तरे (सुद) वृद्धिस्वरूपभेदादिकं वीरमि॰ उक्तंयथा नारदः
“वृद्धिश्चतुर्विधा प्रोक्ता ग्रञ्चधाऽन्यैःप्रकीर्त्तिता। षड्विधाऽन्यैः समाख्याता तत्त्वतस्तांनिवाधत” इति। षड्विधा मे इति क्वचित् पाठःतत्र मे मते। तान् प्रकारान् स एवाह
“कायिका

१ कालिका

२ चैव चक्रवृद्धि

३ रतोऽपरा। कारिता

४ सशिखा

५ वृद्धिर्भोगलाभ

६ स्तथैव चेति”। एतेषां स्वरूपगाह
“का-यिका कर्मसंयुक्ता मासग्राह्या तु कालिका। वृद्धेर्वृद्धि-श्चक्रवृद्धिः कारिता ऋणिना कृता। प्रत्यहं गृह्यतेया तु शिखावृद्धिस्तु सा स्मृता। गृहात्तोषः फलंक्षेत्राद् भ गलाभः प्रकीर्त्तितः” इति। कायिका कर्म-संयुक्ता यत्र बन्धकीकृतस्य गवाश्वादेर्दोहनवाहनादिकंकर्स वृद्धित्वेन परिकल्पितं तत्र सा कायिकेत्यर्थः। तथाच व्यासः
“दोह्यवाह्यकर्मयुता कायिका समुदाहृतेति”। मदनरत्ने तु भोग्याधितया स्थापितस्य यो दोहनवाहना-दिकर्मरूपैर्मोगस्ततफलिका या वृद्धिः सा कायिकेत्यु-क्तम्। मासग्राह्या तु कालिका प्रतिमासं लभ्या यावृद्धिः सा कालिकेत्यर्थः।
“प्रतिसासं स्रवन्ती या वृद्धिःसा कालिका मतेति” नारदवचनात्। वृद्धेर्वृद्धिश्चक्रवृद्द्धिः। वृद्धेरपि प्रतिमासं मूलभावेन पुनर्वृद्धिरित्यर्थः।
“वृद्धेरपि पुनर्वृद्धिश्चकवृद्धिरुदाहृतेति” नारदवचनात्। कारिता ऋणिना कृता। ऋणिनाऽधमर्णेन स्वे-च्छया कृता वृद्धिः कारितेत्यर्थः।
“वृद्धिः साकारिता नाम यर्णिकेन स्वयं कृतेति” नारदवचनात्। अधमर्णकारितैव वृद्धिर्देया नोत्तमर्णकारिता तथाच वृहस्पतिः
“ऋणिकेन तु या वृद्धिरधिका सम्प्र-कल्पिता। आपत्कालकृता नित्यं दातव्या सा तु का-[Page4950-a+ 38] रिता। अन्यथा कारिता वृद्धिर्न दातव्या कथञ्चनेति”। उत्तमर्णप्रलोमनार्थम् आपत्कल शास्त्रोक्तादधिका स्वयंकुल्पिता कारिता या सा सुद्धिर्दातव्या न पुनरनेवंविधाधनिकेन कारिता दातव्येत्यर्थः।
“प्रत्यहं गृह्यते या तुशिखावृद्धिस्तु सा स्मृता”। प्रतिदिनलभ्यात्मशिखासादृ-श्याच्छिस्वावृद्धिरिति व्यपदिश्यत इत्यर्थः। किंपुनः शि-खासादृश्यं वृद्धेरित्याकाङ्क्षायां वृहस्पतिरेवाह
“शि-खेव वर्द्धते नित्यं शिरश्छेदान्निवर्त्तते। मूले दत्ते तथै-वैषा शिखावृद्धिस्तु सा स्मृतेति”। प्रत्यहं गृह्यत इति अधर्मणप्रतिश्रुतदिनसंख्यया वृद्धिग्रहणकालोपलक्षणम्। तथा च कात्यायनः
“प्रतिकालन्ददात्येव शिखावृद्धिस्तुसा स्मृतेति”।
“गृहात्तोषः फल क्षत्राद् भोगलाभः प्रकी-र्त्तितः”। बन्धकीकृताद् गृहान्निवासादिजनितः स-न्तोषः। क्षेत्रात् शस्यादिफलञ्च भोगलाभाख्यो वृद्धिप्रकार इत्यर्थः। गृहक्षेत्रग्रहणं स्थावरात्मकभोग्याधे-रुपसक्षणार्थम्। अतएव कात्यायनः
“काधेर्भोगस्त्वशेषो यो वृद्धये पारकल्पितः। प्रयोगे यत्र चैवं स्या-दाविभोगः स उच्यते” इति। यस्मिन् ऋणादानप्रयोगेस्वावराधित्वेन परिकल्पिता या वृद्धिस्तत्र सा वृद्धिरा-धिभोग इत्युच्यते इत्यर्थः। अपरार्कादौ
