यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंस्ता, [ऋ] पुं, (शंस + “तृन्तृचौ शंसि- क्षदादिभ्यः संज्ञायां चानिटौ ।” उणा० २ । ९४ । इति तृन् । यद्वा, छन्दसि “ग्रसितस्क- भितस्तभितेति ।” ७ । २ । ३४ । इति निपातनात् साधुः ।) स्तोता । होता । इति संक्षिप्तसारोणादिवृत्तिः ॥ (प्रशास्ता । यथा, ऋग्वेदे । १ । १६२ । ५ । “होताध्वर्य्युरावया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः ॥” “शंस्ता प्रशास्ता ।” इति तद्भाष्ये सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=शंस्ता&oldid=169350" इत्यस्माद् प्रतिप्राप्तम्