यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्कोणम्, क्ली, लग्नात् षष्ठगृहम् । तत्तु रिपु- स्थानम् । यथा, -- “पातालं हिबुकं चैव सुहृदम्भश्चतुर्थकम् । त्रित्रिकोणञ्च नवमं दुश्चिक्यं स्यात् तृतीयकम् ॥ धीस्थानं पञ्चमं ज्ञेयं यामित्रं सप्तमं स्मृतम् । द्युनं द्युनं तथास्ताख्यं षट्कोणं रिपुमन्दिरम् ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ (षट् कोणा यस्य ।) वज्रम् । इति राज- निर्घण्टः ॥ षडस्रन्तन्त्रोक्तो यन्त्रभेदः । यथा, गणेशयन्त्रम् । “वीजं षट्कोणमध्यं स्फु रदनलपुरे तारगं दिक्षु लक्ष्मीः माया कन्दर्पभूमिस्तदनु रसपुटेष्वालिखेद्बीज- षट्कम् ।” इति तन्त्रसारः ॥

"https://sa.wiktionary.org/w/index.php?title=षट्कोणम्&oldid=172990" इत्यस्माद् प्रतिप्राप्तम्