“गृहात् स्तोमःशदः क्षेत्रादिति पाठः”। स्तोमो भाटक इति कल्प-तरौ। शदः शस्यादिफलम्। वृद्धेः परिमाणं दर्शयतिमनुः
“वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्द्धिनीम्। अशीतिभागं गृह्णीयात् मासाद्वार्धुषिकः शते” इति। निष्कशते प्रयुक्ते मासस्य सपादनिष्कपरिमितां वृद्धिंवार्धुषिको वृद्ध्यर्थं गृह्णीयादित्यर्थः। एतत्सबन्धकविषयम्। अतएव याज्ञवल्क्यः
“अशीतिभागो वृद्धिः स्या-न्मासिमासि सवन्धके। वर्णक्रमाच्छत द्वित्रिचतुःपञ्चक-मन्यथेति”। सबन्धके पयुक्तस्य द्रव्यस्याशीतितमो भागोवृद्धिः पणशते प्रयुक्ते सपादः पणः प्रतिमास बर्द्धत इ-त्यर्थः। अन्यथा बन्धकराहित्ये वर्णक्रमात् ब्राह्मणादि-वर्णक्रमेण द्वित्रिचतुःपञ्चक शतन्धर्म्य भवति। द्वौ वात्रयो वा चत्वारो वा इति द्वित्रिचतुःपञ्चा अस्मिन् शतेवृद्धिर्द्दीयते इति द्वित्रिचतुःपञ्चकं शतम्।
“तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते” पा॰ कन्। तथा चाय-मर्थः। बन्धकरहिते पणशतं प्रति प्रतिमासं ब्राह्मणात्पणदृय क्षत्रियात् पणत्रयं वैश्यात् पणचतुष्टयं शूद्रात्पणपञ्चक ग्राह्यम्। यत् तु मनुनोक्तम्।
“द्विकं शतं[Page4950-b+ 38] वा गृह्णीयात् सतान्धर्ममनुस्मरन्निति” तद्व्यवस्थितवि-कल्पविषयम्। अतएव व्यासः
“सबन्धे भाग आशीतःषाष्टभागः सलग्नके। निराधाने द्विकशतं मासलाभउदाहृतः” इति। सबन्धे आधिसहिते। आशीतःअशीततमः। षाष्टः षष्टितमः। लग्नकः प्रतिभूः। नि-राधाने बन्धकरहिते। आधानग्रहणं प्रतिभुवोरप्युप-लक्षणम्। कल्पतरौ साष्टभाग इति पठित्वा सलग्नकेअशीततमो भागः स्वकीयाष्टमसहितो मासवृद्धिरि-त्युक्तम्
“द्विकन्त्रिकञ्चतुष्कञ्च पञ्चकञ्च शतं समम्। मासस्य वृद्धिं गृह्णोयाद् वर्णानामनुपूर्वशः” इति। द्विकंद्वौ वृद्धिर्दीयते यस्मिन्मूलधने तत् तथा। एवं त्रिका-द्यपि सममात्रं प्राप्य नाधिकम्। विष्णुरपि
“अथोत्त-मर्णेऽधमर्णकादयथादत्तमर्थं गृह्णीयात्। द्विकन्त्रिकञ्च-तुष्कं पञ्चकं शत वर्णानुक्रमेण प्रतिभासमिति”। ध-मर्णविशेषेऽप्याह याज्ञवल्क्यः
“कान्तारगास्तु दशकंसामुद्रा विंशकं शतमिति”। ऋण गृहीत्वा कान्तारंमहावनन्तद्गच्छन्तोति कान्तारगा दुर्गस्थलगन्तारो व-स्त्रादिक्रयकारिणः पणशतस्य दशकं प्रतिमासं दश-पणान् दद्युरित्युत्तरवाक्यस्थस्यानुपङ्गः। समुद्रन्तरन्तीतिसामुद्राः समुद्रगन्तारः प्रतिमासं विंशकं शतं दद्यु-रित्यर्थः। कारितायान्तु न नियम इत्याह स एव
“दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिष्विति”। सर्वेत्र ह्मणादयोऽधमर्णाः सबन्धकेऽबन्धके वा सर्वासु जाति-षूत्तमर्णभूतासु स्वयमङ्गीकृतां वृद्धिं दद्युरित्यर्थः। द्रव्य-विशेषे वृद्धिविशेषषाह स एव
