यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्टाचारः, पुं, (शिष्ट आचारः । शिष्टानामा- चारो वा ।) साधुव्यवहारः । यथा, -- “ततः स्मार्त्तः स्मृतो धर्म्मो वर्णाश्रमविभागशः । एवं वै द्विविधो धर्म्मः शिष्टाचारः स उच्यते ॥ त्रयी वार्त्ता दण्डनीतिः प्रजा वर्णाश्रमेज्यया । शिष्टैराचर्य्यते यस्मात् शिष्टाचारः स शाश्वतः ॥ दानं यत्यं तपोऽलोभो विद्येज्या पूजनं दमः । अष्टौ वानि चरित्राणि शिष्टाचारस्य लक्ष- णम् ॥ शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ये । मन्वन्तरेषु सर्व्वेषु शिष्टाचारस्ततः स्मृतः ॥ श्रुतिस्मृतिभ्यां विहितो धर्म्मो वर्णाश्रमात्मकः । शिष्टाचारविवृद्धस्तु धर्म्मः स साधुसम्मतः ॥” इति मात्स्ये १२० अध्यायः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्टाचार¦ पु॰ शिष्टानामाचारः। सह्यवहारे
“ततः स्मार्त्तःस्मृतो धर्मो वर्णाश्रमविभागशः। एवं वै विविधो धर्मःशिष्टाचारः स उच्यते। त्रयी वार्त्ता दण्डनीतिः प्रजावर्णाश्रमेज्यया। शिष्टैराचर्य्यते यस्मात् शिष्टाचारःस शाश्वतः। दानं सत्यं तपोऽलोभो विद्येज्या पूजनंदमः। अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम्। शिष्टमस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ये। मन्वन्तरेषु सर्वेषुशिष्टाचारस्ततः स्मृतः। श्रुतिस्मृतिभ्यां विहितो धर्म्मोवर्णाश्रमात्मकः। शिष्टाचारविवृद्धस्तु धर्मः स साधुस-म्मतः” मत्स्यपु॰

१२

५ अ॰।
“आचारश्चैव साधूनामिति” मनुना तस्य धर्मे प्रामाण्यमुक्तं स च वेदाविरुद्ध एवप्रमाणम् श्रुतिस्मृत्योर्भिन्नविषयत्वे सदाचारेण तत्र धर्म-निर्णयः। श्रुतिविराधे स्मृतेरप्रामाण्यवत् स्मृतिविरोधेसदाचारस्य न धर्मनिर्णायकत्वम्। तेन दाक्षिणात्यानांमातुलकन्याविवाहस्य शिष्टैराचर्य्यमाणत्वेऽपि न प्रमा-णता। तदेतत्
“विरोधे त्वनपेक्षं स्यादसति ह्यनुसानंजैमि॰ सूत्रेण निर्णीतम्। वशिष्ठेनापि
“तदभावेशिष्टाचारः प्रमाणम्” इत्युक्तम्। ततश्च शिष्टाचारेणसूलस्मृतिरनुमीयते यथा होलकाद्याचारात्। ततःस्मृत्या मूलश्रुतिरनुयातव्येति अधिकरणमाला। अत-एव अविगोतशिष्टाचारपरम्पराप्राप्तं ग्रन्थादौ मङ्ग-लाचरणं मङ्गलवादादौ व्यवस्थापितम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्टाचार¦ mfn. (-रः-रा-रं) Well-behaved. m. (-रः) Good-manners, proper behaviour. E. शिष्ट, and आचार observance.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्टाचार/ शिष्टा m. practice or conduct of the learned or virtuous , good manners , proper behaviour Vas.

शिष्टाचार/ शिष्टा mfn. acting like a learned man , well-behaved MBh.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--characteristics of; eight limbs are gifts, truth, tapas, non-covetousness, learning, sacrifice, honour and modesty (giving birth to a son and sympathy-वा। प्।). Prac- tised by seven sages; the features of the above eight limbs; the शिष्टस् are Manu and the seven sages who promulgate laws relating to त्रयी, वार्ता and दण्डनीति, इज्या and Var- णाश्रम; the आचारस् are besides the two-fold श्रौत and स्मार्त dharma. Br. II. ३२. ३६; ३५. १९२; IV. 3. ४९; M. १४५. ३३-34. ३७, ३९, ४२-52; वा. ५९. ३३-37; १०२. ७०.

"https://sa.wiktionary.org/w/index.php?title=शिष्टाचार&oldid=438786" इत्यस्माद् प्रतिप्राप्तम्