यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडशीतिचक्रम्, क्ली, (षडशीतेश्चक्रम् ।) मिथुन कन्याधनुर्म्मीनराशिस्थरवेः शुभाशुभफलज्ञानार्थं नक्षत्राङ्गनराकारचक्रम् । यथा, -- “मुखे चैकं करे वेदाः पादयुग्मे द्वयं द्वयम् । क्रोडे वाणस्तथा वेदाः करे सव्येतरेऽपि च ॥ द्वयं द्वयं तथा नेत्रे मस्तके त्रितयं तथा । द्वयञ्चैय तथा गुह्ये षडशीत्यां स्वभे स्थिते ॥ मुखे दुःखं करे लाभः पादयोर्भ्रमणं हृदि । कान्ता स्याद्बन्धनं वामे हस्ते स्यात् स्वीयभे नृणाम् ॥ सम्मानं नेत्रयोश्चैव अपमानञ्च मस्तके । गुह्ये चैव भवेन्मृत्युः षडशीतिफलश्रुतिः ॥” इति ज्योतिस्तत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=षडशीतिचक्रम्&oldid=173024" इत्यस्माद् प्रतिप्राप्तम्