“सन्ततिस्तु पशुस्त्राणांरसस्याष्टगुणा परा। वस्त्रधान्यहिरण्यानाञ्चतुस्त्रि-द्विगुणा परेति”। पशुस्त्रोणां महिषीस्त्रोप्रभृतोनांवृद्ध्यर्थं प्रयुक्तानान्तदीया सन्ततिरेव वृद्धिः। रसस्यवृतादरष्टगुणा। वस्त्राणाञ्चतुर्गुणा घान्यानान्त्रगुणा। हिरण्यानां द्विगुणा परेति प्रत्येकं सम्बन्ध्यते। परा प-रमा। अतःपरमधिका वृद्धिर्नास्तीत्यर्थः। न च गवा-दीनाम् ऋणत्वेन दानन्न सम्भवतीति वाच्यम्। तत्पोष-णाद्यशक्तस्य तत्पुष्टिसन्तत्याद्यर्षिनो दानसम्भवात्। ग्रहणन्तु क्षीरवाहनसेवार्थिनः। वृहस्पतिरपि
“हि-रण्ये द्विमुणा वृद्धिस्त्रिगुणा वस्त्रकुष्यके। धान्ये च-तुगुणा प्रोक्ता शदवाह्यलवेषु च। उक्ता पञ्चगुणा शाकेवीजेक्षौ षड्गुणा स्मृता। लवणस्त्रेहमद्येषु वृद्धिरष्ट-गुणा मता। गुडे मघुनि चैवोक्ता प्रयुक्ते चिरकालिके” [Page4951-a+ 38] इति। कुप्यं त्रपुसीसकादिकम्। शदः क्षेत्रफलम्। तच्च गोवलीवर्दन्यायाद्धान्यव्यतिरिक्तं पुष्पमूलफलादिकम्।
“वाह्योऽश्वादिः। लवो मेषोर्णाचमरीकेशादिः। अत्रचिरकालशब्देन प्रतिश्रुतायाः अशीतिभागायाः वृद्धे-र्यस्मिन् समये द्वैगुण्यादिप्रापकत्वंसम्भवति। ततोऽधिकःकाला गृह्यते। यत् तु
“धान्ये शदे लवे वाह्ये इत्यादि-मनुनोक्तं तत्प्रत्यर्पणसमये समृद्धाधमर्णविषयम्। षाड्गु-ण्यनिषेधपरमिति मदनरत्ने। यत् तु वसिष्ठवचनम्
“द्विगुणं हिरण्यं त्रिगुणं धान्य धान्येनैव रसाव्याख्याताः। पुष्पमलफलानि च तुलाधृत{??}ष्टगुणमिति” तत्त्रिगुणमेव धान्यादिक दातव्यमिति यत्र देशे स्थितिस्तद्विषयम्। दरिद्राधमर्णविषय वा एवमन्यत्रापि न्यू-नाधिकपरमवृद्धिप्रतिपादकानि वचनानि देशविशेषविष-यतया दरिद्रादिविषयतया वा व्यवस्थापनीयानि। व्यासोऽपि
“वदन्त्यष्टगुणान् काले मद्यस्नेहरसासवानिति” स्नेहस्तैलादिः। रसः क्षीरादिः। कात्यायनोऽपि
“तै-लानाञ्चैव सर्वेषां मद्यानां मधुसर्पिषाम्। वृद्धिरष्ट-गुणा ज्ञेया गुडस्य लवणस्य चेति”। विष्णुरपि
“हिरण्यस्य द्विगुणा वृद्धिस्त्रिगुणा वस्त्रस्य धान्यस्य च-तुर्गुणा रसस्याष्टगुणा सन्ततिः स्त्रीपशूनामिति”। व्या-सोऽपि
“शाकपाषाणवीजेक्षौ षड्गुणा परिकीर्त्तिते” ति। वसिष्ठोऽपि
“वज्रशुक्तिप्रबालानां हेम्नश्च रजतस्य च। द्विगुणा त्विष्यते वृद्धिः कृतकालानुसारिणीति”। शुक्ति-शब्देनात्र मुक्ताफलं लक्ष्यते वज्रसाहचर्य्यात्। अतएवकात्यायनः
“मणिमुक्ताप्रबालानां सुवर्णरजतस्य च। तिष्ठतो द्विगुणा वृद्धिः फलकैटाविकस्य चेति”। कैटङ्की-टोद्भवम् पट्टसूत्रादि। ओविक कम्बलादिकम्। वसि-ष्ठाऽपि
“ताम्रायःकांस्यरीतीनां त्रपुणः सीसकस्यच। त्रिगुणा तिष्ठतो वृद्धिः कालाच्चिरकृतस्य तु” इति। रीतिरारकूटम्। देशभेदेन परां वृद्धिं दर्शयति ना-रदः
