यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडङ्गम्, क्ली, (षणां अङ्गानां समाहारः । शरी- रस्य षडवयवम् । यथा, -- “जङ्घे बाहू शिरो मध्यं षडङ्गमिदमुच्यते ॥” इति शब्दचन्द्रिका ॥ वेदाङ्गषट्शास्त्राणि । यथा, -- “शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा छन्दश्चेति षडङ्गानि वेदानां वैदिका विदुः ॥” इति शब्दरत्नावली ॥ * ॥ अपि च । अङ्गान्याह शिक्षापद्यम् । “छन्दःपादौ तु वेदस्य हस्तौ कल्पोऽथ कथ्यते । ज्योतिषामयनं नेत्रं निरुक्तं श्रोत्रमुच्यते ॥ शिक्षाघ्राणन्तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात् साङ्गमधीत्यैव ब्रह्ललोके महीयते ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ आद्यश्राद्धीयदानाङ्गपीठादिकम् । इति लोक- प्रसिद्धम् ॥ * ॥ षट्प्रकारगव्यविशेषः । यथा, -- “गोमूत्रं गोमयं क्षीरं सर्पिर्दधि च रोचना । षडङ्गमेतन्माङ्गल्यं पवित्रं सर्व्वदा गवाम् ॥ इति स्मृतिः ॥ * ॥ हृदयादिषडवयवम् । तत्प्रमाणं न्यासशब्दे द्रष्टव्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=षडङ्गम्&oldid=173016" इत्यस्माद् प्रतिप्राप्तम्