“ऋणानां सार्वभौमोऽयं विधिर्वृद्धिकरः स्मृतः। देशाचारस्थितिस्त्वन्या यत्रर्णमवतिष्ठते। द्विगुणं त्रिगुण-ञ्चैव तथान्यणि श्चतुर्गुणम्। तथाष्टगुणमन्यास्मन् तत्तु देशेऽवतिष्ठते” इति। यत्र वृद्धिविशेषो न श्रूयते तत्रद्विगुणैव ग्राह्यत्याह विष्णुः
“अनुक्तानां द्विगुणेति” अयञ्च द्वैगुण्यादिरूपो वृद्ध्युपरमः सकृत्प्रयोगे सकृदाहरणे वेदितव्यः तथा च मनुः
“कुसीदवृद्धिर्द्वैगुण्य-न्नात्येति सकृदाहितेति”। उपचयार्थं प्रयुक्तं द्रव्यं[Page4951-b+ 38] कुसीदं तस्य वृद्धि कुसीदवृद्धिर्द्वैगुण्यन्नत्येति नाति-क्रामति। यदि सकृदाहिता सकृत् प्रयुक्ता पुरुषान्तर-संक्रमणादिना प्रयोगान्तरकरणेन तस्मिन्नेव वा पुरुषे-रेकसेकाभ्यां प्रयोगान्तरकरणे द्वैगुण्यमतिक्रम्य पूर्वव-द्वर्द्धत एवेत्यर्थः। द्वैगुण्यग्रहणं त्रैगुण्यादीनामुप-लक्षणम्। सकृदाहृतेति पाठे यदि प्रतिमासं प्रतिबत्-सरं वा न गृह्यते किन्तु सकृद् गृह्यते तदा द्वैगुण्य-न्नातिक्रामतीत्यर्थः। गौतमोऽपि
“चिरस्थाने द्वै-गुण्यं प्रयोगस्येति”। प्रयोगस्येत्येकवचननिर्देशात् प्रयो-गान्तरकरणे द्वैगुण्यातिक्रमः चिरस्थान इति निर्देशात्शनैः शनैर्वृद्धिग्रहणे द्वैगुण्यातिक्रमो भवतीति सूचि-तम्। उक्तस्य वृद्ध्यु परमस्य क्वचिद् द्रव्यविशेषेऽपवा-दमाह वृहस्पतिः
“तृणकाष्ठोष्टकासूत्रकिण्वचर्मा-स्थिवर्मणाम्। हेतिपुष्पफलानाञ्च वृद्धिस्तु न निव-र्त्तते”। किण्वं सुराद्रव्यापादानकारणभतो मलविशेषःचर्म शरादिनिवारकफलकः वर्म कवचम्। हेतिरायु-धम्। पुष्पफलयोर्वृद्धेरनिवृत्तिः प्रतिदानवेलायामत्यन्तसमर्थाधमर्णविषया देशविशेषविषया वा वेदितव्या। अन्यथा त्रिगुणवृद्धिप्रतिपादकव्यासवचनविरोधः स्यात्। विष्णुरपि
“किण्वकार्पाससूत्रवर्मचर्मायुधेष्टकाङ्गाराणा-मक्षयेति”। कार्पासे तु षड्गुणवृद्धिविधायकव्यासवचन-विरोधः पूर्ववत्परिहरणीयः। वसिष्ठोऽपि
“दन्तचर्मा-स्थिशृङ्गाणां मृण्मयानान्तथैव च। अक्षया वृद्धिरे-तेषां पुष्पमूलफलस्य च” इति। अक्षया मूलप्रतिपादनाभावे शतगुणापि वर्द्धत एवेत्यर्थः। शिखावृद्ध्यादीना-मनुपरसमाह वृहस्पतिः
“शिखावृद्धिङ्कायिकाञ्च भो-गलाभं तथैव च। धनी तावत् समादद्याद् यावन्मूलन्न शोचितम्”। न शोधितन्न प्रतिदत्तमृणिकेनेत्यर्थःक्वचिदनङ्गीकृतापि वृद्धिर्भवतीत्याह विष्णुः
“यो गृ-होत्वा ऋणं पूर्णं श्वा दास्यामीति सामकम्। न दद्या-ल्लाभतः पश्चात्तदह्नाद् वृद्धिमाप्नुयात्” इति श्व इतिप्रतिश्रुतस्य प्रतिदानकालावधेरुपलक्षणम्। सममेव साम-कम् अवृद्धिकमिति यावत्। योऽमुकस्मिन् दिने सममे-वाह त्वदीयं धनं पूर्णं समग्रं दास्यामोति प्रतिज्ञाय ऋणंगृहीत्वा पश्चाल्लोभाद्विलम्बं कुर्य्यात् सोऽवधिदिनमारभ्यवृद्धिं दद्यादित्यर्थः। कालावध्यनङ्गीकारेण गृहीतस्यधनस्य षण्मासादूर्ध्वं वृद्धिर्भवतीत्याह नारदः
“नवृद्धिः प्रीतिदत्तानां स्यादनाकारिता क्वचित्। अना-[Page4952-a+ 38] कारितमप्यूर्द्ध्वं वत्सरार्द्धाद्विवर्द्धते” इति। अनाकारिताअनङ्गीकृता। प्रोतिदत्तानां प्रतियाचनप्रतिदानदिनानिर्दे-शशून्यानामिति शेषः। अनाकारितेत्यादेरयमर्थः। वृ-द्धिमकृत्वा गृहीतमपि षण्मासादूर्द्ध्व प्रीतिदत्त वृद्धिंप्राप्नोतीति। प्रतियाचितस्य प्रीतिदत्तस्याऽदाने वृद्धिवि-शेषमाह कात्यायनः
“प्रीतिदत्तन्न वर्द्धेत यावन्न प्रति-याचितम्। याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं शतम्” इति। पञ्चकं पञ्चाधिकम् प्रतियाचनदिनमारभ्य पणशतस्यपणपञ्चकं प्रतिमासं वर्द्धते इत्यर्थः। याचितकं गृ-हीत्वा अप्रतिदत्त्वैव देशान्तरगमने विशषमाह कात्या-यनः
“यो याचितकमादाय तमदत्त्वा दिशं व्रजेत्। ऊर्द्ध्व संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात्” इति। एतच्चाप्रतियाचितविषयम्। प्रतियाचिते याचितकम-दत्त्वा यदि देशान्तरङ्गच्छति तदा विशेषमाह स एव
“कृतोद्धारमदत्त्वा यो याचितस्तु दिशं व्रजेत्। ऊर्द्ध्वंमासत्रया{??}स्य तद्धनं वृद्धिमाप्नुयात्” इति। कृतोद्धारं याचितकं गृहीत्वा याचितोऽप्यदत्त्वेत्यन्वयः। देशान्तरगमनाभावे तु याचितकालमारभ्य याचितकस्यवृद्धिविशेषसाह स एव
“स्वदेशेऽपि स्थितो यस्तु न द-द्यात् याचितः क्वचित्। तं ततो कारितां वृद्धिमनि-च्छन्तञ्च दापयेत्” इति। ततः प्रतियाचनकालादा-रभ्येत्यर्थः। एतत्कञ्चिदवधिमपरिकल्प्य याचञाप्राप्तेज्ञेयम्। अवधिं स्वीकृत्य तदतिक्रमे त्वतिक्रमदिनमारभ्यतद्धनस्य वृद्धिर्ज्ञेया।
“तदह्नाद् वृद्धिमाप्नुयादिति” न्या-यसाम्यात्। गृहीतपण्यो मूल्यमदत्त्वा देशान्तरगमनेवृद्धिविशेषमाह स एव
“पण्यं गृहीत्वा यो मूल्यमदत्त्वैवदिशं व्रजेत्। ऋतुत्रयस्योपरिष्टात्तद्धनं वृद्धिमाप्नुयात्” इति। एतच्चापतियाचितविषयम्। प्रतियाचने त्वेतस्यनिक्षिप्तवृद्धिशेषयाश्च तद्दिनमारभ्य प्रतिमासं शते पञ्चकंवर्द्धत इत्यप्याह स एव
“निःक्षिप्तं वृद्धिशेषञ्च क्रयवि-क्रय एव च। याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं शतम्” इति। नन्वकृतायां वृद्धौ परिमाणविशेषस्यानुक्तेः किंपरिमाणं ग्राह्यमिति चेत्। अशीतिभागो वृद्धिः स्यादित्यादि याज्ञवल्क्याद्युक्तपरिमाणं ग्राह्यमिति ब्रूमः। अतएव विष्णुः
“वृद्धिं दद्युर्वत्सरातिक्रमे यथामिहिता-मिति”। वत्सरातिक्रम इति यत्र यदतिक्रमे वृद्धिरुक्तातस्योपलक्षणम्। यथाभिहितां धर्मशास्त्र इति शेषः। धर्मशास्त्रे यथोक्तां तथाविधामित्यर्थः। ननु यथाभि-[Page4952-b+ 38] हितामित्यस्यार्थिप्रत्यर्थिनोरन्यतरेण मध्यस्थेन वामि-हितां दद्यादित्यर्थः कस्मान्न भवति अतिप्रसङ्गा-पत्तेः।
“कृतानुसारादधिका व्यतिरिक्ता न सिद्ध्यति। कुसीदपथमाहुस्तं पञ्चकं शतमर्हतीति मनूक्तेश्च। अ-स्यार्थः। शास्त्रविधिनियमितशास्त्रकृतवृद्ध्यनुसारी योवृद्धिग्रहणं लोकिकानां समाचारः तस्मादधिका वृद्धि-रुत्तमर्णादेरकृतवृद्धौ न सिद्ध्यति यतः सा व्यतिरिक्ता-धर्मशास्त्रवाह्या। अतएव कुसीदपथमाहुस्तन्न धर्मपथ-मिति। पञ्चकं शतमहतोति प्रतियाचितविषयमितिस्मृतिचन्द्रिकायाम्। पूर्वोक्ताच्छास्त्रानुसारादधिकाऽध-सर्णेनाकृता वृद्धिर्न सिध्यति। यतः कुसीदपथमाहुस्तम्। यदा तु व्यवहारावष्टम्भादुत्तमर्णोऽधिकमधमर्णेनाका-रितं लाभमिच्छति तदा ब्राह्मणे पञ्चकं शतं ग्रहीतु म-र्हति न ततोऽधिकसधमर्णाकारितमित्यर्थमाह रत्नाकरःअकृतवृद्धेरपवादमाह नारदः
“पण्यमूल्यं भृतिन्यासोदण्डो यश्च प्रकल्पितः। वृथादानाक्षिकपणा वर्द्धन्तेनाविवक्षिताः” इति। पण्यस्य वस्त्रादेर्मूल्यम्। भृति-र्वेतनम्। न्यासो निक्षेपः। वृथादानं वेश्यादिभ्यःप्रतिश्रुतम्। आक्षिकपणो द्यूतद्रव्यम्। अविवक्षिताः। अत्र पण्यमूल्यस्य वृद्धेरभावोक्तिः प्रवासप्रतियाचनयोर-भावे वेदितव्या अन्यथा पूर्वोक्तकात्यायनवचनेनविरोधः स्यात्। न्यासस्य च वृद्ध्यभाववचनं प्रतियाच-नाभावे
“न वृद्धिः स्त्रीधने लाभे निःक्षिप्ते च यथा-स्थिते। सन्दिग्धे प्रातिभाव्ये च यदि न स्यात् स्वयंकृतम्” इति संवर्त्तवाक्ये यथास्थितमिति विशेषणो-पादानाद् व्यक्त्यन्यथाकरणाभावे च ज्ञातव्यम्। तथाच निक्षिप्तं वृद्धिशेषञ्चेत्यादि पूर्वोक्तकात्यायनवचन-विरोधो न। कात्यायनोऽपि
“वर्मशस्यासवद्यूते पण्य-मूले च सर्वदा। स्त्रीशुल्केषु न वृद्धिः स्यात् प्रा-तिभाव्यागतेषु च” इति। सर्वदेत्यनेन प्रतियाचनादेः पर-स्तादपि वृद्धिरकृता नास्तीत्युक्तम्। यद्यपि सर्वदेतिसर्वशेषत्वात् पण्यमूल्येऽपि प्रतियाचनादेः परस्तादकृत-वृद्ध्युपरमः प्रतिभाति। तथापि पूर्वोक्तकात्यायनवचन-विरोधात् न तच्छेषता सर्वदेत्यस्य। एवञ्च पूर्वोक्त एवपरिहारः। एवं वर्सणोऽपि वृद्ध्यभावोक्तिः प्रति-याचनाभावे तथा च न तच्छेषतापि। एवञ्च न पूर्वो-क्ताक्षयवृद्धिप्रतिपादकवसिष्ठादिवचमविरोधः। अन्यत्रापिवृद्ध्यभावं व्यास आह
“प्रातिभाव्यम्भुक्तरन्धमगृही-[Page4953-a+ 38] तञ्च दित्सतः। न वर्धते प्रयत्नस्य दमः शुल्कं प्रतिश्रुतम्” इति। भुक्तबन्धमित्यनेन स्थापितस्य गुप्ताधेर्वस्त्रा-लङ्कारादेरुपभोगे वृद्धिर्नभवतीत्युक्तम्। अतएव गौ-तमः
“भुक्ताधिर्न वर्द्धते वस्त्रालङ्कारादिरिति” अ-गृहीतञ्च दित्सतः प्रतिदातुमिच्छोरधमर्णादुत्तम-र्णोवृद्धिलोभादिवशान्न यदा गृह्णाति तदा तस्य कृतापिवृद्धिस्तद्दिनादारभ्य न देयेत्यर्थः। तथा च याज्ञवल्क्यः
“दीयमानं न गृह्णाति प्रयुक्तं यत् स्वकन्धनम्। मध्यस्थस्थापितं तत्स्याद् वर्द्धते न ततःपरम्” इति। मध्यस्थस्थापितमिति विशेषणेनाधमर्णो यदि स्वनिकटेस्थापयति तदा भवत्येव वृद्धिरिति”।

९ शैलेयगन्धद्रव्येपु॰।

१० धने च राजनि॰।

शब्दसागरःसम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्धि¦ f. (-द्धिः)
1. Increase, augmentation in general, as in bulk, conse- quence, wealth, &c.
2. The third of the three conditions or objects of regal power, extension of power or revenue, or any indication of progression.
3. Rise, ascending, mounting.
4. Prosperity, suc- cess.
5. One of the eight principal drugs or medical roots, des- cribed as mild and cooling, sweet and bitter, &c., as a remedy for phlegm, leprosy and worms.
6. The eleventh of the astronomical [Page685-a+ 60] Yo4gas, or Yoga star of the 11th lunar mansion.
7. A particular period or division of time.
8. The increase of the digits of the sun or moon.
9. Enlargement of the scrotum, either from swelled tes- ticle or hydrocele or other morbid affections.
10. Interest, usury, especially returning the principal, (as in the case of seed corn lent,) with a proportionate increment.
11. Happiness, pleasure.
12. A heap, a quantity, assemblage, multitude.
13. Wealth, pro- perty.
14. Cutting off, abscission.
15. (In law,) Forfeiture, deduc- tion.
16. Profit, gain.
17. The lengthening of a vowel, the subs- titution of आ, ऐ, औ, आर् and आल् for अ, इ, उ, ऋ and लृ (short or long; in gram.) E. वृध् to increase, aff. कि, or क्तिन् or क्तिच् |

Apteसम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्धिः [vṛddhiḥ], [वृध्-क्तिन्]

Growth, increase, augmentation, development; पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः R.3.22; तपोवृद्धि, ज्ञानवृद्धि &c.

Waxing, increase of the digits of the moon; पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः R.5.16; Ku.7.1.

Increase in wealth, prosperity, affluence; वृद्धिकाले तु संप्राप्ते दुर्जनो$पि सुहृद्भवेत् Pt.2.112.

Success, advancement, rise, progress; परवृद्धिमत्सरि मनो हि मानिनाम् Śi.15.1.

Wealth, property.

A heap, quantity, multitude.

Interest; as in सरलवृद्धि, चक्रवृद्धि &c.; वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्धिनीम् Ms.8.14.

Usury; वृद्ध्या कृषिवणिक्त्वेन... स्वाध्यायगणितं महत् Mb.12.62.9.

Profit, gain.

Enlargement of the scrotum.

Extension of power or revenue.

(In gram.) The increase or lengthening of vowels, the change of अ, इ, उ, ऋ, short or long, and लृ to आ, ऐ, औ, आर्, and आल् respectively.

The impurity caused by child-birth in a family (called जननाशौच q. v.).

Cutting off.

(In law) Forfeiture (as of property).

(वृधु हिंसायाम्) Injury (पीडा); नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज Mb.5.135.29.

Elevation (of ground).

Prolongation (of life).-Comp. -आजीवः, आजीविन् m. a usurer, moneylender. -जीवनम्, -जीविका the profession of usury;-द a. promoting prosperity. -पत्रम् a kind of razor; Suśr. -श्राद्धम् an offering made to the Manes on prosperous occasions, such as the birth of a son (नान्दीश्राद्ध).

Monier-Williamsसम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्धि f. cutting off , abscission W.

वृद्धि f. (in law) forfeiture , deduction ib.

वृद्धि f. (for 1. See. p.1010) growth , increase , augmentation , rise , advancement , extension , welfare , prosperity , success , fortune , happiness RV. etc.

वृद्धि f. elevation (of ground) VarBr2S.

वृद्धि f. prolongation (of life) Pan5cat.

वृद्धि f. swelling (of the body) Sus3r.

वृद्धि f. enlargement of the scrotum (either from swelled testicle or hydrocele) ib.

वृद्धि f. swelling or rising (of the sea or of the waters) , waxing (of the moon) MBh.

वृद्धि f. gain , profit R. Subh.

वृद्धि f. profit from lending money etc. , usury , interest Mn. Ya1jn5. MBh. (the various kinds of interest recognized by Hindu lawyers are , 1. कायिका वृद्धि, " body-interest " i.e. either the advantage arising from the body of an animal pledged as security for a loan , or interest paid repeatedly without reducing the body or principal ; 2. कालिका व्, " time-interest " i.e. payable weekly , monthly , annually , etc. , but most usually computed by the month ; 3. चक्रव्, " wheel-interest " i.e. interest upon interest , compound interest ; 4. कारिता व्, " stipulated interest " , at a rate higher than the usual legal rate ; 5. शिखा-व्, " interest growing like a lock of hair " i.e. at a usurious rate payable daily Page1011,2 ; 6. भोग-लाभ, " advantage [accruing to a creditor] from the use " of objects handed over to him as security e.g. of lands , gardens , animals , etc. : " lawful interest " is called धर्म-व्, " usurious interest " अ-न्याय-व्, " interest at the highest legal rate " परम-व्) IW. 264

वृद्धि f. the second modification or increase of vowels (to which they are subject under certain conditions e.g. आis the वृद्धिof the vowel अ; ऐof इ, ई, and ए; औof उ, ऊ, and ओ; See. 2. वृद्धand कृत-वृद्धि) VPra1t. Pa1n2. Ra1jat. Sarvad.

वृद्धि f. one of the 8 principal drugs (described as mild , cooling etc. ; and a remedy for phlegm. leprosy , and worms) Sus3r. Bhpr.

वृद्धि f. N. of the 11th of the astrological योगs (or the योगstar of the 11th lunar mansion) L.

वृद्धि f. = वृद्धि-श्राद्धGr2S.

वृद्धि m. (with भट्ट)N. of a poet Cat.

Vedic Rituals Hindiसम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्धि स्त्री.
(वृध् + क्तिन्) सोम के सवन के समय यजमान द्वारा पढ़े जाने वाले मन्त्रों का नाम, श्रौ.को. (अं.) I.62०; विस्रंसिकाकाण्ड वृद्धि 367 अवोवृधम वो मनसा सुजाता------’ बौ.श्रौ.सू. 7.5; 8.1;

"https://sa.wiktionary.org/w/index.php?title=वृद्धि&oldid=504586" इत्यस्माद् पुनः प्राप्तिः